अध्याय 20: दशापहारफलम्

फलदीपिका · Phaladeepika, chapter 20 (Dashas of house lords and their bhuktis)

63 श्लोक

  1. श्लोक 1भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन ।यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण ॥१॥
  2. श्लोक 2लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थितिं देहबलं सुवर्चः ।उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥२॥
  3. श्लोक 3पाकेऽर्थनाथस्य कुटुम्बसिद्धिं सत्पुत्रिकाप्तिं सुखभोजनं च ।प्राप्नोति वाग्जीविकया धनानि वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥३॥
  4. श्लोक 4शौर्यं सवीर्यं सहजानुकूल्यं सन्तोषवार्ताश्रवणं च शौर्यम् ।सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम् ॥४॥
  5. श्लोक 5बन्धूपकारं कृषिकर्मसिद्धिं स्त्रीसङ्गमं वाहनलाभमेति ।क्षेत्रं गृहं नूतनमर्थसिद्धिं स्थानप्रशस्तं च सुखेशदाये ॥५॥
  6. श्लोक 6पुत्रप्राप्तिं बन्धुविलासं नृपतीनांसाचिव्यं वा धीशदशायां बहुमानम् ।प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददातिश्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥६॥
  7. श्लोक 7रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे ।अरोगतामुदारतामधृष्यतामतिश्रियम् ॥७॥
  8. श्लोक 8सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः ।करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये ॥८॥
  9. श्लोक 9ऋणविमोचनमुच्छ्रितिमात्मनः कलहकृत्यनिवृत्तिमुपैति सः ।महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः ॥९॥
  10. श्लोक 10स्त्रीपुत्रपौत्रैः सहबन्धुवर्गैर्भाग्यं श्रियं चानुभवत्यजस्रम् ।श्रेयांसि कार्याण्यवनीशपूजां भाग्येशदाये द्विजदेवभक्तिम् ॥१०॥
  11. श्लोक 11यत्कार्यमारब्धमुपैत्यमुनेन तस्यैव सिद्धिं सुखजीवनं च ।कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं मानोन्नतिं कर्मपतेर्दशायाम् ॥११॥
  12. श्लोक 12ऐश्वर्यमव्याहतमिष्टबन्धुसमागमं भृत्यजनांश्च दासान् ।संसारसौभाग्यमहोदयं च लभेत लाभाधिपतेर्दशायाम् ॥१२॥
  13. श्लोक 13व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने ।अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥१३॥
  14. श्लोक 14वक्रगस्य निजतुङ्गसुहृत्सुस्थानगस्य दशांफलमेवम् ।शत्रुनीचगृहमौढ्यषडन्त्यच्छिद्रगस्य तु फलान्यपि वक्ष्ये ॥१४॥
  15. श्लोक 15दुःस्थे लग्नपतौ निरोधनमुपैत्यज्ञातवासं भयंव्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् ।जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजंवाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥१५॥
  16. श्लोक 16दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-मन्तःशत्रुनिपीडनं परिभवं तद्गर्वभङ्गं वदेत् ।मातृक्लेशमरिष्टमिष्टसुहृदां क्षेत्रग्रहोपप्लुतिंपश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥१६॥
  17. श्लोक 17वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं वञ्चना-मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् ।चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिंभृत्यत्वं लभतेऽपमानमयशः षष्ठेशदाये व्रणम् ॥१७॥
  18. श्लोक 18जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमंद्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् ।रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिंदारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥१८॥
  19. श्लोक 19पूर्वोपासितदेवकोपमशुभं जायातनूजापदंदौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले ।यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तिमापन्नताम् ॥१९॥
  20. श्लोक 20श्रवणमशुभवाचां भ्रातृकष्टं सुतार्तिंभवपवयसि दैन्यं वञ्चनं कर्णरोगम् ।बहुरुजमपमानं बन्धनं सर्वसम्पत्-क्षयमपरशशीवाऽऽयाति रिःफेशदाये ॥२०॥
  21. श्लोक 21संज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितंकर्माजीवनिरूपितं फलमिदं यद्रोगचिन्ताविधौ ।यद्यस्येक्षणयोगसंभवफलं भावेशयोगोद्भवंभावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥२१॥
  22. श्लोक 22वर्गोत्तमांशस्थदशा शुभप्रदा मिश्रैव सा चास्तमिते च नीचगे ।मृत्युव्ययारीशदशापहारयोस्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥२२॥
  23. श्लोक 23क्रूरग्रहस्यैव दशापहारे त्रिपञ्चसप्तर्क्षपतेर्विपाके ।तथैव जन्माष्टमनाथभुक्तौ चोरारिपीडां लभतेऽतिदुःखम् ॥२३॥
  24. श्लोक 24शनेश्चतुर्थी च गुरोस्तु षष्ठी दशा कुजाह्योर्यदि पञ्चमी सा ।कष्टा भवेद्राश्यवसानभागस्थितस्य दुःस्थानपतेस्तथैव ॥२४॥
  25. श्लोक 25ऊर्ध्वास्यतुङ्गभवनस्थितभूमिजस्यकर्मायगस्य हि दशा विदधाति राज्यम् ।जित्वा रिपून्विपुलवाहनसैन्ययुक्तांराज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥२५॥
  26. श्लोक 26स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वालाभेऽपि वाऽस्तरहितो न च पापयुक्तः ।तस्याब्दपाकसमये बहुरत्नपूर्णोधीमान्विशालविभवो जयति प्रशस्तः ॥२६॥
  27. श्लोक 27नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे ।शुभेतरास्त्वेषु गताः प्रयच्छन्त्यमोघदुःखानि दशासु तेषाम् ॥२७॥
  28. श्लोक 28दशेशशत्रोररिगेहभाजो लग्नेशशत्रोरपि वाऽथ भुक्तौ ।शत्रोर्भयं स्थानभयं तदास्य स्निग्धोपि शत्रुत्वमुपैति नूनम् ॥२८॥
  29. श्लोक 29यद्भावगः पाकपतिर्दशेशात्तद्भावजातानि फलानि कुर्यात् ।त्रिपक्षरिःफाष्टमभावगश्चेद्दुःखं विदध्यादितरत्र सौख्यम् ॥२९॥
  30. श्लोक 30स्वोच्चत्रिकोणस्वहितारिनीचे पूर्णं त्रिपादार्धपदाल्पशून्यम् ।क्रमाच्छुभं चेदशुभं विलोमान्मूढे ग्रहे नीचसमं फलं स्यात् ॥३०॥
  31. श्लोक 31मन्दमान्द्यगुखरेशरन्ध्रपास्तन्नवांशपतयोऽपि ये ग्रहाः ।तेषु दुर्बलदशा मृतिप्रदा कष्टभे चरति सूर्यनन्दने ॥३१॥
  32. श्लोक 32मृतीशनाथस्थितभांशकेशयोः खरत्रिभागेश्वरयोर्बलीयसः ।दशागमे मृत्युपयुक्तभांशकत्रिकोणगे देवगुरौ तनुक्षयः ॥३२॥
  33. श्लोक 33चतुष्टयस्था गुरुजन्मलग्नपा भवन्ति मध्ये वयसः सुखप्रदाः ।क्रमेण पृष्ठोभयमस्तकोदयस्थितोऽन्त्यमध्यप्रथमेषु पाकदाः ॥३३॥
  34. श्लोक 34यद्भावगो गोचरतो विलग्नाद्दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥३४॥
  35. श्लोक 35बलोनितो जन्मनि पाकनाथो मौढ्यं स्वनीचं रिपुमन्दिरं वा ।प्राप्तश्च यद्भावमुपैति चारात्तद्भावनाशं कुरुते तदानीम् ॥३५॥
  36. श्लोक 36दशेशस्य तुङ्गे सुहृद्भे दशेशात् त्रिषट्कर्मलाभत्रिकोणास्तमेषु ।यदा चारगत्या समायाति चन्द्रः शुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥३६॥
  37. श्लोक 37पाकप्रभुर्गोचरतः स्वनीचं मौढ्यं यदायाति विपक्षभं वा ।कष्टं विदध्यात्स्वगृहं स्वतुङ्गं वक्रं गतः सौख्यफलं तदानीम् ॥३७॥
  38. श्लोक 38पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदासूर्ये तत्फलसिद्धिमेति गुरुणाऽप्येवं फलं चिन्तयेत् ।नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलंप्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥३८॥
  39. श्लोक 39येन ग्रहेण सहितो भुजगाधिनाथ-स्तत्खेटजातगुणदोषफलानि कुर्यात् ।सर्पान्वितः स तु खगः शुभदोऽपि कष्टंदुःखं दशान्त्यसमये कुरुते विशेषात् ॥३९॥
  40. श्लोक 40द्वावर्थकामाविह मारकाख्यौ तदीश्वरस्तत्र गतो बलाढ्यः ।हन्ति स्वपाके निधनेश्वरो वा व्ययेश्वरो वाऽप्यतिदुर्बलश्चेत् ॥४०॥
  41. श्लोक 41केन्द्रेशस्य सतोऽसतोऽशुभशुभौ कुर्याद्दशा कोणपाःसर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः ।रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशीयद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥४१॥
  42. श्लोक 42कोणाधीशः केन्द्रगः केन्द्रपो वा कोणस्थश्चेद्द्वौ च योगप्रदौ स्तः ।द्वावप्येतौ भुक्तिकाले दशायामन्योन्यं तौ योगदौ सोपकारौ ॥४२॥
  43. श्लोक 43न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।शभाशुभफलं नृणामात्मभावानुरूपतः ॥४३॥
  44. श्लोक 44आत्मसम्बन्धिनो ये च ये ये निजसधर्मिणः ।तेषामन्तर्दशास्वेव दिशन्ति स्वदशाफलम् ॥४४॥
  45. श्लोक 45केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।सम्बन्धमात्राद्बलिनौ भवेतां योगकारकौ ॥४५॥
  46. श्लोक 46त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥४६॥
  47. श्लोक 47केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ ।अन्यत्रिकोणपतिना संबन्धो यदि किंपुनः ॥४७॥
  48. श्लोक 48योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः ।तत्तद्भुक्त्यनुसारेण दिशेयुर्यौगिकं फलम् ॥४८॥
  49. श्लोक 49स्वदशायां त्रिकोणेशो भुक्तौ केन्द्रपतेः शुभम् ।दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् ॥४९॥
  50. श्लोक 50केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ।मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥५०॥
  51. श्लोक 51बुधस्तदनु चन्द्रोऽपि भवेत्तदनु तद्विधः ।पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥५१॥
  52. श्लोक 52यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ ॥५२॥
  53. श्लोक 53तमोग्रहौ शुभारूढौ संबन्धौ येन केनचित् ।अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥५३॥
  54. श्लोक 54आरम्भो राजयोगस्य भवेत्कारकभुक्तिषु ।प्रथयन्ति तमारब्धं क्रमशः पापभुक्तयः ॥५४॥
  55. श्लोक 55रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथरन्ध्रत्रिभागाधिपमान्दिभेशाः ।दुःखप्रदास्तेष्वपि दुर्बलो यः स नाशकारी स्वदशापहारे ॥५५॥
  56. श्लोक 56भ्रष्टस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत्सा सुहृदुच्चभागे ।आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ॥५६॥
  57. श्लोक 57शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि ।तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥५७॥
  58. श्लोक 58तत्तद्भावाद्व्ययस्थस्य तद्भावव्ययपस्य च ।वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥५८॥
  59. श्लोक 59दशापतिर्लग्नगतो यदि स्यात् त्रिषड्दशैकादशगश्च लग्नात् ।तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा लग्ने शुभो वा शुभदा दशा स्यात् ॥५९॥
  60. श्लोक 60यावन्ति वर्षाणि दशा च सा स्याच्चारक्रमात्तत्र दशापतिः सः ।यत्र स्थितस्तद्भवनाद्विधोस्तु स्थितेः प्रकल्प्यं सदसत्फलं हि ॥६०॥
  61. श्लोक 61दशाधिनाथस्य सुहृद्गृहस्थस्तदुच्चगो वाऽथ दशाधिनाथात् ।स्मरत्रिकोणोपचयोपगश्च ददाति चन्द्रः खलु सत्फलानि ॥६१॥
  62. श्लोक 62उक्तेषु राशिषु गतस्य विधोः स राशिःस्याज्जन्मकालभवमूर्तिधनादिभावः ।तत्तद्विवृद्धिकृदसौ कथितो नराणांतद्भावहानिकृदथेतरराशिसंस्थः ॥६२॥
  63. श्लोक 63सारावलीमुडुदशां च वराहहोरा-मालोक्य जातकफलं प्रवदेन्नराणाम् ।प्रश्नोदयग्रहवशादथ वा स्वजन्म-राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥६३॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।