अध्याय 16: लग्नादिद्वादशभावानां समुदायफलम्

फलदीपिका · Phaladeepika, chapter 16 (General results of the twelve houses)

35 श्लोक

  1. श्लोक 1लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा ।चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः ॥१॥
  2. श्लोक 2लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वाकेन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने ।दीर्घायुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तोलक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी ॥२॥
  3. श्लोक 3सत्संबन्धयुते कलेबरपतौ सद्ग्रामवासोऽथवासत्सङ्गं प्रबलग्रहेण सहिते विख्यातभूपाश्रयः ।स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिःसञ्चारश्चरभे स्थितिः स्थिरगृहे द्वन्द्वं द्विरूपं फलम् ॥३॥
  4. श्लोक 4विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनोदुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले ।स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णुरूर्जस्वलोनिःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः ॥४॥
  5. श्लोक 5अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रियासर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः ।सम्बन्धे सवितुर्द्वितीयपतिना लोकोपकारक्षमांविद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः ॥५॥
  6. श्लोक 6जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशास्त्रे पटुःशृङ्गारोक्तिपटुर्भृगोर्हिमरुचेः किञ्चित्कलाविद्भवेत् ।कौजे क्रूरकलापटुश्च पिशुनो राहौ स्थिते लोहलःकेतौ भ्रश्यदलीकवाग्धनगतैः पापैश्च मूढोऽधनः ॥६॥
  7. श्लोक 7बन्धो यदि स्यात्तनुशौर्यनाथयोरन्योन्यराशिस्थितयोर्बलाढ्ययोः ।धैर्यं च शौर्यं सहजानुकूलतां प्राप्नोत्ययं साहसकार्यकर्तृताम् ॥७॥
  8. श्लोक 8शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते ।भ्रातृवृद्धिरथ वीर्यविहीने दुःस्थिते भवति सोदरनाशः ॥८॥
  9. श्लोक 9अयुग्मराशौ यदि कारकेशौ गुर्वर्कभूसूनुनिरीक्षितौ चेत् ।ओजो गृहः स्याद्यदि विक्रमाख्यः पुंभ्रातरस्त्वंशवशाद्भवेयुः ॥९॥
  10. श्लोक 10दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वर्जितेपापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः ।एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् ॥१०॥
  11. श्लोक 11लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणेयोगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् ।अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्टमे वा तयो-र्मातुर्नोपकरोति नाशसमये बन्धस्तयोर्वा न चेत् ॥११॥
  12. श्लोक 12मातृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु ।भावकारकभावेशलग्नलग्नेश्वरैर्वदेत् ॥१२॥
  13. श्लोक 13सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता-वान्दोलिकां जनपतेश्वरतां विधत्तः ।स्वर्णाद्यनर्घ्यमणिभूषणपट्टशय्या-कामोपभोगकरणानि च गोगजाश्वान् ॥१३॥
  14. श्लोक 14दुःस्थे सुखेशे कुजसूर्ययुक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम् ।जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम् ॥१४॥
  15. श्लोक 15सौम्यर्क्षांशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे ।वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥१५॥
  16. श्लोक 16स्थितिः पापानां वा द्विषति बलयुक्तारिपतिनायुतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः ।अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतोरिपूणां पीडां द्राग्भृशमपरिहार्यां वितनुते ॥१६॥
  17. श्लोक 17षष्ठेश्वरादतिबलिन्युदयाधिनाथेसौम्यग्रहांशसहिते शुभदृष्टियुक्ते ।सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे-ष्वारोग्यभाग्यसहितो दृढगात्रयुक्तः ॥१७॥
  18. श्लोक 18शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते ।तस्माद्बलाढ्ये लग्नेशे शत्रुनाशं रवौ शुभे ॥१८॥
  19. श्लोक 19यद्भावेशयुतो वैरिनाथो यद्भावसंश्रितः ।षष्ठस्थितो यद्भावेशस्ते भावाः शत्रुतां ययुः ॥१९॥
  20. श्लोक 20सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते ।पतिपुत्रवती साध्वी भार्या सर्वगुणैर्वृता ॥२०॥
  21. श्लोक 21केन्द्रादन्यत्र रन्ध्रेशे लग्नेशाद्दुर्बले सति ।नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् ॥२१॥
  22. श्लोक 22धर्मे कुजे वा सूर्ये वा दुःस्थे तन्नायके सति ।पापमध्यगते वाऽपि पितुर्मरणमादिशेत् ॥२२॥
  23. श्लोक 23दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते ।धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता ॥२३॥
  24. श्लोक 24मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् ।त्यक्तो भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः ॥२४॥
  25. श्लोक 25शनिर्भाग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः ।सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति ॥२५॥
  26. श्लोक 26धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे ।जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि ॥२६॥
  27. श्लोक 27नभसि शुभखगे वा तत्पतौ केन्द्रकोणेबलिनि निजगृहोच्चे कर्मगे लग्नपे वा ।महितपृथुयशाः स्याद्धर्मकर्मप्रवृत्तिःनृपतिसदृशभाग्यं दीर्घमायुश्च तस्य ॥२७॥
  28. श्लोक 28ऊर्जस्वी जनवल्लभो दशमगे सूर्ये कुजे वा महत्कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि ।सद्व्यापारवतीं क्रियां वितनुते सौम्येषु सच्छ्लाघितांकर्मस्थेष्वहिमन्दकेतुषु भवेद्दुष्कर्मकारी नरः ॥२८॥
  29. श्लोक 29लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा ।भावं तदनुरूपस्य वस्तुनो लाभगैरपि ॥२९॥
  30. श्लोक 30व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति ।तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् ॥३०॥
  31. श्लोक 31भावेशस्थितभांशकोणमपि वा भावं तु वा लग्नपोलग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः ।संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदाब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि ॥३१॥
  32. श्लोक 32यद्भावेशस्थितर्क्षांशत्रिकोणस्थे गुरुर्यदा ।गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् ॥३२॥
  33. श्लोक 33लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ ।तदा तद्वशगः शत्रुर्विपरीतमतोऽन्यथा ॥३३॥
  34. श्लोक 34यद्भावपस्य तनुपस्य भवत्यरित्वं-तत्कालशत्रुवशतोऽरिमृतिस्थितैर्वा ।स्पर्धां तदा वदतु तेन च गोचरस्थ-स्तद्वत्सुहृत्त्वमपि संयुतिमैत्रतश्च ॥३४॥
  35. श्लोक 35लग्नेशयद्भावपयोस्तु योगो यदा तदा तत्फलसिद्धिकालः ।भावेशवीर्ये शुभमन्यथान्यल्लग्नाच्च चन्द्रादपि चिन्तनीयम् ॥३५॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।