अध्याय 6: योगाध्यायः

फलदीपिका · Phaladeepika, chapter 6 (Yogas)

70 श्लोक

  1. श्लोक 1रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः ।स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥१॥
  2. श्लोक 2दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बलीगर्विष्ठो रुचके प्रतीतगुणवान् सेनापतिर्जित्वरः ।आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाघितोभूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥२॥
  3. श्लोक 3हंसे सद्भिरभिष्टुतः क्षितिपतिः शङ्खाब्जमत्स्याङ्कुशै-श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मिकः ।पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनोमालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥३॥
  4. श्लोक 4शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपोदुर्वृत्तः शशयोगजोऽन्यवनितावित्तान्वितः सौख्यवान् ।लग्नेन्द्वोरपि योगपञ्चकमिदं साम्राज्यसिद्धिप्रदंतेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥४॥
  5. श्लोक 5विधोस्तु सुनफानफाधुरुधराः स्वरिःफोभय-स्थितैर्विरविभिर्ग्रहैरितरथा तु केमद्रुमः ।हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमोन हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥५॥
  6. श्लोक 6स्वयमधिगतवित्तः पार्थिवस्तत्समो वाभवति हि सुनफायां धीधनख्यातिमांश्च ।प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥६॥
  7. श्लोक 7उत्पन्नभोगसुखभाग्धनवाहनाढ्य-स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः ।केमद्रुमे मलिनदुःखितनीचनिःस्वाःप्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥७॥
  8. श्लोक 8हित्वेन्दुं शुभवेसिवास्युभयचर्याख्याः स्वरिःफोभय-स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पापसंज्ञाः स्मृताः ।सत्पार्श्वे शुभकर्तरीत्युदयभे पापैस्तु पापाह्वयोलग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥८॥
  9. श्लोक 9जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिकोविख्यातः सकलप्रियोऽतिसुभगो दाता महीशप्रियः ।चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनीविद्यादत्र सुवेसिवास्युभयचर्याख्येषु पादक्रमात् ॥९॥
  10. श्लोक 10अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनोमायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः ।लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतोजातश्चाशुभवेसिवास्युभयचर्याख्येषु पादक्रमात् ॥१०॥
  11. श्लोक 11जैवातृको विभयरोगरिपुः सुखी स्या-दाढ्यः श्रिया च शुभकर्तरियोगजातः ।निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनःस्यात्पापकर्तरिभवोऽचिरमायुरेति ॥११॥
  12. श्लोक 12आचारवान् धर्ममतिः प्रसन्नः सौभाग्यवान् पार्थिवमाननीयः ।मृदुस्वभावः स्मितभाषणश्च धनी भवेच्चामलयोगजातः ॥१२॥
  13. श्लोक 13सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् ।शुभैः क्रमात्फलं ज्ञेयं विपरीतमसद्ग्रहैः ॥१३॥
  14. श्लोक 14ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमांश्चेन्महाभाग्ययोगःस्त्रीणां तद्व्यत्यये स्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति ।जीवान्त्याष्टारिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धाः ॥१४॥
  15. श्लोक 15महाभाग्ये जातः सकलनयनानन्दजनकोवदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः ।वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिताचिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥१५॥
  16. श्लोक 16केसरीव रिपुवर्गनिहन्ता प्रौढवाक् सदसि राजसवृत्तिः ।दीर्घजीव्यतियशाः पटुबुद्धिस्तेजसा जयति केसरियोगे ॥१६॥
  17. श्लोक 17कचित्कचिद्भाग्यपरिच्युतः सन् पुनः पुनः सर्वमुपैति भाग्यम् ।लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिदुःखी ॥१७॥
  18. श्लोक 18कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशःसुखसंपत् ।ज्ञानधीविनयनैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥१८॥
  19. श्लोक 19चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-श्चन्द्राद्व्योम्न्यमलाह्वयः शुभखगैर्योगो विलग्नादपि ।जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगेलग्नं पश्यति कश्चिदत्र बलवान्योगो भवेत्पुष्कलः ॥१९॥
  20. श्लोक 20तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपिक्ष्मेशः स्यादमले धनी सुतयशःसंपद्युतो नीतिमान् ।श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतःस्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥२०॥
  21. श्लोक 21सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थितायद्येवं मृतिषड्व्ययादिषु गृहेष्वत्राशुभाख्याः स्मृताः ।स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौलक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जीवेक्षिते ॥२१॥
  22. श्लोक 22जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता ।बन्धुप्रियः सत्सुतदारयुक्तो धीरः सुमालाह्वययोगजातः ॥२२॥
  23. श्लोक 23कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः ।स्यात्कातरो भूसुरभक्तिहीनो लोकाभिशप्तः कलहप्रियः स्यात् ॥२३॥
  24. श्लोक 24नित्यं मङ्गलशीलया वनितया क्रीडत्यरोगी धनीतेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः ।श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमाध्यासितोलोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥२४॥
  25. श्लोक 25सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः ।पङ्कजवक्त्रः संस्तुतजैत्रो राजति गौरीयोगसमुत्थः ॥२५॥
  26. श्लोक 26शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः ।स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥२६॥
  27. श्लोक 27धीमान्नाटकगद्यपद्यगणनालङ्कारशास्त्रेष्वयंनिष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः ।कीर्त्याक्रान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितःस्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् ॥२७॥
  28. श्लोक 28लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताःस्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् ।तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथावागीशात्मपसूर्यजा यदि तदा वैरिञ्चियोगस्ततः ॥२८॥
  29. श्लोक 29रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवंध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीक्षितः ।साधूनामुपकारकः परमतेष्वेवानसूयो भवेत्तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥२९॥
  30. श्लोक 30लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काङ्कितःतन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनैः ।तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितःसर्वेषां नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥३०॥
  31. श्लोक 31ब्रह्मज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणीहृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः ।सौम्योक्तिर्बहुवित्तदारतनयः सद्ब्रह्मतेजोज्वल-न्दीर्घायुर्विजितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥३१॥
  32. श्लोक 32अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिःफान्तकंभावाधीश्वरयोः क्रमेण कथिताः षट्षष्टियोगा जनैः ।त्रिंशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥३२॥
  33. श्लोक 33मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितःक्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः ।उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलंसौम्योक्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखादिकम् ॥३३॥
  34. श्लोक 34श्रीकटाक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च ।पार्थिवाप्तबहुमानसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥३४॥
  35. श्लोक 35लग्नाधिपाप्तभपतिस्थितराशिनाथःस्वोच्चस्वभेषु यदि कोणचतुष्टयस्थः ।योगः स काहल इति प्रथितोऽथतद्व-ल्लग्नाधिपाप्तभपतिर्यदि पर्वताख्यः ॥३५॥
  36. श्लोक 36वर्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः ।स्थिरार्थसौख्यः स्थिरकार्यकर्ता क्षितीश्वरः पर्वतयोगजातः ॥३६॥
  37. श्लोक 37धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ चेत् ।राजयोग इति तद्वदिह स्यान् केन्द्रकोणयुतिर्यदि शङ्खः ॥३७॥
  38. श्लोक 38भेरीशङ्खप्रणादैर्धृतमृदुपटिकाजातवृत्तातपत्रोहस्त्यश्वान्दोलिकाद्यैः सह मगधकृतप्रस्तुतिर्भूमिपालः ।नानारूपोपहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्या-द्राजा स्याच्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥३८॥
  39. श्लोक 39संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् ।केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥३९॥
  40. श्लोक 40वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागी भूपतिश्चोपकारी ।पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रयुक्तः ॥४०॥
  41. श्लोक 41शूले हिंस्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये ।निःस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥४१॥
  42. श्लोक 42सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः ।नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रीमान्दीर्घजीवी मनस्वी ॥४२॥
  43. श्लोक 43अधियोगभवो नरेश्वरः स्थिरसंपद्बहुबन्धुपोषकः ।अमुना रिपवः पराजिताश्चिरमायुर्लभते प्रसिद्धताम् ॥४३॥
  44. श्लोक 44भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैःस्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश ।संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रकामासुराभाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥४४॥
  45. श्लोक 45प्रत्यहं व्रजति वृद्धिमुदग्रां शुक्लचन्द्र इव शोभनशीलः ।कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥४५॥
  46. श्लोक 46सन्निपानविभवोऽखिलविद्यापुष्कलोऽधिककुटुम्बविभूतिः ।हेमरत्नधनधान्यसमृद्धो राजराज इव राजति धेनौ ॥४६॥
  47. श्लोक 47कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः ।शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥४७॥
  48. श्लोक 48गोसंपद्धनधान्यशोभिसदनं बन्धुप्रपूर्णं वर-स्त्रीरत्नाम्बरभूषणानि महितस्थानं च सर्वोत्तमम् ।प्राप्नोत्यम्बुधियोगजः स्थिरसुखो हस्त्यश्वयानादिगोराजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥४८॥
  49. श्लोक 49सुसंसारसौभाग्यसन्तानलक्ष्मीनिवासो यशस्वी सुभाषी मनीषी ।अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥४९॥
  50. श्लोक 50शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रवृत्त्या सहितोऽभिमानी ।व्रणाङ्किताङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥५०॥
  51. श्लोक 51परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः ।जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥५१॥
  52. श्लोक 52हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् ।स्वयंकृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥५२॥
  53. श्लोक 53चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वतींलक्ष्मीं प्राप्य महाजनैः कृतनतिः स्याद्धर्ममार्गे स्थितः ।प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैःस्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥५३॥
  54. श्लोक 54सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जनान्नृपः ।पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥५४॥
  55. श्लोक 55नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी ।सत्कथाश्रवणभक्तिरभिज्ञो पारिजातजननः शिवतातिः ॥५५॥
  56. श्लोक 56कृच्छ्रलब्धधनवान् परिभूतो लोलसंपदुचितव्ययशीलः ।स्वर्गमेव लभतेऽन्त्यदशायां जाल्मको मुसलजश्चपलश्च ॥५६॥
  57. श्लोक 57दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः ।हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौयोगा द्वादश ते दरिद्रविमले प्रोक्ता विपश्चिज्जनैः ॥५७॥
  58. श्लोक 58अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः ।संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥५८॥
  59. श्लोक 59सुवचनशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः ।मतिसुतविद्याविभवविहीनो रिपुहृतवित्तः प्रभवति निःस्वे ॥५९॥
  60. श्लोक 60अरिपरिभूतः सहजविहीनो मनसि विलज्जो हतबलवित्तः ।अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥६०॥
  61. श्लोक 61मातृवाहनसुहृत्सुखभूषाबन्धुभिर्विरहितः स्थितिशून्यः ।स्थानमाश्रितमनेन हतं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥६१॥
  62. श्लोक 62दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः ।नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥६२॥
  63. श्लोक 63सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः ।प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्च हर्षजः ॥६३॥
  64. श्लोक 64स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृत्तिः ।प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥६४॥
  65. श्लोक 65दीर्घायुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः ।सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥६५॥
  66. श्लोक 66पित्रार्जितक्षेत्रगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः ।प्रत्नातिजीर्णाम्बरधृक्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥६६॥
  67. श्लोक 67शरीरप्रयासैः कृतं कर्म यत्तद्व्रजेन्निष्फलत्वं लघुत्वं जनेषु ।जनद्रोहकारी स्वकुक्षिभरिः स्यादजस्रं प्रवासी च दुर्योगजातः ॥६७॥
  68. श्लोक 68ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभ्रात्रहीनः ।अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥६८॥
  69. श्लोक 69किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् ।सुखी स्वतन्त्रो महनीयवृत्तिर्गुणैः प्रतीतो विमलोद्भवः स्यात् ॥६९॥
  70. श्लोक 70छिद्रारिव्ययनायकाः प्रबलगाः केन्द्रत्रिकोणाश्रिताःलग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः ।निर्वीर्या विगतप्रभा यदि तदा दुर्योग एव स्मृत-स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥७०॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।