अध्याय 24: होरासारोक्ताष्टकवर्गफलम्

फलदीपिका · Phaladeepika, chapter 24 (Ashtakavarga results (Horasara))

39 श्लोक · 5 श्लोक (आयु या मृत्यु से संबंधित) यहाँ नहीं दिखाए

  1. श्लोक 1अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः ।तद्राशिफलसंख्याभिर्वर्द्धयेच्छोध्यपिण्डकम् ॥१॥
  2. श्लोक 7चन्द्रात्सुखफलैः पिण्डं हत्वा सारावशेषितम् ।शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥७॥
  3. श्लोक 8चन्द्रात्सुखाष्टमेशांशत्रिकोणे दिवसाधिपे ।मातुर्वियोगं तन्मासे निर्दिशेल्लग्नतः पितुः ॥८॥
  4. श्लोक 9भौमात्तृतीयराशिस्थफलैर्भ्रातृगणं वदेत् ।बुधात्सखफलैर्बन्धुगणं वा मातुलस्य च ॥९॥
  5. श्लोक 10गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।शत्रुनीचग्रहं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥१०॥
  6. श्लोक 11गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥११॥
  7. श्लोक 12फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥१२॥
  8. श्लोक 13शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥१३॥
  9. श्लोक 14लग्नादिमन्दान्तफलैक्यसंख्यावर्षे विपत्तिस्तु तथार्कपुत्रात् ।यावद्विलग्नान्तफलानि तस्मिन्नाशो हि तद्योगसमानवर्षे ॥१४॥
  10. श्लोक 15अष्टमस्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ।फलमायुर्विजानीयात्प्राग्वद्वेलां तु कल्पयेत् ॥१५॥
  11. श्लोक 16त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।एकस्मिन् भवने शून्ये तत्त्रिकोणं न शोधयेत् ॥१६॥
  12. श्लोक 17भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥१७॥
  13. श्लोक 18त्रिकोणशोधनां कृत्वा पश्चादैकाधिपत्यकम् ।क्षेत्रद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥१८॥
  14. श्लोक 19ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥१९॥
  15. श्लोक 20फलाधिके ग्रहैर्यक्ते चान्यस्मिन् सर्वसुत्सृजेत् ।सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥२०॥
  16. श्लोक 21उभाभ्यां ग्रहहीनाभ्यां समत्वे सकलं त्यजेत् ।उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥२१॥
  17. श्लोक 22एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।द्वावग्रहौ चेद्यन्न्यूनं तत्तुल्यं शोधयेद्द्वयोः ॥२२॥
  18. श्लोक 23शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥२३॥
  19. श्लोक 24गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥२४॥
  20. श्लोक 25शेषाः स्वमानगुणिताः कर्किचापघटीझषाः ।एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥२५॥
  21. श्लोक 26जीवारशुक्रसौम्यानां दशवसुसप्तेन्द्रियैः क्रमाद्गुणिताः ।बुधसंख्या शेषणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥२६॥
  22. श्लोक 27एवं गुणित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।सप्तविंशहृताल्लब्धवर्षाण्यत्र भवन्ति हि ॥२७॥
  23. श्लोक 28द्वादशाद्गुणयेल्लब्धा मासाहर्घटिकाः क्रमात् ।सप्तविंशति वर्षाणि मण्डलं शोधयेत्पुनः ॥२८॥
  24. श्लोक 29अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥२९॥
  25. श्लोक 30शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥३०॥
  26. श्लोक 31वहुत्वे हरणे प्राप्ते कारयेद्बलवत्तरम् ।पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥३१॥
  27. श्लोक 32मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥३२॥
  28. श्लोक 33एवं ग्रहाणां सर्वेषां दशां कुर्यात् पृथक् पृथक् ।अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥३३॥
  29. श्लोक 34बालो बलिष्ठो लवणागमोसुरो रागी मुरारिः शिखरीन्द्रगाथया ।भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुराणमैथिली ॥३४॥
  30. श्लोक 35रुद्रः परं गह्वरभैरवस्थली रागी बली भास्वरगीर्भगाचलाः ।गिरौ विवस्वान्बलवद्विवक्षया शूली मम प्रीतिकरोऽत्र तीर्थकृत् ॥३५॥
  31. श्लोक 36सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥३६॥
  32. श्लोक 37त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥३७॥
  33. श्लोक 38मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥३८॥
  34. श्लोक 39मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥३९॥
  35. श्लोक 40षष्ठाष्टमव्ययांस्त्यक्त्वा शेषेष्वेव प्रकल्पयेत् ।श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥४०॥
  36. श्लोक 41लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥४१॥
  37. श्लोक 42तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।एवं मन्दादि लग्नान्तं भौमराह्वोस्तथा फलम् ॥४२॥
  38. श्लोक 43शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥४३॥
  39. श्लोक 44सङ्ग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥४४॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।