अध्याय 8: लग्नादिद्वादशभावफलम्
फलदीपिका · Phaladeepika, chapter 8 (Planets in the twelve houses)
35 श्लोक
- श्लोक 1लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतोमानी लोचनरूक्षकः कृशतनुः शूरोऽक्षमो निर्घृणः ।स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमान्दारिद्र्योपहतो विनष्टतनयो जातस्तुलायां भवेत् ॥१॥
- श्लोक 2विगतविद्याविनयवित्तं स्खलितवाचं धनगतःसबलशौर्यश्रियमुदारं स्वजनशत्रुं सहजगः ।जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद्भवनमुक्तं नृपतिसेवा जनकसंपद्व्ययकरम् ॥२॥
- श्लोक 3सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगंप्रथितमुर्वीपतिमरिस्थः सुगुणसंपद्विजयगम् ।नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतंहतधनायुः सुहृदमर्को विगतदृष्टिं निधनगः ॥३॥
- श्लोक 4विजनकोऽर्के ससुतबन्धुस्तपसि देवद्विजमनाःससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः ।भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिःपितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥४॥
- श्लोक 5सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयोबलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते ।धनाढ्योऽन्तर्वाणिर्विषयसुखवान् वाचि विकलःसहोत्थे सभ्रातृप्रमदबलशौर्योऽतिकृपणः ॥५॥
- श्लोक 6सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाःसुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते ।क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवीस्मरे दृष्टः सौम्यो वरयुवतिकान्तोऽतिसुभगः ॥६॥
- श्लोक 7मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान्जयी सिद्धारम्भो नभसि शुभकृत्सत्प्रियकरः ।मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवेव्यये द्वेष्यो दुःखी शशिनि परिभूतोऽलसतमः ॥७॥
- श्लोक 8क्षततनुरतिक्रूरोऽल्पायुस्तनौ घनसाहसीवचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः ।सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजेसुहृदि विसुहृन्मातृक्षोणीसुखालयवाहनः ॥८॥
- श्लोक 9विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीःप्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः ।अनुचितकरो रोगार्तोऽस्तेऽध्वगो मृतदारवान्कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः ॥९॥
- श्लोक 10नृपसुहृदपि द्वेष्योऽतातः शुभे जनघातकोनभसि नृपतिः क्रूरो दाता प्रधानजनस्तुतः ।धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजेनयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः ॥१०॥
- श्लोक 11दीर्घायुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधःस्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता ।शौर्ये शूरः समायुः सुसहजसहितः सश्रमो दैन्ययुक्तःसंख्यावान् चाटुवाक्यः सुहृदि सुखसुहृत्क्षेत्रधान्यार्थभोगी ॥११॥
- श्लोक 12विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थेजातक्रोधो विवादैर्द्विषि रिपुबलहन्तालसो निष्ठुरोक्तिः ।प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तांविख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टमे दण्डनेता ॥१२॥
- श्लोक 13विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मीसिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे ।बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तोदीनो विद्याविहीनः परिभवसहितोऽन्त्ये नृशंसोऽलसश्च ॥१३॥
- श्लोक 14शोभावान् सुकृती चिरायुरभयो लग्ने गुरौ सात्मजोवाग्मी भोजनसारवांश्च सुमुखो वित्ते धनी कोविदः ।सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी-र्बन्धौ मातृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः ॥१४॥
- श्लोक 15पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौषष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पटुः ।सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिकोदीनो जीवति सेवया कलुषभाग्दीर्घायुरिज्येऽष्टमे ॥१५॥
- श्लोक 16ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकःस्वाचारः सुयशा नभस्यतिधनी जीवे महीशप्रियः ।आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगोद्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः ॥१६॥
- श्लोक 17तनौ सुतनुदृक्प्रियं सुखिनमेव सुदीर्घायुषंकरोति कविरर्थगः कविमनेकवित्तान्वितम् ।विदारसुखसम्पदं कृपणमप्रियं विक्रमेसुवाहनसुमन्दिराभरणवस्त्रगन्धं सुखे ॥१७॥
- श्लोक 18अखण्डितधनं नृपं सुमतिमात्मजे सात्मजंविशत्रुमधनं क्षते युवतिदूषितं विक्लवम् ।सुभार्यमसतीरतं मृतकलत्रमाढ्यं मदेचिरायुषमिलाधिपं धनिनमष्टमे संस्थितः ॥१८॥
- श्लोक 19सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभेनभस्यतियशःसुहृत्सुखितवृत्तियुक्तं प्रभुम् ।धनाढ्यमितराङ्गनारतमनेकसौख्यं भवे ।भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् ॥१९॥
- श्लोक 20स्वोच्चे स्वकीयभवने क्षितिपालतुल्योलग्नेऽर्कजे भवति देशपुराधिनाथः ।शेषेषु दुःखपरिपीडित एव बाल्येदारिद्र्यदुःखवशगो मलिनोऽलसश्च ॥२०॥
- श्लोक 21विमुखमधनमर्थेऽन्यायवन्तं च पश्चा-दितरजनपदस्थं यानभोगार्थयुक्तम् ।विपुलमतिमुदारं दारसौख्यं च शौर्येजनयति रविपुत्रश्चालसं विक्लवं च ॥२१॥
- श्लोक 22दुःखी स्याद् गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभेभ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शठो दुर्मतिः ।बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपौकामस्थे रविजे कुदारनिरतो निःस्वोऽध्वगो विह्वलः ॥२२॥
- श्लोक 23शनैश्चरे मृतिस्थिते मलीमसोऽर्शसोऽवसुः ।करालधीर्बुभुक्षितः सुहृज्जनावमानितः ॥२३॥
- श्लोक 24भाग्यार्थात्मजतातधर्मरहितो मन्दे शुभे दुर्जनोमन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे ।बह्वायुः स्थिरसंपदायसहितः शूरो विरोगी धनीनिर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः ॥२४॥
- श्लोक 25लग्नेऽहावचिरायुरर्थबलवानूर्ध्वाङ्गरोगान्वित-श्छद्मोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी ।मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनीमूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी ॥२५॥
- श्लोक 26नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु-ग्विट्क्रूरग्रहपीडितः सगुदरुक्छ्रीमांश्चिरायुः क्षते ।स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी-रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः ॥२६॥
- श्लोक 27धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान्ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः ।श्रीमान्नातिसुतश्चिरायुरसुरे लाभे सकर्णामयःप्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः ॥२७॥
- श्लोक 28लग्ने कृतघ्नमसुखं पिशुनं विवर्णं स्थानच्युतं विकलदेहमसत्समाजम् ।विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं पातः परान्ननिरतं कुरुते धनस्थः ॥२८॥
- श्लोक 29आयुर्बलं धनयशःप्रमदान्नसौख्यं केतौ तृतीयभवने सहजप्रणाशम् ।भूक्षेत्रयानजननीसुखजन्मभूमिनाशं सुखे परगृहस्थितिमेव दत्ते ॥२९॥
- श्लोक 30पुत्रक्षयं जठररोगपिशाचपीडां दुर्बुद्धिमात्मनि खलप्रकृतिं च पापः ।औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं षष्ठे प्रभुत्वमरिमर्दनमिष्टसिद्धिम् ॥३०॥
- श्लोक 31द्यूनेऽवमानमसतीरतिमान्त्ररोगं पापः स्वदारवियुतिं मदधातुहानिम् ।स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे शस्त्रक्षतं सकलकार्यविरोधमेव ॥३१॥
- श्लोक 32पापप्रवृत्तिमशुभं पितृभाग्यहीनं दारिद्र्यमार्यजनदूषणमाह धर्मे ।सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं तेजस्विनं नभसि शौर्यमतिप्रसिद्धम् ॥३२॥
- श्लोक 33लाभेऽर्थसंचयमनेकगुणं सुभोगं सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् ।प्रच्छन्नपापमघमव्ययमर्थनाशं रिःफे विरुद्धगतिमक्षिरुजं च पातः ॥३३॥
- श्लोक 34उदयर्क्षांशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते ।शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह संप्रोक्तः ॥३४॥
- श्लोक 35भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति ।न्यूनाधिकांशवशतः फलवृद्धिह्रासता वाच्या ॥३५॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।