अध्याय 22: कालचक्रदशादि

फलदीपिका · Phaladeepika, chapter 22 (Kalachakra dasha and other systems)

16 श्लोक · 16 श्लोक (आयु या मृत्यु से संबंधित) यहाँ नहीं दिखाए

  1. श्लोक 1दस्रादितः पादवशेन मेषान्मीनांशकान्तं क्रमशोऽपसव्यम् ।कीटाद्धयान्तं गणयेच्च सव्यमार्गेण पादक्रमशोऽजतारात् ॥१॥
  2. श्लोक 2एवं भूयाच्चापसव्यं च सव्यं भानि त्रीणि त्रीणि विद्यात्क्रमेण ।तद्राशीशप्रोक्तवर्षैर्दशा स्यादेवं प्राहुः कालचक्रे महान्तः ॥२॥
  3. श्लोक 3मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् ।दिवाकरादिवत्सराः शुभाशुभाप्तिहेतवः ॥३॥
  4. श्लोक 4दशापहारादिककालचक्रे वाक्यानि दस्रादिपदादिजानि ।वक्ष्यामि वर्णैर्नवभिर्भमानै राशीशवर्षैः परमायुरत्र ॥४॥
  5. श्लोक 5पौरं गावो मित सन्दिग्धं नक्षत्रेन्दुः स तु भूशूलम् ।रूपेत्रक्षन्निधयोरङ्गे वाणी चस्थं दधि नक्षत्रम् ॥५॥
  6. श्लोक 6दासतवेशो गौरीपुत्रं क्षन्निधिकारो गोभूशेषम् ।सौदधिनक्षत्रेहासन्तो भौमगुरुः पुत्राक्षोनाधिः ॥६॥
  7. श्लोक 7वाक्यान्येतान्यश्वियाम्यर्क्षयोर्यान्यश्विन्याद्यान्यग्निभस्यापसव्ये ।सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्येष्विन्दोर्वाक्यान्येव रौद्रस्य भूयः ॥७॥
  8. श्लोक 8धेनुः क्षेत्रे पुरगो शंभुस्तासां जत्रु क्षन्निधि दासी ।चर्माभोगी रायधिनाक्षस्त्री पौराङ्गी शिवतीर्थाब्जे ॥८॥
  9. श्लोक 9त्रक्षनिधिर्दा सूचीशंभो गौरयधी नक्षत्रं पारम् ।गोशिवतीर्थं दात्रीक्षन्नो धीहसितांशुर्भोगी रम्या ॥९॥
  10. श्लोक 10नक्षत्रपादैष्यघटी समुत्था पूर्वा दशा तत्पतिवर्षजाता ।पूर्वोक्तपादक्रमशोऽत्र विद्यात्केषांचिदेवं मतमाहुरार्याः ॥१०॥
  11. श्लोक 11दस्रादिपादप्रभृतीनि भानां वाक्यानि यान्यक्षरपङ्क्तिजानि ।तेषां क्रमेणैव दशा प्रकल्प्या वाक्यक्रमं साध्विति केचिदाहुः ॥११॥
  12. श्लोक 12वाक्यक्रमे कर्क्यलिमीनसन्धौ मण्डूकगत्यश्वचरप्लुतिश्च ।सिंहावलोकस्त्रिविधा तदानीं दशान्तरं दुःखफलप्रदं स्यात् ॥१२॥
  13. श्लोक 13तद्वाक्यवर्णक्रमशोपहारवर्षाहते तत्परमायुराप्ते ।तदा दशायामपहारवर्षसंख्याश्च मासान्दिवसान्वदेयुः ॥१३॥
  14. श्लोक 14वाक्येषु यावच्छरदां प्रमाणं वदन्ति तावत्परमायुरत्र ।मेषादनीकं मदनं गजेन तुन्दः पुनश्चैवमुदीरितं तत् ॥१४॥
  15. श्लोक 15महादशासु यत्फलं प्रकीर्तितं मया पुरा ।तदेव योजयेद्बुधो दशासु चैवमादिषु ॥१५॥
  16. श्लोक 30कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते ।सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥३०॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।