अध्याय 7: महाराजयोगः
फलदीपिका · Phaladeepika, chapter 7 (Maharaja yogas)
30 श्लोक
- श्लोक 1त्र्याद्यैः खेटैः स्वोच्चगैः केन्द्रसंस्थैः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धः ।पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वौघयुक्तः ॥१॥
- श्लोक 2भूपाः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथाह्यन्तर्धिर्नहि चेत्कराद्दिनकराज्जाताः स्फुरन्त्येव ते ।त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाःमर्त्यास्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः ॥२॥
- श्लोक 3यद्येकोऽपि विराजितांशुनिकरः सुस्थानगो वक्रगोनीचस्थोऽपि करोति भूपसदृशं द्वौ वा त्रयो वा ग्रहाः ।एवं चेज्जनयन्ति भूपतिममी शस्तांशराशिस्थितास्तद्वच्चेद्बहवो नृपं समकुटच्छत्रोल्लसच्चामरम् ॥३॥
- श्लोक 4द्वौ वा त्र्याद्या दिग्बलयुक्ता यदि जातःक्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः ।हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता-श्चत्वारो वा भूपतिरन्यान्वयजोऽपि ॥४॥
- श्लोक 5गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा ।चतुर्ग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥५॥
- श्लोक 6विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतःस्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा ।गजस्कन्धे कार्तस्वरकृतविमानेऽतिसुषमेसुखासीनं भूपं जनयति लसच्चामरयुगम् ॥६॥
- श्लोक 7निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभ-स्थितग्रहनिरीक्षितो धवलकान्तिजालोज्ज्वलः ।विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशीचतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् ॥७॥
- श्लोक 8अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रैर्दृष्टश्चेज्जनयति भूपतिं जितारिम् ।नीचार्योर्गृहमपहाय वित्तसंस्थो लग्नेशः सह कविना बली च भूपम् ॥८॥
- श्लोक 9भौमश्चेदजहरिचापलग्नसंस्थः पृथ्वीशं कलयति मित्रखेटदृष्टः ।कर्मेशो नवमगतश्च भाग्यनाथो मध्यस्थो भवति नृपो जनैः प्रशस्तः ॥९॥
- श्लोक 10चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपोलग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात्त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥१०॥
- श्लोक 11सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य ।यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥११॥
- श्लोक 12नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तुस्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः ।गोक्षीरशङ्खधवलो मृगलाञ्छनश्चस्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥१२॥
- श्लोक 13कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नंयदि बलसमुपेतः पश्यति व्योमचारी ।उदयभवनसंस्थः पापसंज्ञो न चैवंभवति मनुजनाथः सार्वभौमः सुदेहः ॥१३॥
- श्लोक 14जीवो बुधो भृगुसुतोऽथ निशाकरो वाधर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।मित्रैर्निरीक्षितयुता यदि सूतिकालेकुर्वन्ति देवसदृशं नृपतिं महान्तम् ॥१४॥
- श्लोक 15शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशीदृष्टस्तीव्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः ।सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा-वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति ॥१५॥
- श्लोक 16नीचारिस्थैर्भवभवनगैः षष्ठदुश्चिक्यगैर्वासौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा ।आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया-मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥१६॥
- श्लोक 17वर्गोत्तमे हिमकरः सकलः स्थितोंऽशेकुर्यान्महीपतिमपूर्वयशोऽभिरामम् ।यस्याश्ववृन्दखुरघातरजोऽभिभूतोभानुः प्रभातशशिनोऽनुकरोति रूपम् ॥१७॥
- श्लोक 18केन्द्रगौ यदि च जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ ।भूपतिर्भवति सोऽतुलकीर्तिर्नीचगो यदि न कश्चिदिह स्यात् ॥१८॥
- श्लोक 19जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे ।अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥१९॥
- श्लोक 20शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिंदेवेड्यो मृगभं विहाय तनुगो मत्तेभयुक्तं नृपम् ।केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्याद्धरित्रीपतिंदृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् ॥२०॥
- श्लोक 21एकोप्युच्चक्षेत्रगो मित्रदृष्टः कुर्याद्भूपं मित्रयोगाद्धनाढ्यम् ।स्वांशे सूर्ये स्वर्क्षगश्चन्द्रमाश्चेद्देशाधीशं साश्वनागं विधत्ते ॥२१॥
- श्लोक 22मीने पूर्णज्योतिषि मित्रग्रहदृष्टेचन्द्रे लोकानन्दकरः स्यान्नृपमुख्यः ।पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु-स्त्यागाधिक्यं सज्जनशस्तं जगदीशम् ॥२२॥
- श्लोक 23चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्यात् ।तथा स्थिते वासवमन्त्रिदृष्टे पूर्णां धरित्रीं परिपालयेत्सः ॥२३॥
- श्लोक 24पापास्त्रिशत्रुभवगा यदि जन्मनाथा-ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ ।कर्मायलग्नसहिताः कुजमन्दजीवा-स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् ॥२४॥
- श्लोक 25लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती ।स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥२५॥
- श्लोक 26नीचस्थितो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः ।स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती ॥२६॥
- श्लोक 27यद्येको नीचगतस्तद्राश्यधिपस्तदुच्चपः केन्द्रे ।यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांघ्रिः ॥२७॥
- श्लोक 28यस्मिन्राशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः ।क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः ॥२८॥
- श्लोक 29नीचे तिष्ठति यस्तदाश्रितगृहाधीशो विलग्नाद्यदाचन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथवा ।केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपोधर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् ॥२९॥
- श्लोक 30नीचे यस्तस्य नीचोच्चमेशौ द्वावेक एव वा ।केन्द्रस्थश्चेच्चक्रवर्ती नृपः स्याद्भूपवन्दितः ॥३०॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।