अध्याय 19: दशाफलनिरूपणम्
फलदीपिका · Phaladeepika, chapter 19 (Results of dashas)
26 श्लोक
- श्लोक 1भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरंसन्तुष्टाः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् ।ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥१॥
- श्लोक 2अग्न्यादितारपतयो रविचन्द्रभौम-सर्पामरेड्यशनिचन्द्रजकेतुशुक्राः ।तेने नटः सनिजया चदुधान्यसौम्य-स्थाने नखा निगदिताः शरदस्तु तेषाम् ॥२॥
- श्लोक 3ऋक्षस्य गम्या घटिका दशाब्दनिघ्ना नताप्ता स्वदशाब्दसंख्या ।रूपैर्नगैः संगुणयेन्नतेन हतास्तु मासा दिवसाः क्रमेण ॥३॥
- श्लोक 4रविस्फुटं तज्जनने यदासीत् तथाविधश्चेत्प्रतिवर्षमर्कः ।आवृत्तयः सन्ति दशाब्दकानां भागक्रमात्तद्दिवसाः प्रकल्प्याः ॥४॥
- श्लोक 5भानुः करोति कलहं क्षितिपालकोप-माकस्मिकं स्वजनरोगपरिभ्रमं च ।अन्योन्यवैरमतिदुःसहचित्तकोपंगुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥५॥
- श्लोक 6क्रौर्याध्वभूपैः कलहैर्धनाप्तिं वनाद्रिसंचारमतिप्रसिद्धिम् ।करोति सुस्थो विजयं दिनेशस्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥६॥
- श्लोक 7मनःप्रसादं प्रकरोति चन्द्रः सर्वार्थसिद्धिं सुखभोजनं च ।स्त्रीपुत्रभूषाम्बररत्नसिद्धिं गोक्षेत्रलाभं द्विजपूजनं च ॥७॥
- श्लोक 8बलेन सर्वं शशिनस्तु वाच्यं पूर्वं दशाहे फलमत्र मध्यम् ।मध्ये दशाहे परिपूर्णवीर्यं तृतीयभागेऽल्पफलं क्रमेण ॥८॥
- श्लोक 9भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनंभैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः ।पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनंविद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥९॥
- श्लोक 10सौम्यः करोति सुहृदागममात्मसौख्यंविद्वत्प्रशंसितयशश्च गुरुप्रसादम् ।प्रागल्भ्यमुक्तिविषयेऽपि परोपकारंजायात्मजादिसुहृदां कुशलं महत्त्वम् ॥१०॥
- श्लोक 11धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते संतानसिद्धिमवनीपतिपूजनं च ।श्लाघ्यत्वमुन्नतजनेषु गजाश्वयानप्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥११॥
- श्लोक 12क्रीडासुखोपकरणानि सुवाहनाप्तिंगोरत्नभूषणनिधिप्रमदाप्रमोदम् ।ज्ञानक्रियां सलिलयानमुपैति शौक्र्यांकल्याणकर्म बहुमानमिलाधिनाथात् ॥१२॥
- श्लोक 13पाकेऽर्कजस्य निजदारसुतातिरोगा-न्वातोत्तरान्कृषिविनाशमसत्प्रलापम् ।कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास-माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥१३॥
- श्लोक 14कुर्यादहिः क्षितिपचोरविषाग्निशस्त्र-भीतिं सुतार्तिमतिविभ्रमबन्धुनाशम् ।नीचावमाननमतिक्रमतोऽपवादंस्थानच्युतिं पदहतिं कृतकार्यहानिम् ॥१४॥
- श्लोक 15विधुंतुदे शुभान्विते प्रशस्तभावसंयुतेदशा शुभप्रदा तदा महीपतुल्यभूतिदा ।अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः ॥१५॥
- श्लोक 16पाथोममीनालिगतस्य राहोर्दशाविपाके महितं च सौख्यम् ।देशाधिपत्यं नरवाहनाप्तिर्दशावसाने सकलस्य नाशः ॥१६॥
- श्लोक 17केतोर्दशायामरिचोरभूपैः पीडा च शस्त्रक्षतमुष्णरोगः ।मिथ्यापवादः कुलदूषितत्वं वह्नेर्भयं प्रोषणमात्मदेशात् ॥१७॥
- श्लोक 18अथ तरणिदशायां क्रौर्यभूपालयुद्धै-र्धनमनलचतुष्पात्पीडनं नेत्रतापः ।उदरदशनरोगः पुत्रदारार्तिरुच्चै-र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥१८॥
- श्लोक 19शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।कुसुमवसनभूषागन्धनानारसाप्ति-र्भवति खलविरोधः स्वक्षयो वातरोगः ॥१९॥
- श्लोक 20क्षितितनयदशायां क्षेत्रवैरक्षितीश-प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः ।सहजतनयवैरं दुर्जनस्त्रीषु सक्ति-र्दहनरुधिरपित्तव्याधिरर्थोपहानिः ॥२०॥
- श्लोक 21असुरवरदशायां दुःस्वभावोऽथवा स्या-दतिगहनगदार्तिः सूनुनार्योर्विनाशः ।विषभयमरिपीडावीक्षणोर्द्ध्वाङ्गरोगःसुहृदि कृषिविरोधो भूपतेर्द्वेषलाभः ॥२१॥
- श्लोक 22अमरगुरुदशायामम्बराद्यर्थसिद्धिःपरिजनपरिवारप्रौढरत्यर्थमानः ।सुतधनसुहृदाप्तिः साधुवादाप्तपूजाभवति गुरुवियोगः कर्णरोगः कफार्तिः ॥२२॥
- श्लोक 23रवितनयदशायां राष्ट्रपीडाप्रहार-प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः ।पशुमहिषवृषाप्तिः पुत्रदारप्रपीडापवनकफगुदार्तिः पादहस्ताङ्गतापः ॥२३॥
- श्लोक 24शशितनयदशायां शश्वदाचार्यसिद्धि-र्द्विजजनितधनाप्तिः क्षेत्रगोवाजिलाभः ।मनुवरसुरपूजा वित्तसंघातसिद्धिःप्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥२४॥
- श्लोक 25शिखिजनितदशायां शोकमोहोऽङ्गनाभिःप्रभुजनपरिपीडा वित्तनाशोऽपराधः ।प्रभवति तनुभाजां प्रोषणं स्वीयदेशा-द्दशनचरणरोगः श्लेष्मसन्तापनं च ॥२५॥
- श्लोक 26भृगुतनयदशायामङ्गनारत्नवस्त्र-द्युतिनिधिधनभूषावाजिशय्यासनाप्तिः ।क्रयकृषिजलयानप्राप्तवित्तागमो वाभवति गुरुवियोगो बान्धवार्तिर्मनोरुक् ॥२६॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।