अध्याय 14: रोगमरणपूर्वभविष्यजन्मचिन्ता

फलदीपिका · Phaladeepika, chapter 14 (Diseases, death, past and future births)

17 श्लोक · 12 श्लोक (आयु या मृत्यु से संबंधित) यहाँ नहीं दिखाए

  1. श्लोक 1रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः ।रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसम्वादवशाद्वदन्तु ॥१॥
  2. श्लोक 2पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज-व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्रुतिम् ।काष्ठाग्न्यस्त्रविषार्तिदारतनयव्यापच्चतुष्पाद्भयंचोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् ॥२॥
  3. श्लोक 3निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाःशृङ्ग्यब्जाहतिमग्निमान्द्यमरुचिं योषिद्व्यथाकामिलाः ।चेतःभ्रान्तिमसृग्विकारमुदकाद्भीतिं च बालग्रहाद्दुर्गाकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् ॥३॥
  4. श्लोक 4तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रार्तिकुष्ठाक्षिरोगान्गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् ।भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्तेरक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वाङ्गरोगम् ॥४॥
  5. श्लोक 5भ्रान्ति दुर्वचनं दृगामयगलघ्राणोत्थरोग ज्वरंपित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान् ।दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान्गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः ॥५॥
  6. श्लोक 6गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान्देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् ।रोगं किन्नरयक्षदेवफणभृद्विद्याधराद्युद्भवंजीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् ॥६॥
  7. श्लोक 7पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान्गुह्यस्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् ।वारस्त्रीकृतदेहकान्तिविहृतिं शोषामयं योगिनी-यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् ॥७॥
  8. श्लोक 8वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान्भ्रान्ति कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वाहतिम् ।भार्यापुत्रविपत्तिमङ्गविहतिं हृत्तापमर्कात्मजोवृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः ॥८॥
  9. श्लोक 9स्वर्भानुर्हृदि तापकुष्ठविमतिव्याधि विषं कृत्रिमपादार्तिं च पिशाचपन्नगभयं भार्यातनूजापदम् ।ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत्प्रेतोत्थं च भयं विषं च गुलिको देहार्तिमाशौचजम् ॥९॥
  10. श्लोक 10मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक्शौर्यायाङ्गिरसो यमारसहिता दृष्टा यदि श्रोत्ररुक् ।सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्वितेतद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः ॥१०॥
  11. श्लोक 11षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणंशुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् ।राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजंक्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् ॥११॥
  12. श्लोक 24धर्मेश्वरेणैव हि पूर्वजन्मवृत्तं भविष्यज्जननं सुतेशात् ।तदीशजातिं तदधिष्ठितर्क्षदिशं हि तत्रैव तदीशदेशम् ॥२४॥
  13. श्लोक 25स्वोच्चे तदीशे सति देवभूमिं द्वीपान्तरं नीचरिपुस्थलस्थे ।स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव ॥२५॥
  14. श्लोक 26आर्यावर्तं गीष्पतेः पुण्यनद्यः काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि ।पङ्गोर्निन्द्या म्लेच्छभूस्तीक्ष्णभानोः शैलारण्यं कीकटं भूमिजस्य ॥२६॥
  15. श्लोक 27स्थिरे स्थिरांशाधिगतः सपापः पृष्ठोदयेऽधोमुखभे च संस्थः ।तदीश्वरो वृक्षलतादिजन्म स्यादन्यथा जीवयुतः शरीरी ॥२७॥
  16. श्लोक 28लग्नेशितुः स्वोच्चसुहृत्स्वगेहान् तदीश्वरो याति मनुष्यजन्म ।समे मृगाः स्युर्विहगाः परस्मिन् द्रेक्काणरूपैरपि चिन्तनीयम् ॥२८॥
  17. श्लोक 29तावेकराशौ जननं स्वदेशे तौ तुल्यवीर्यौ यदि तुल्यजातौ ।वर्णो गुणस्तस्य खगस्य तुल्यः संज्ञोदितैरेव वदेत्समस्तम् ॥२९॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।