अध्याय 23: अष्टकवर्गः
फलदीपिका · Phaladeepika, chapter 23 (Ashtakavarga)
24 श्लोक
- श्लोक 1गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाभ्युपलब्ध्यै ।अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥१॥
- श्लोक 2आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्ताम् ।तत्तद्ग्रहर्क्षात्क्रमशोऽष्टवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥२॥
- श्लोक 3पुत्रीवसाहिधनिकेऽर्ककुजार्कजेभ्योमुक्ताळके सुरगुरोर्भृगुजात्तथाश्रीः ।ज्ञाद्गोमतीधनपरा रविरिष्टदोऽब्जा-द्गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥३॥
- श्लोक 4गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेःभौमाच्छ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् ।जीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञयामन्दाद्वाणचये तनोर्गतिनये चन्द्रः शुभो गोचरे ॥४॥
- श्लोक 5तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः ।तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुकोलग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥५॥
- श्लोक 6सौम्याद्योगशतं धनैः कुरुरवेर्मोपाधिकश्रीर्गुरोःतेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् ।पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥६॥
- श्लोक 7मार्ताण्डात्करलाभसज्जधनिके चन्द्राद्द्रुमेसाळिकेभौमात्कि प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् ।पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेःश्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥७॥
- श्लोक 8जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोळिपुत्रे तनोःपौरे लाभमदाळिके कुरुलवं मोहे धनेढ्ये भृगोः ।लोभस्ताळिपरे कुजाद्रविसुताद्गर्भं महाब्धौ नयेज्ञाल्लक्ष्मीचुळके गुरोर्मदधनाढ्योऽसौ भृगुः सौख्यदः ॥८॥
- श्लोक 9रवेर्यात्रावीथीजनय शशिनो लक्ष्य शनेःगुणेस्तुत्यो भौमाद्गणितनिकरोसौ शुभकरः ।शताकारे जीवात्तदधनपरे ज्ञादुदयभात्कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥९॥
- श्लोक 10इति निगदितमिष्टं नेष्टमन्यद्विशेषा-दधिकफलविपाकं जन्मिनां तत्र दद्युः ।उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टंत्वपचयगृहनीचारातिगैर्नष्टसम्पत् ॥१०॥
- श्लोक 11कृत्वाष्टवर्गं द्युसदां क्रियादिष्वक्षैर्विहीने मृतिरेकबिन्दोः ।नाशो व्ययो भीतिभयार्थनारीश्रीराज्यसिद्धिः क्रमशः फलानि ॥११॥
- श्लोक 12तत्तद्ग्रहाधिष्ठितसर्वराशींस्तत्संज्ञितं लग्नमिति प्रकल्प्य ।तेभ्यः फलान्यष्टविधान्यभूवंस्तत्तद्ग्रहाद्भाववशाद्वदन्तु ॥१२॥
- श्लोक 13तत्तद्ग्रहर्क्षांशकतुल्यभांशस्थिता ग्रहाश्चारवशादिदानीम् ।तथैव तद्भावसमुत्थितानि फलानि कुर्वन्ति शुभाशुभानि ॥१३॥
- श्लोक 14कृतेऽष्टवर्गे सति कारकर्क्षाद्यद्भावमुक्ताङ्कमुपैति खेटः ।तद्भावपुष्टिं सशुभोऽशुभो वा करोत्यनुक्ते विपरीतमेव ॥१४॥
- श्लोक 15एकत्र भावे बहवो यदानीमुक्ताङ्कगाश्चारवशाद्व्रजन्ति ।पुष्णन्ति तद्भावफलानि सम्यक्तत्कारकात्तत्तनुपूर्वभावे ॥१५॥
- श्लोक 16बिन्दौ स्थिते तत्फलसिद्धिकालविनिर्णयाय प्रहितेऽष्टवर्गे ।भान्यष्टधा तत्र विभज्य कक्षाक्रमेण तेषां फलमाहुरन्ये ॥१६॥
- श्लोक 17आलिख्य चक्रं नव पूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः ।प्रस्तारकं षण्णवतिप्रकोष्ठं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥१७॥
- श्लोक 18होराशशीबोधनशुक्रसूर्यभौमामरेन्द्रार्चितभानुपुत्राः ।याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तद्बिन्दुफलप्रदाः स्युः ॥१८॥
- श्लोक 19राश्यष्टभागप्रथमांशकाले शनिर्द्वितीये तु गुरुः फलाय ।कक्षाक्रमेणैवमिहान्त्यभागकाले विलग्नं फलदं प्रदिष्टम् ॥१९॥
- श्लोक 20सर्वग्रहाणां प्रहितेऽष्टवर्गे तत्कालराशिस्थितबिन्दुयोगे ।अष्टाक्षसंख्याधिकबिन्दवश्चेच्छुभं तदूने व्यसनं क्रमेण ॥२०॥
- श्लोक 21यावन्तस्तुहिनरुचेः शुभाङ्कसंस्थायावन्तः शुभभवने हिमद्युतेर्वा ।इत्थं तद्विदितमिहाधिके च तेभ्यःस्वस्त्यूने विपदिति सूचितं परेषाम् ॥२१॥
- श्लोक 22कर्तुः स्वजन्मसमयावसथग्रहाणां कृत्वाष्टवर्गकथिताक्षविधानमत्र ।बह्वक्षयोगवशतः शुभराशिमासभावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥२२॥
- श्लोक 23पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम् ।नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥२३॥
- श्लोक 24स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि ।सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥२४॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।