अध्याय 9: मेषादीनां लग्नफलम्
फलदीपिका · Phaladeepika, chapter 9 (Results of the rising sign)
20 श्लोक
- श्लोक 1वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी ।संचारशीलश्चपलोऽनृतोक्तिर्व्रणाङ्किताङ्गः क्रियभे प्रजातः ॥१॥
- श्लोक 2पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्मध्यान्तसौख्यः प्रमदाप्रियश्च ।त्यागी क्षमी क्लेशसहश्च गोमान् पृष्ठास्यपार्श्वेऽङ्कयुतो वृषोत्थः ॥२॥
- श्लोक 3श्यामेक्षणः कुञ्चितमूर्द्धजः स्त्रीक्रीडानुरक्तश्च परेङ्गितज्ञः ।उत्तुङ्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥३॥
- श्लोक 4स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुङ्गकटिर्धनाढ्यः ।ह्रस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥४॥
- श्लोक 5पिङ्गेक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् ।कुप्यत्यकार्ये वनशैलगामी मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥५॥
- श्लोक 6स्रस्तांसबाहुः परवित्तगेहैः संपूज्यते सत्यरतः प्रियोक्तिः ।व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थविद्याल्पसुतोऽङ्गनायाम् ॥६॥
- श्लोक 7चलत्कृशाङ्गोऽल्पसुतोऽतिभक्तो देवद्विजानामटनो द्विनामा ।प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥७॥
- श्लोक 8वृत्तोरुजङ्घः पृथुनेत्रवक्षा रोगी शिशुत्वे गुरुतातहीनः ।क्रूरक्रियो राजकुलाभिमुख्यः कीटेऽब्जरेखाङ्कितपाणिपादः ॥८॥
- श्लोक 9दीर्घास्यकण्ठः पृथुकर्णनासः कर्मोद्यतः कुब्जतनुर्नृपेष्टः ।प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता साम्नैकसाध्योऽश्विभवो बलाढ्यः ॥९॥
- श्लोक 10अधः कृशः सत्वयुतो गृहीतवाक्योऽलसोऽगम्यजराङ्गनेष्टः ।धर्मध्वजो भाग्ययुतोऽटनश्च वातार्दितो नक्रभवो विलज्जः ॥१०॥
- श्लोक 11प्रच्छन्नपापो घटतुल्यदेहो विघातदक्षोऽध्वसहोऽल्पवित्तः ।लुब्धः परार्थी क्षयवृद्धियुक्तो घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥११॥
- श्लोक 12अत्यम्बुपानः समचारुदेहः स्वदारगस्तोयजवित्तभोक्ता ।विद्वान्कृतज्ञोऽभिभवत्यमित्रान् शुभेक्षणो भाग्ययुतोऽन्यराशौ ॥१२॥
- श्लोक 13राशेः स्वभावाश्रयरूपवर्णान् ज्ञात्वानुरूपाणि फलानि तस्य ।युक्त्या वदेदत्र फलं विलग्ने यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥१३॥
- श्लोक 14ग्रहे सति निजोच्चगे भवति रत्नगर्भाधिपोमहीपतिकृतस्तुतिर्महितसंपदामालयः ।उदारगुणसंयुतो जयति विक्रमार्को यथानये यशसि विक्रमे वितरणे धृतौ कौशले ॥१४॥
- श्लोक 15स्वमन्दिरगते ग्रहे प्रभुपरिग्रहादायतिंप्रभुत्वमपि वा गृहस्थितिमचञ्चलां प्राप्नुयात् ।नवं भवनमुर्वराक्षितिमुपैति काले स्वकेजने बहुमतिं पुनः सकलनष्टवस्तून्यपि ॥१५॥
- श्लोक 16ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः कार्यस्य सिद्धिं नवसौहृदं च ।सत्पुत्रजायाधनधान्यभाग्यं ददात्ययं सर्वजनानुकूल्यम् ॥१६॥
- श्लोक 17गते ग्रहे शत्रुगृहं निकृष्टतां परान्नवृत्तिं परमन्दिरस्थितिम् ।अकिंचनत्वं रिपुपीडनं सदा स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥१७॥
- श्लोक 18नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः ।नीचाश्रयं कीकटदेशवासं भृत्यत्वमध्वानमनर्थकार्यम् ॥१८॥
- श्लोक 19ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैःप्रहीणत्वं व्यर्थं कलहमपवादं परिभवम् ।समर्क्षस्थः खेटो न कलयति वैशेषिकफलंसुखं वा दुःखं वा जनयति यथापूर्वमचलम् ॥१९॥
- श्लोक 20वक्रं गतः स्वोच्चफलं विदध्यात्सपत्ननीचर्क्षगतोऽपि खेटः ।वर्गोत्तमांशस्थितखेचरोऽपि स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥२०॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।