अध्याय 18: द्विग्रहयोगफलम्

फलदीपिका · Phaladeepika, chapter 18 (Conjunctions of two planets)

17 श्लोक

  1. श्लोक 1तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरंभौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् ।क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधै-र्लब्धस्वं रविजेन धातुकुशलं भाण्डप्रकारेषु वा ॥१॥
  2. श्लोक 2कूटस्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशीसज्ञः प्रश्रितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यान्वितम् ।विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिरावस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥२॥
  3. श्लोक 3मूलादिस्नेहकूटैर्व्यवहरति वणिग्बाहुयोद्धा ससौम्येपुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा ।गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्येदुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥३॥
  4. श्लोक 4सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः ।सद्विद्यो धनदारवान् बहुगुणः शुक्रेण युक्ते गुरौज्ञेयः श्मश्रुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि वा ॥४॥
  5. श्लोक 5असितसितसमागमेऽल्पचक्षुर्युवतिसमाश्रयसम्प्रवृद्धवित्तः ।भवति च लिखिपुस्तकचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः ॥५॥
  6. श्लोक 6भूपो विद्वान् भूपतिर्भूपतुल्यश्चन्द्रे मेषे मोषको निर्धनश्च ।निस्स्वः स्तेनो लोकमान्यो महीशः स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥६॥
  7. श्लोक 7युग्मस्थेऽयोजीविभूपज्ञधृष्टाश्चन्द्रे दृष्टे तन्तुवायोऽधनी च ।स्वर्क्षे योधप्राज्ञसूरिक्षितीशा लोहाजीवो नेत्ररोगी क्रमेण ॥७॥
  8. श्लोक 8राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः सिंहे चन्द्रे नापितः पार्थिवेन्द्रः ।दक्षो भूपः सैन्यपः कन्यकायां निष्णातः स्याद्भूमिनाथश्च भूपः ॥८॥
  9. श्लोक 9शठो नृपस्तौलिनि रुक्मकारश्चन्द्रे वणिक् स्यात्पिशुनः खलश्च ।कीटे नृपो युग्मपिता महीशः स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥९॥
  10. श्लोक 10धूर्तो हयाङ्के स्वजनं जनेशं नरौघमाश्रित्य शठः सदम्भः ।भूपो नरेशः क्षितिपो विपश्चिद्धनी दरिद्रो मकरे हिमांशौ ॥१०॥
  11. श्लोक 11कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रोवेश्यापतिर्नृपवरो हिमगौ नृमान्यः ।अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान्दोषैकदृग्दुरितकृच्च कुजादिदृष्टे ॥११॥
  12. श्लोक 12आरक्षको वधरुचिः कुशलश्च युद्धेभूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे ।मूर्खोऽन्यदारनिरतः सुकविः सितांशेसत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥१२॥
  13. श्लोक 13बौधे हि रङ्गचरचोरकवीन्द्रमन्त्रि-गेयज्ञशिल्पनिपुणः शशिनि स्थितेंऽशे ।स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यःस्त्रीप्रेष्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥१३॥
  14. श्लोक 14सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽतिहिंस्रकर्मा ।जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञः सचिवविकामवृद्धशीलः ॥१४॥
  15. श्लोक 15अल्पापत्यो दुःखितः सत्यपि स्वे मानासक्तः कर्मणि स्वेऽनुरक्तः ।दुष्टस्त्रीष्टः कोपनश्चार्किभागे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥१५॥
  16. श्लोक 16सूर्यादितोऽत्रांशफलं प्रदिष्टं ज्ञेयं नवांशस्य फलं तदेव ।राशीक्षणे यत्फलमुक्तमिन्दोस्तद्द्वादशांशस्य फलं हि वाच्यम् ॥१६॥
  17. श्लोक 17वर्गोत्तमस्वपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण ।वीर्यान्वितोंऽशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलं ददाति ॥१७॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।