अध्याय 12: पुत्रचिन्ता

फलदीपिका · Phaladeepika, chapter 12 (Children)

34 श्लोक

  1. श्लोक 1सुस्था विलग्नशशिनोः सुतभेशजीवाःसुस्थाननाथशुभदृष्टियुते सुतर्क्षे ।लग्नात्मपौ यदि युतौ च मिथः सुदृष्टौक्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः ॥१॥
  2. श्लोक 2लग्नामरेड्यशशिनां सुतभेषु पापैर्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु ।पापोभयेषु सुतभेषु सुतेश्वरेषु दुःस्थानगेषु न भवन्ति सुताः कथंचित् ॥२॥
  3. श्लोक 3पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनःपुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रहा ।संज्ञां चाल्पसुतर्क्षमित्यलिवृषस्त्रीसिंहभानां विदुःतद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरे साध्यति ॥३॥
  4. श्लोक 4सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगेलग्नाष्टव्ययगैः शनीज्यरुधिरैश्चाल्यात्यात्मजर्क्षे सुते ।चन्द्रे लाभगते गुरुस्थितसुतस्थाने सपापे भवे-ल्लग्नेऽनेकखगान्विते तनयभाक्कालान्तरे यत्नतः ॥४॥
  5. श्लोक 5सूर्ये नान्ययुते सुतर्क्षसहिते चन्द्रस्य गेहे स्थितेभौमे वा भृगुजेऽपि वा सति सुतप्राप्तिं द्वितीयस्त्रियाम्मन्दे वा बहुपुत्रवाञ्छशिनि वा सौम्येऽपि वाल्पात्मजोदेवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिष्ठिते ॥५॥
  6. श्लोक 6सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभि-र्व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः ।मदे कविविदौ मतौ गुरुरसद्भिरम्बुस्थितैःसुते शशिनि नैधनव्ययतनुस्थपापैरपि ॥६॥
  7. श्लोक 7पापे लग्ने लग्नपे पुत्रसंस्थे धीशे वीर्ये वेश्मनीन्द्रावपुत्रः ।ओजर्क्षांशे पुत्रगे सूर्यदृष्टे चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः ॥७॥
  8. श्लोक 8मान्दं सुतर्क्षं यदि वाऽथ बौधं मान्द्यर्कपुत्रान्वितवीक्षितं चेत् ।दत्तात्मजः स्यादुदयास्तनाथसंबन्धहीनो विबलः सुतेशः ॥८॥
  9. श्लोक 9नीचारिमूढोपगते सुतेशे रिःफारिरन्ध्राधिपसंयुते वा ।सुतस्य नाशः कथितोऽत्र तज्ज्ञैः शुभैरदृष्टे सुतभे सुतेशे ॥९॥
  10. श्लोक 10सुतनाथजीवकुजभास्करेषु वै पुरुषांशकेषु च गतेषु कुत्रचित् ।मुनयो वदन्ति बहुपुत्रतां तदा सुतनाथवीर्यवशतः सुपुत्रताम् ॥१०॥
  11. श्लोक 11पुंराश्यंशे धीश्वरे पुंग्रहेन्द्रैर्युक्ते दृष्टे पुंग्रहे पुंप्रसूतिः ।स्त्रीराश्यंशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे ॥११॥
  12. श्लोक 12बलयुक्तौ स्वगृहांशेष्वर्कसितावपचयर्क्षगौ पुंसाम् ।स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः ॥१२॥
  13. श्लोक 13अशत्रुनीचारिनवांशकैः सुते सुतेशयुक्तैरपि तैस्तथाविधैः ।सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते फलैः पुत्रमितिर्विचिन्त्यते ॥१३॥
  14. श्लोक 14जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशकेस्त्रीणां क्षेत्रबलं वदन्ति सुतदं मिश्रं प्रयासात्फलम् ।भास्वच्छुक्रगुरुस्फुटैक्यभवनेप्योजांशकेऽप्योजभेपुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् ॥१४॥
  15. श्लोक 15पञ्चघ्नाच्छशिनः स्फुटादिषुहतं भानुस्फुटं शोधये-न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि ।कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वयोः पक्षयोःदर्शे छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः ॥१५॥
  16. श्लोक 16विष्टिः स्थिरं वा करणं यदि स्यात् कृष्णं यजेत् पौरुषसूक्तमन्त्रैः ।षष्ठ्यां गुहाराधनमत्र कार्यं यजेच्चतुर्थ्यां किल नागराजम् ॥१६॥
  17. श्लोक 17रामायणस्य श्रवणं नवम्यां यद्यष्टमी चेच्छ्रवणव्रतं च ।चतुर्दशी चेद्यदि रुद्रपूजां स्याद्द्वादशी चेत्स्मृतमन्नदानम् ॥१७॥
  18. श्लोक 18तृप्तिं पितॄणामिह पञ्चदश्यां कृष्णे दशम्याः परतोऽतियत्नात् ।पक्षत्रिभागेष्वपि नागराजं स्कन्दं च सेवेत हरिं क्रमेण ॥१८॥
  19. श्लोक 19पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित-स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् ।पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतुं वदेत् ॥१९॥
  20. श्लोक 20द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄणां रवे-रिन्दोर्मातृसुवासिनीभगवतीकोपान्मनोदोषतः ।स्वग्रामस्थितदेवतागुहरिपुज्ञात्युत्थदोषात्कुजेशापाद्बालकृताद्विलालवधतः श्रीविष्णुकोपाद्बुधे ॥२०॥
  21. श्लोक 21पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रुम-च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् ।साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सामन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः ॥२१॥
  22. श्लोक 22स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथाकेतौ ब्राह्मणशापतश्च गुलिके प्रेतोत्थशापं वदेत् ।शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुतेजीवो वाथ शिखी समान्दिरिह चेद्भूदेवहत्याऽसुतः ॥२२॥
  23. श्लोक 23एवं हि जन्मसमये बहुपूर्वजन्मकर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः ।तत्तद्ग्रहोक्तजपदानशुभक्रियाभिस्तद्दोषशान्तिमिह शंसतु पुत्रसिद्ध्यै ॥२३॥
  24. श्लोक 24सेतुस्नानं कीर्तनं सत्कथायाः पूजां शंभोः श्रीपतेः सद्व्रतानि ।दानं श्राद्धं कर्जनागप्रतिष्ठां कुर्यादेतैः प्राप्नुयात्सन्ततिं सः ॥२४॥
  25. श्लोक 25लग्नास्तपुत्रपतिजीवदशापहारे पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः ।पुत्रेशराशिमथवा यमकण्टकर्क्षं जीवे गते तनयसिद्धिरथांशभे वा ॥२५॥
  26. श्लोक 26लग्नाधीशः पुत्रनाथेन योगं स्वोच्चे स्वर्क्षे चारगत्या समेति ।पुत्रप्राप्तिः स्यात्तदा लग्ननाथः पुत्रर्क्षं वायाति धीशाप्तभं वा ॥२६॥
  27. श्लोक 27विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् ।सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् ॥२७॥
  28. श्लोक 28सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा ।बलसहितस्य दशायामपहारे वा सुतप्राप्तिः ॥२८॥
  29. श्लोक 29जीवे तु जीवात्मजनाथभांशकत्रिकोणगे पुत्रजनिर्भवेन्नृणाम् ।अथान्यशास्त्रेण च जन्मकालतो निरूपयेत्सन्ततिलक्षणं बुधः ॥२९॥
  30. श्लोक 30जन्मनक्षत्रनाथस्य प्रत्युरर्क्षाधिपस्य च ।स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः ॥३०॥
  31. श्लोक 31निषेकलग्नाद्दिनपस्तृतीये राशौ यदा चारवशादुपैति ।आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् ॥३१॥
  32. श्लोक 32आधानलग्नात्सुतभेशजन्मभाग्येऽपि वा पुण्यवशाच्च वाच्यम् ।आधानलग्ने शुभदृष्टियोगे दीर्घायुरैश्वर्ययुतो नरः स्यात् ॥३२॥
  33. श्लोक 33तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा ।तस्मात्तावति भे वाऽपि जन्मचन्द्रं वदेद्बुधः ॥३३॥
  34. श्लोक 34प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु ।आधानकालेऽपि च जन्मतुल्यं फलं वदेज्जन्मविलग्नतश्च ॥३४॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।