अध्याय 10: कलत्रभावः

फलदीपिका · Phaladeepika, chapter 10 (The seventh house)

15 श्लोक

  1. श्लोक 1शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतोविधोरपि तयोः शुभं त्वितरथा न सिद्धिस्तयोः ।सिताद्व्ययसुखाष्टगैः खरखगैरसन्मध्यगेसितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥१॥
  2. श्लोक 2दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरोद्यूने वा निधनेश्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् ।क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजःस्त्रीसंगाद्धननाशनं मदगयोः स्वर्भानुभान्वोर्वदेत् ॥२॥
  3. श्लोक 3शुक्रे वृश्चिकगे मदे मृतवधूः कामे वृषस्थे बुधेस्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरूढे तथा ।जामित्रे झषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सती शोभना ॥३॥
  4. श्लोक 4अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगेनीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् ।कामे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौशुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥४॥
  5. श्लोक 5भौमार्क्यस्ते भृगुजशशिनोर्दारहीनोऽसुतो वाक्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् ।द्वन्द्वर्क्षांशे मदपतिसितौ तस्य जायाद्वयं स्यात्ताभ्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥५॥
  6. श्लोक 6स्त्रीसंख्यां मदगैर्ग्रहैर्मृतिमसत्खेटैश्च सद्भिः स्थितिंद्यूनेशे सबले शुभे सति वधूः साध्वी सुपुत्रान्विता ।पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्च कामस्थितोहित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥६॥
  7. श्लोक 7भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौतत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टिं विशेषात् ।एवं पत्न्या अपि सति मदे चाष्टमे वास्ति दोषःसौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥७॥
  8. श्लोक 8चन्द्रे समन्दे मदगे पुनर्भूः पतिर्भवेद्वाप्यसुतो विदारः ।नीचारिभस्थैरशुभैर्मदे स्त्रीपुंसोर्मृतिः स्यान्निधने धने वा ॥८॥
  9. श्लोक 9लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेड्ये ।सूर्याभितप्तरहिते सुतदारनाथे वीर्यान्विते तु जननं ससुतं कलत्रम् ॥९॥
  10. श्लोक 10कुटुम्बदारव्ययराशिनाथा जीवेक्षिताः कोणचतुष्टयस्थाः ।दारेश्वराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥१०॥
  11. श्लोक 11लग्नास्तनाथस्थितभांशकोणे नीचोच्चभे स्त्रीजननं च पत्युः ।चन्द्राष्टवर्गेऽधिकबिन्दुराशौ कलत्रजन्मेति तथा धवस्य ॥११॥
  12. श्लोक 12कामस्थकामाधिपभार्गवानामृक्षं दिशं शंसति तस्य पत्न्याः ।शुक्रोऽस्तपो वा तनुनाथभांशकत्रिकोणमायाति तदा विवाहः ॥१२॥
  13. श्लोक 13कलत्रसंस्थस्य कलत्रदृष्टेर्दशागमे वाथ कलत्रपस्य ।यदा विलग्नाधिपतिः प्रयाति कलत्रभं तत्र कलत्रलाभः ॥१३॥
  14. श्लोक 14कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।दशागमे द्यूनपयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥१४॥
  15. श्लोक 15कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पापनिरीक्षिते वा ।कलत्रभे पापयुतेऽथ दृष्टे कलत्रहानिं प्रवदन्ति सन्तः ॥१५॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।