अध्याय 13: चन्द्रविधिः (सुनफा, अनफा, दुरुधुरा)

सारावली · Saravali (Moon yogas: sunapha, anapha, durudhara, kemadruma)

33 श्लोक

  1. श्लोक 1सुनफाऽनफादुरुधरा भवन्ति योगाः क्रमेण रविरहितैः ।वित्तान्त्योभयसंस्थैः कैरववनबान्धवाद्विहगैः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनएते न यदा योगाः केन्द्रग्रहवर्जितः शशाङ्कश्च ।केमद्रुमोऽतिकष्टः शशिनि समस्तग्रहादृष्टे ॥ २ ॥
  3. श्लोक 3सुनभानभासरूपास्त्रिंशद्योगा(३१)स्त्रिसंगुणा षष्टिः(१८०) ।संख्या धौरुधुराणां प्रस्तारविधौ समाख्याताः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनश्रीमान् स्वबाहुविभवो बहुधर्मशीलःशास्त्रार्थविद्बहुयशाः स्वगुणाभिरामः ।शान्तः सुखी क्षितिपतिः सचिवोऽथ वा स्यात्सूतः पुमान् विपुलधीः सुनभाभिधाने ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनवाग्मी प्रभुर्द्रविणवानगदः सुशीलोभोक्तान्नपानकुसुमाम्बरभामिनीनाम् ।ख्यातः समाहितगुणः सुखशस्तचित्तोयोगे निशाकरकृते त्वनभे सुवेषः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनवाग्बुद्धिविक्रमगुणैः प्रथितः पृथिव्यांस्वातन्त्र्यसौख्यधनवाहनभोगभोगी ।दाता कुटुम्बधनपोषणलब्धखेदःसद्वृत्तवान् धुरुधुराप्रभवो धुरिस्थः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनकान्तान्नपानगृहवस्त्रसुहृद्विहीनःदारिद्र्यदुःखगददैन्यमलैरुपेतः ।प्रेष्यः खलः सकललोकविरुद्धवृत्तिःकेमद्रुमे भवति पार्थिववंशजोऽपि ॥ ७ ॥
  8. श्लोक 8केन्द्रादिस्थैर्ग्रहैर्योगाः कीर्तिता येऽनभादयः ।तान् प्रधानान् समानान् स्वांश्चन्द्ररूपान्विचिन्तयेत् ॥८॥
  9. श्लोक 9भौमादीनां बलं देशं जातस्य च कुलं बुधः ।विज्ञाय प्रवदेत् सम्यक् सुनभादिकृतं फलम् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनविक्रमवित्तप्रायो निष्ठुरवचनश्चमूपतिश्चण्डः ।हिंस्रो दम्भविरोधी सुनभायां भौमसंयोगे ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनश्रुतिशास्त्रगेयकुशलो धर्मपरः काव्यकृन्मनस्वी च ।सर्वहितो रुचिरतनुः सुनभायां सोमजे भवति ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनविद्याचार्यं ख्यातं नृपतिं नृपतिप्रियं वाऽपि ।सुकुटुम्बधनसमृद्धं सुनभायां सुरगुरुः कुरुते ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनस्त्रीक्षेत्रवित्तविभवश्चतुष्पदाढ्यः सुविक्रमो भवति ।नृपसत्कृतः सुधीरो दक्षः शुक्रेण सुनभायाम् ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठननिपुणमतिर्ग्रामपुरैर्नित्यं संपूजितो धनसमृद्धः ।सुनभायां रविपुत्रे क्रियासु गुप्तो भवेद्धीरः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनचोरस्वामी धृष्टः स्ववंशो मानी रणोत्कटः क्रोधी ।श्रेष्ठः श्लाघ्यः सुतनुः कुजेऽनभायां सुलाभश्च ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनगन्धर्वलेख्यपटुः कविः प्रवक्ता नृपाप्तसत्कारः ।रुचिरतनुस्त्वनभायां प्रसिद्धकर्मा बुधेन भवेत् ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनगाम्भीर्यसत्वमेधास्थानरतो बुद्धिमान् नृपाप्तयशाः ।अनभायां त्रिदशगुरौ संजातः सत्वविद्भवति ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनयुवतीनामतिसुभगः प्रणयी क्षितिपस्य गोपतिः ख्यातः ।कान्तः कनकसमृद्धस्त्वनभायां भार्गवे भवति ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनविस्तीर्णभुजो नेता गृहीतवाक्यश्चतुष्पदसमृद्धः ।दुर्वनिताया भक्तो गुणसहितश्चार्कपुत्रेण ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनआनृतिको बहुवित्तो निपुणोऽतिशठोऽधिको लुब्धः ।वृद्धासतीप्रसक्तः कुलाग्रणीः शशिनि भौमबुधमध्ये ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनख्यातः कर्मसु विभवी बहुजनवैरस्त्वमर्षणो हृष्टः ।कुलरक्षी कुजगुर्वोः सङ्ग्रहशीलः शशिनि मध्ये ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनउत्तमरामः सुभगो विवादशीलः शुचिर्भवेद्दक्षः ।व्यायामी रणशूरः सितारयोर्मध्यगे चन्द्रे ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनकुत्सितयोषिद्रमणो बहुसंचयकारको व्यसनतप्तः ।क्रोधी पिशुनो रिपुमान् यमारयोः स्याद्धुरुधरायाम् ॥२३॥
  24. श्लोक 24कुंडली के 1 पठनधर्मपरः शास्त्रज्ञो वाचालः सत्कविर्धनोपेतः ।त्यागयुतो विख्यातो बुधगुरुमध्ये स्थिते चन्द्रे ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनप्रियवाक् सुभगः कान्तः प्रनृत्तगेयादिषु प्रियो भवति ।सेव्यः शूरो मन्त्री बुधसितयोर्धुरुधुरायोगे ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनदेशाद्देशं गच्छति वित्तपरो नातिविद्यया सहितः ।चन्द्रेऽन्येषां पूज्यः स्वजनविरोधी ज्ञमन्दयोर्मध्ये ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनधृतिमेधाशौर्ययुतो नीतिज्ञः कनकरत्नपरिपूर्णः ।ख्यातो नृपकृत्यकरो गुरुसितयोर्धुरुधुरायोगे ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनसुखनयविज्ञानयुतः प्रियवाग्विद्वान् धुरंधरोऽप्यार्यः ।शान्तो धनी सुरूपश्चन्द्रे गुरुभानुजान्तस्थे ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनवृद्धचरितं कुलाग्र्यं निपुणं स्त्रीवल्लभं धनसमृद्धम् ।नृपसत्कृतं बहुधनं कुरुते चन्द्रः सितासितयोः ॥ २९ ॥
  30. श्लोक 30कुंडली के 3 पठनसूर्यात् केन्द्रादिगतो निशाकरः स्वल्पमध्यभूयिष्ठान् ।कुर्यात्क्रमेण धनधीनैपुणविज्ञानविनयांश्च ॥ ३० ॥
  31. श्लोक 31कुंडली के 2 पठनऔत्पातिकः कृशतनुर्निशि चाप्यदृश्योदृश्यो दिवा शिशिरगुर्भयशोकदः स्यात् ।एवं स्थितः समफलं पृथिवीपतित्वंयातोऽन्यथा प्रकुरुते परिपूर्णमूर्तिः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 6 पठनलग्नादुपचयसंस्थैः शुभैः समस्तैर्महाधनो द्वाभ्याम् ।मध्यं चैकेनाधममेवं चन्द्रादपि तदूनः ॥ ३२ ॥
  33. श्लोक 33अधियोगादयोऽन्येऽपि मयात्रैव न कीर्तिताः ।नृपयोगा यतस्ते हि वक्ष्ये तत्रैव तानहम् ॥ ३३ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।