अध्याय 11: स्त्रीजातकम्

फलदीपिका · Phaladeepika, chapter 11 (Women's horoscopes)

11 श्लोक

  1. श्लोक 1यद्यत्पुंप्रसवे क्षमं तदखिलं स्त्रीणां प्रिये वा वदे-न्माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् ।भर्तारं सुभगत्वमस्तभवनात्संगं सतीत्वं सुखात्सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं विना ॥१॥
  2. श्लोक 2उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौसुतनयपतिभूषासंपदुत्कृष्टशीला ।अशुभसहितदृष्टौ चौजगौ पुंस्वभावाकुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥२॥
  3. श्लोक 3सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवांस्तत्पति-र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयोः ।आग्नेयैर्मदनस्थितैश्च विधवा मिश्रैः पुनर्भूर्भवेत्क्रूरेष्वायुषि भर्तृहन्त्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥३॥
  4. श्लोक 4सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनयायमारार्कांशर्क्षे मदनसदने सामयभगा ।सुखे पापैर्युक्ते भवति कुलटा मन्दकुजयो-र्गृहेंऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥४॥
  5. श्लोक 5शुभक्षेत्रांशेऽस्ते सुभगजघना मङ्गलवतीविधोः सत्संबन्धेऽप्युदयसुखयोः साध्व्यतिगुणा ।त्रिकोणे सौम्याश्चेत्सुखसुतसंपद्गुणवतीबलोनाः क्रूरांश्चेद्यदि भवति वन्ध्या मृतसुता ॥५॥
  6. श्लोक 6चन्द्रे भौमगृहे कुजादिकथितत्रिंशांशकेषु क्रमात्दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी ।शुक्रर्क्षे बहुदूषणान्यपतिगा पूज्या सुधीर्विश्रुताज्ञर्क्षे छद्मवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥६॥
  7. श्लोक 7स्वच्छन्दा भर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ताचान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी ।मान्दे दास्यन्यसक्ताश्रितपतिरसती निष्प्रजार्थार्कभे स्याद्दुर्भार्या हीनवृत्ता धरणिपतिवधूः पुंविचेष्टान्यसक्ता ॥७॥
  8. श्लोक 8शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् ।बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥८॥
  9. श्लोक 9ज्येष्ठभ्रातरमम्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्ज्येष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः ।चित्रार्द्राभुजगस्वराट्च्छतभिषङ्मूलाग्नितिष्योद्भवावन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥९॥
  10. श्लोक 10चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराःपूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता ।भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सतीतावद्भाति सुमङ्गली च सुतनुर्यावच्छुभाढ्येऽष्टमे ॥१०॥
  11. श्लोक 11शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षितेजातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ।दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निषेकं पुमान्अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्झिते ॥११॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।