अध्याय 21: भुक्त्यन्तरान्तरलक्षणम्
फलदीपिका · Phaladeepika, chapter 21 (Bhuktis and antaras)
84 श्लोक
- श्लोक 1अपहारविभागलक्षणं तत्पंक्ति क्रमशः स्फुटं प्रवच्मि ।यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥१॥
- श्लोक 2पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाःशिष्टा रूपहता नराङ्कविहृता मासा नगैर्वासराः ।छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥२॥
- श्लोक 3महीश्वरादुपलभतेऽधिकं यशोवनाचलस्थलवसतिं धनागमम् ।ज्वरोष्णरुग्जनकवियोगजं भयंनिजां दशां प्रविशति तीक्ष्णदीधितौ ॥३॥
- श्लोक 4रिपुक्षयो व्यसनशमो धनागमः कृषिक्रिया गृहकरणं सुहृद्युतिः ।क्षयानलप्रतिहतिरर्कदायकं शशी यदा हरति जलोद्भवा रुजः ॥४॥
- श्लोक 5रुजागमः पदविरहोऽरिपीडनं व्रणोद्भवः स्वकुलजनैर्विरोधिता ।महीभृतो भवति भयं धनच्युतिर्यदा कुजो हरति तदाऽर्कवत्सरम् ॥५॥
- श्लोक 6रिपूदयो धनहृतिरापदुद्गमो विषाद्भयं विषयविमूढता पुनः ।शिरोदृगोरधिकरुगेव देहिनामहो भवेद्धिमकरायुरन्तरे ॥६॥
- श्लोक 7रिपुक्षयो विविधधनाप्तिरन्वहं सुरार्चनं द्विजगुरुबन्धुपूजनम् ।श्रवःश्रमो भवति च यक्ष्मरोगिता सुरार्चिते प्रविशति गोपतेर्दशाम् ॥७॥
- श्लोक 8धनाहतिः सुतविरहः स्त्रिया रुजो गुरुव्ययः सपदि परिच्छदच्युतिः ।मलिष्ठता भवति कफप्रपीडनं शनैश्चरे सवितृदशान्तरं गते ॥८॥
- श्लोक 9विचर्चिका पिटकसकुष्ठकामिला विशर्धनं जठरकटिप्रपीडनम् ।महीक्षयः त्रिगदभयं भवेत्तदा विधोः सुते चरति रवेरथाब्दकम् ॥९॥
- श्लोक 10सुहृद्व्ययः स्वजनकुटुम्बविग्रहो रिपोर्भयं धनहरणं पदच्युतिः ।गुरोर्गदश्रवणशिरोरुगुच्चकैः शिखी यदा विशति दशां विवस्वतः ॥१०॥
- श्लोक 11शिरोरुजा जठरगुदार्तिपीडनं कृषिक्रिया गृहधनधान्यविच्युतिः ।सुतस्त्रियोरसुखमतीव देहिनां भृगोः सुते चरति रवेरथाब्दकम् ॥११॥
- श्लोक 12स्त्रीप्रजाप्तिरमलांशुकागमो भूसुरोत्तमसमागमो भवेत् ।मातुरिष्टफलमङ्गनासुखं स्वां दशां विशति शीतदीधितौ ॥१२॥
- श्लोक 13पित्तवह्निरुधिरोद्भवा रुजः क्लेशदुःखरिपुचोरपीडनम् ।वित्तमानविहतिर्भवेत्कुजे शीतदीधितिदशान्तरं गते ॥१३॥
- श्लोक 14तीव्रदोषरिपुवृद्धिबन्धुरुङ्मारुताशनिभयार्तिरुद्भवेत् ।अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥१४॥
- श्लोक 15दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः ।राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरौ ॥१५॥
- श्लोक 16नैकरोगविहतिः सुहृत्सुतस्त्रीरुजा व्यसनसंभवो महान् ।प्राणहानिरथवा भवेच्छनौ मारबन्धुवयसो गतेऽन्तरम् ॥१६॥
- श्लोक 17सर्वदा धनगजाश्वगोकुलप्राप्तिराभरणसौख्यसम्पदः ।चित्तबोध इति जायते विधोरायुषि प्रविशति प्रबोधने ॥१७॥
- श्लोक 18चित्तहानिरपि सम्पदश्च्युतिर्बन्धुहानिरपि तोयजं भयम् ।दासभृत्यहतिरस्ति देहिनां केतुके हरति चान्द्रमब्दकम् ॥१८॥
- श्लोक 19तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः ।पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥१९॥
- श्लोक 20राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः ।पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तर ॥२०॥
- श्लोक 21पित्तोष्णरुग्व्रणभयं सहजैर्वियोगःक्षेत्रप्रवादजनितार्थविभूतिसिद्धिः ।ज्ञात्यग्निशत्रुनृपचोरजनैर्विरोधोधात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥२१॥
- श्लोक 22शस्त्राग्निचोररिपुभूपभयं विषार्तिःकुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः ।प्राणव्ययोऽथ यदिवा विपुलापदो वावक्रायुरन्तरगते भुजगाधिनाथे ॥२२॥
- श्लोक 23द्विजविबुधसमर्चा तीर्थपुण्यानुसेवासततमतिथिपूजा पुत्रमित्रादिवृद्धिः ।श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वाभवति कुजदशान्तःसंगते वागधीशे ॥२३॥
- श्लोक 24उपरि परिविनाशः स्वात्मजस्त्रीगुरूणा-मगणितविपदन्तर्दुःखमर्थोपहानिः ।वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-र्भवति कुजदशायामर्कजे सम्प्रयाते ॥२४॥
- श्लोक 25अरिभयमुरुचोरोपद्रवोऽथार्थहानिःपशुगजतुरगाणां विप्लवोऽमित्रयोगः ।नृपकृतपरिपीडा शूद्रवैरोद्भवो वाविशति शशितनूजे विश्वधात्रीसुतायुः ॥२५॥
- श्लोक 26अशनिभयमकस्मादग्निशस्त्रप्रपीडाविगमनमथ देशाद्वित्तनाशोऽथवा स्यात् ।अपगमनमसुभ्यो योषितो वा विनाशःप्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥२६॥
- श्लोक 27युधि जनितविमानं विप्रवासः स्वदेशा-द्वसुहृतिरपि चोरैर्वामनेत्रोपरोधः ।परिजनपरिहानिर्जायते मानवाना-मपहरति यदायुर्भौमजं भार्गवेन्द्रः ॥२७॥
- श्लोक 28नृपकृतपरिपूजा युद्धलब्धप्रभावःपरिजनधनधान्यश्रीमदन्तःपुरं च ।अतिविलसितवृत्तिः साहसादाप्तलक्ष्मी-स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥२८॥
- श्लोक 29विविधधनसुताप्तिर्विप्रयोगोऽरिवर्गै-र्वसनशयनभूषारत्नसम्पत्प्रसूतिः ।भवति गुरुजनार्तिर्गुल्मपित्तप्रपीडाधरणितनयवर्षे शीतगौ सम्प्रयाते ॥२९॥
- श्लोक 30विषाम्बुरुग्दुष्टभुजङ्गदर्शनं पराबलासंयुतिरिष्टविच्युतिः ।अरिष्टवाग्दुष्टजनव्यथा भवेद्विधुंतुदेनापहृते स्ववत्सरे ॥३०॥
- श्लोक 31सुखोपनीतिः सुरविप्रपूजनं विरोगता वामदृशां समागमः ।सुपुण्यशास्त्रार्थविचारसम्भवः सुरारिदायान्तरगे बृहस्पतौ ॥३१॥
- श्लोक 32समीरपित्तप्रगदःक्षतिस्तनौ तनूजयोषित्सहजैश्च विग्रहः ।स्वभृत्यनाशश्च पदच्युतिर्भवेद्दितिप्रजायुः प्रविशत्यथार्कजे ॥३२॥
- श्लोक 33सुतस्वसिद्धिः सुहृदां समागमो मनोविनिन्द्यत्वमतीव जायते ।पटुक्रियाभूषणकौशलादयो भुजङ्गसंवत्सरहारिणीन्दुजे ॥३३॥
- श्लोक 34ज्वराग्निशस्त्रारिभयं शिरोरुजा शरीरकम्पः स्वसुहृद्गुरुव्यथा ।विषव्रणार्तिः कलहः सुहृज्जनैरहीन्द्रदायान्तरगे शिखाधरे ॥३४॥
- श्लोक 35कलत्रलब्धिः शयनोपचारता तुरङ्गमातङ्गमहीसमागमः ।कफानिलाप्तिः स्वजनैर्विरोधिता भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥३५॥
- श्लोक 36अरिव्यथा स्यादतिपीडनं दृगोर्विषाग्निशस्त्राहतिरापदुद्गमः ।वधूसुतार्तिर्नृपतेर्महद्भयं भुजङ्गवर्षे तिमिरारिणा हृते ॥३६॥
- श्लोक 37वधूविनाशः कलहो मनोरुजा कृषिक्रिया वित्तपशुप्रजाक्षयः ।सुहृद्विपत्तिः सलिलाद्भयं भवेद्विधौ दशाभक्तरि देवविद्विषः ॥३७॥
- श्लोक 38नृपाग्निचोरास्त्रभयं शरीरिणां शरीरनाशो यदि वा महारुजः ।पदभ्रमो हृन्नयनप्रपीडनं यदात्र सर्पायुषि संचरेत्कुजः ॥३८॥
- श्लोक 39सौभाग्यकान्तिबहुमानगुणोदयःस्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च ।आचार्यसाधुजनसंयुतिरिष्टसिद्धिःसंवत्सरं हरति देवगुरौ स्वकीयम् ॥३९॥
- श्लोक 40वेश्याङ्गनामदकृदासवदोषसङ्गःउत्कर्षसौख्यसकुटुम्बपशुप्रपीडा ।अर्थव्ययोरुभयमक्षिजरुक्सुतार्तिर्जैवीं दशां विशति दैनकरे नराणाम् ॥४०॥
- श्लोक 41स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः ।देवद्विजार्चनसुतार्थसुखप्रयोगैर्गीर्वाणपूजितदशां हरतीन्दुसूनौ ॥४१॥
- श्लोक 42शस्त्रव्रणं भवति भृत्यजनैर्विरोधश्चित्तव्यथा तनययोषिदुपद्रवश्च ।प्राणच्युतिर्गुरुसुहृज्जनविप्रयोगः सौरेड्यमायुरपहृत्य ददाति केतुः ॥४२॥
- श्लोक 43नानाविधार्थपशुधान्यपरिच्छदस्त्रीपुत्रान्नपानशयनाम्बरभूषणाप्तिः ।देवद्विजार्चनमुपासनतत्परत्वमायुर्यदा हरति जैवमथासुरेड्यः ॥४३॥
- श्लोक 44शत्रोर्जयः क्षितिपमाननकीर्तिलाभः स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः ।श्रेण्यग्रहारपुरराष्ट्रसमस्तसंपदुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥४४॥
- श्लोक 45योषिद्बहुत्वमरिनाशनमर्थलाभःकृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः ।देवद्विजार्चनपरत्वमतीव पुंसांसंजायते गुरुदशाहृति शर्वरीशे ॥४५॥
- श्लोक 46बन्धूपतोषणमरिव्रजतोऽर्थलाभःसुक्षेत्रसत्कृतिरिह प्रथितप्रभावः ।ईषद्गुरूपहतिरीक्षणसुक्षतिर्वाक्षित्यात्मजे हरति वत्सरमार्यजातम् ॥४६॥
- श्लोक 47बन्धूपतप्तिरुरुमानसरुग्गदार्तिश्चोराद्भयं गुरुगदो जठरोद्भवो वा ।राजेन्द्रपीडनमरिव्यसनं स्वनाशःसम्पद्यते हरति सूरिदशां सुरारौ ॥४७॥
- श्लोक 48कृषिवृद्धिभृत्यमहिषाभ्युदयः पवनामयो वृषलजातिधनम् ।स्थविराङ्गनाप्तिरलसत्वमघो निजवत्सरान्तरगते रविजे ॥४८॥
- श्लोक 49सुभगत्वमस्ति सुखिता वनिता नृपलालनं विजयमित्रयुतिः ।त्रिगदोद्भवः सहजपुत्ररुजा शनिदायहारिणि शशाङ्कसुते ॥४९॥
- श्लोक 50मरुदग्निपीडनमरिव्यसनं सुतदारविग्रहमतिः सततम् ।अशुभावलोकनमहेश्च भयं मृदुवत्सरं हरति केतुपतौ ॥५०॥
- श्लोक 51सुहृदङ्गनातनयसौख्ययुतः कृषितोययानजनितार्थचयः ।शुभकीर्तिरुद्भवति देहभृतां यमदायहारिणि भृगोस्तनये ॥५१॥
- श्लोक 52मरणं तु वा रिपुभयं सततं गुरुवर्गरुग्जठरनेत्ररुजा ।धनधान्यविच्युतिरिह प्रभवेद्रविजायुराविशति तीव्रकरे ॥५२॥
- श्लोक 53वनिताहतिर्मरणमेव नृणां सुहृदां विपत्तिरथ रोगभयम् ।जलवातजं भयमतीव भवेद्रविजायुराविशति रात्रिकरे ॥५३॥
- श्लोक 54स्वपदच्युतिः स्वजनविग्रहरुग्ज्वरवह्निशस्त्रविषभीरथवा ।अरिवृद्धिरान्तररुगक्षिभयं रविजायुराविशति भूमिसुते ॥५४॥
- श्लोक 55अपमार्गयानमसुभिर्विरहस्त्वथवा प्रमेहगुरुगुल्म भयम् ।ज्वररुक्क्षतिः सततमेव नृणामसितान्तरं विशति भोगिपतौ ॥५५॥
- श्लोक 56अमरार्चनद्विजगणाभिरुचिर्गृहपुत्रदारविहतिस्तु भवेत् ।धनधान्यवृद्धिरधिका हि नृणां गतवत्यथार्किवयसीन्द्रगुरौ ॥५६॥
- श्लोक 57धर्ममार्गनिरतिर्विपश्चितां सङ्गमो विमलधीर्धनं द्विजात् ।विद्यया बहुयशः सुखं सदा चन्द्रजे हरति वत्सरं स्वकम् ॥५७॥
- श्लोक 58दुःखशोककलहाकुलात्मता गात्रकम्पनममित्रसंयुतिः ।क्षेत्रयानवियुतिर्यदा भवेत्सोमसूनुशरदं गतः शिखी ॥५८॥
- श्लोक 59देवविप्रगुरुपूजनक्रिया दानधर्मपरता समागमः ।वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥५९॥
- श्लोक 60हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् ।भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥६०॥
- श्लोक 61मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् ।प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीधितौ ॥६१॥
- श्लोक 62अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता ।स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥६२॥
- श्लोक 63मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् ।मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥६३॥
- श्लोक 64व्याधिशत्रुभयविच्युतिर्भवेद्ब्रह्मसिद्धिरवनीशसत्कृतिः ।धर्मसिद्धितपसां समुद्गमो देवमन्त्रिणि विदो दशां गते ॥६४॥
- श्लोक 65अर्थधर्मपरिलुप्तिरुच्चकैः सर्वकार्यविफलत्वमङ्गिनाम् ।श्लेष्मवातजनिता रुगुद्भवेद्बोधनायुषि समागतेऽसिते ॥६५॥
- श्लोक 66रिपुजनकलहं सुहृद्विरोधं त्वशुभवचः श्रवणं ज्वराङ्गदाहम् ।गमनपरधाम्नि वित्तनाशं शिखिनि लभेत दशां गते स्वकीयाम् ॥६६॥
- श्लोक 67द्विजवरकलहः स्त्रिया विरोधः स्वकुलजनैरपि कन्यकाप्रसूतिः ।परिभवजननं परोपतापो भवति सिते शिखिवत्सरान्तराले ॥६७॥
- श्लोक 68गुरुजनमरणं ज्वरावतारः स्वजनविरोधविदेशयानलाभः ।नृपकृतकलहः कफानिलार्तिर्विशति रवौ शिखिवत्सरान्तरालम् ॥६८॥
- श्लोक 69सुलभबहुधनं तथैव हानिः सुतविरहो बहुदुःखभाक्प्रसूतिः ।परिजनयुवतिप्रजाप्रलाभः शशिनि यदा शिखिदायमभ्युपेते ॥६९॥
- श्लोक 70स्वकुलजकलहं स्वबन्धुनाशं भयमपि पन्नगजं वदन्ति चोरात् ।हुतवहभयशत्रुपीडनं च व्रजति कुजे ध्वजनामखेचरायुः ॥७०॥
- श्लोक 71अरिकृतकलहं नृपाग्निचोरैर्भयमपि पन्नगजं वदन्ति तज्ज्ञाः ।खलजनवचनं दुरिष्टचेष्टा तमसि गतेऽत्र शिखीन्द्रदायमाहुः ॥७१॥
- श्लोक 72सुतवरजननं सुरेन्द्रपूजा धरणिधनाप्तिरुपायनार्थसिद्धिः ।धनचयजननं महीशमानो भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥७२॥
- श्लोक 73परिजनविहतिं परोपतापं रिपुजनविग्रहमङ्गभङ्गतां च ।धनपदवियुतिं तथाहुरार्या गतवति सूर्यसुते शिखाधरायुः ॥७३॥
- श्लोक 74सुतवरजननं प्रभुप्रशस्तिः क्षितिधनसिद्धिररीश्वरप्रपीडा ।पशुकृषिविहतिर्भवेत्तु पुंसां विशति बुधे शिखिवत्सरान्तरालम् ॥७४॥
- श्लोक 75वसनभूषणवाहनचन्दनाद्यनुभवः प्रमदासुखसंपदः ।द्युतियुतिः क्षितिपाद्धनलब्धयो भृगुसुते स्वदशां प्रविशत्यपि ॥७५॥
- श्लोक 76नयनकुक्षिकपोलगदोद्भवः क्षितिभृतो भयमस्ति शरीरिणाम् ।गुरुकुलोद्भवबान्धवपीडनं भृगुसुतायुषि भानुमति स्थिते ॥७६॥
- श्लोक 77नखशिरोरदनक्षतिरुच्चकैः पवनपित्तरुगर्थविनाशनम् ।ग्रहणिगुल्मकयक्ष्मकपीडनं सितवयोहृति तत्र हिमत्विषि ॥७७॥
- श्लोक 78रुधिरपित्तगदार्तिसमाश्रयः कनकताम्रचयावनिसंग्रहः ।युवतिदूषणमुद्यमविच्युतिर्वृषभवल्लभवत्सरगे कुजे ॥७८॥
- श्लोक 79निधिभवः सुतलब्धिरभीष्टवाक् स्वजनपूजनमप्यरिबन्धनम् ।दहनचोरविषोद्भवपीडनं तुलधरेश्वरवत्सरगेऽसुरे ॥७९॥
- श्लोक 80विविधधर्मसुरेशनमस्क्रिया भवति चात्मजवामदृगागमः ।विविधराज्यसुखं च शरीरिणां कविदशाहृति कार्मुकनायके ॥८०॥
- श्लोक 81नगरयोधनृपोद्भवपूजनं प्रवरयोषिदवाप्तिरथास्ति वा ।विविधवित्तपरिच्छदसंयुतिर्दितिजपूजितदायगते शनौ ॥८१॥
- श्लोक 82तनयसौख्यसमागमसम्पदां निचयलब्धिरतिप्रभुता यशः ।पवनपित्तकफार्तिररिच्युतिर्दनुजमन्त्रिदशाहृति चन्द्रजे ॥८२॥
- श्लोक 83सुतसुखादिबहिः स्थितिरग्निजं भयमतीव विनाशनमङ्गरुक् ।अपि च वारवधूजनसंयुतिः शिखिनि यात्यलमौशनसीं दशाम् ॥८३॥
- श्लोक 84दशापहारेषु फलं यदुक्तं वर्णाधिकारानुगुणं वदन्तु ।छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः छायाङ्कवार्ताश्रवणानि वा स्युः ॥८४॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।