अध्याय 15: जातकफलसारभूतभावचिन्ता
फलदीपिका · Phaladeepika, chapter 15 (Method of judging the houses)
30 श्लोक
- श्लोक 1भावाः सर्वे शुभपतियुता वीक्षिता वा शुभेशै-स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः ।पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैवखेटैः सर्वैः शुभफलमिदं नीचमूढारिहीनैः ॥१॥
- श्लोक 2तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्तेपापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते ।भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशंमिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मूर्तिभावादिकानाम् ॥२॥
- श्लोक 3नाशस्थानगतो दिवाकरकरैर्लुप्तस्तु यद्भावपोनीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः ।तद्भावस्य विनाशनं वितनुते तादृग्विधोऽन्योऽस्ति चेत्तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥३॥
- श्लोक 4लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् ।सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भावादिकानां फलमेवमाहुः ॥४॥
- श्लोक 5यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा ।तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥५॥
- श्लोक 6भावाधीशे च भावे सति बलरहिते च ग्रहे कारकाख्येपापान्तःस्थे च पापैररिभिरपि समेतेक्षिते नान्यखेटैः ।पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वावाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥६॥
- श्लोक 7तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बलाभावार्यष्टमकामगा निजदशायां भावनाशप्रदाः ।पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाःवीर्याढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥७॥
- श्लोक 8राश्योर्जन्मविलग्नयोर्धृतिपतिर्मृत्युस्थतद्वीक्षकौमन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपाः ।राहुश्चैव सुदुर्बलः स जनने भावानभीष्टस्थितःपापालोकितसंयुतो निजदशायां भावनाशावहाः ॥८॥
- श्लोक 9भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् ।दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बलेदोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥९॥
- श्लोक 10यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे-द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न ।अत्रोदाहरणं कुजे सुतगते सिंहे झषे वा स्थितेपुत्राप्तिं शुभवीक्षिते झटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥१०॥
- श्लोक 11द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजंतस्यार्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तद्दशादौ वदेत् ।पश्चाद्भावमिहापरार्धसमये युग्मे गृहे युग्मजंत्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥११॥
- श्लोक 12यद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो विन्दुशून्यर्क्षयुक्तः ।तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयाद्दैववित्प्राश्निकाय ॥१२॥
- श्लोक 13स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः षड्भिर्बलैर्मुख्यबलान्वितोऽपि ।सन्धौ स्थितः सन्नफलप्रदः स्यादेवं विचिन्त्यात्र वदेद्विपाके ॥१३॥
- श्लोक 14भावेषु भावस्फुटतुल्यभागस्तद्भावजं पूर्णफलं विधत्ते ।सन्धौ फलं नास्ति तदन्तराले चिन्त्योऽनुपातः खलु खेचराणाम् ॥१४॥
- श्लोक 15सूर्यादात्मपितृप्रभावनिरुजां शक्तिं श्रियं चिन्तयेत्चेतोबुद्धिनृपप्रसादजननीसंपत्करश्चन्द्रमाः ।सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुनाविद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥१५॥
- श्लोक 16प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ।आयुर्जीवनमृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥१६॥
- श्लोक 17द्युमणिरमरमन्त्री भूसुतः सोमसौम्यौगुरुरिनतनयारौ भार्गवो भानुपुत्रः ।दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाःसुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥१७॥
- श्लोक 18सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानांफलमनु परिचिन्त्यं लग्नदेहादिभावैः ।समुपचयविपत्ती सौम्यपापेषु सत्यःकथयति विपरीतं रिःफषष्ठाष्टमेषु ॥१८॥
- श्लोक 19पापग्रहाः षष्ठमृतिव्ययस्थास्तद्भाववृद्धिं कलयन्ति दोषैः ।शुभास्तु तद्भावलयं हि तस्माच्छत्र्वादिभावोत्थफलप्रणाशः ॥१९॥
- श्लोक 20भावस्य यस्यैव फलं विचिन्त्यं भावं च तं लग्नमिति प्रकल्प्य ।तस्माद्वदेद्द्वादशभावजानि फलानि तद्रूपधनादिकानि ॥२०॥
- श्लोक 21एवं हि तत्कारकतो विचिन्त्यं पितुश्च मातुश्च सहोदरस्य ।तन्मातुलस्यापि सुतस्य पत्युर्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥२१॥
- श्लोक 22सूर्यस्थितर्क्षाज्जनकस्वरूपं वृद्धिं द्वितीयेन तु तत्प्रकाशम् ।तद्भ्रातरं तस्य गुणं तृतीयात्तन्मातरं चापि सुखं चतुर्थात् ॥२२॥
- श्लोक 23बुद्धिं प्रसादं सुतभाच्च षष्ठात्पीडां पितुर्दोषमरिं च रोगम् ।कामं मदं तस्य तु सप्तमेन दुःखं मृतिं मृत्युगृहात्तदायुः ॥२३॥
- श्लोक 24पुण्यं शुभं तत्पितरं शुभेन व्यापारमस्यैव हि कर्मभावात् ।लाभं ह्युपान्त्यात् क्षयमन्त्यभावाच्चन्द्रादिकानां फलमेवमाहुः ॥२४॥
- श्लोक 25तत्तद्भावात्कारकादेवमूह्यं तत्तन्मातृभ्रातृपित्रात्मजाद्यम् ।तस्मिन् भावे कारके भावनाथे वीर्योपेते तस्य भावस्य सौख्यम् ॥२५॥
- श्लोक 26धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री ।कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥२६॥
- श्लोक 27लग्नेश्वरो यद्भवनेशयुक्तो यद्भावगस्तस्य फलं ददाति ।भावे तदीशे बलभाजि तेन भावेन सौख्यं व्यसनं बलोने ॥२७॥
- श्लोक 28यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-स्तद्भावानुभवं शुभं वितनुते यद्भावगस्तस्य च ।संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलंकुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥२८॥
- श्लोक 29दुःस्थानपस्तदितरस्वगृहस्थितश्चेत्स्वक्षेत्रभावफलमेव करोति नान्यत् ।मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिःषष्ठाधिपत्यकृतदोषफलं च नात्र ॥२९॥
- श्लोक 30राशौ स्थितिर्मिथो योगो दृष्टिः केन्द्रेषु संस्थितिः ।त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥३०॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।