अध्याय 7: कारकाध्यायः (द्वितीयः)
सारावली · Saravali (Karakas, continued: what each planet rules)
15 श्लोक
- श्लोक 1रविचन्द्रभौमबुधजीवशुक्रसौरा दिनादिपतयश्च ।मासे चाश्वयुजादौ दिनेश्वरेऽब्दे दिनपतेश्च ॥ १ ॥
- श्लोक 2अब्दाधिपाश्चतुर्थाः क्रमेण षष्ठस्तु कालहोरेशाः ।द्विर्द्वादशहोराः स्युर्दिवसास्त्वेकाधिकास्त्रिंशत् ॥ २ ॥
- श्लोक 3मासास्त्रिंशद्गुणिता गतैर्दिनैः सप्तभाजिता दिवसाः ।अब्दाधिपात् प्रगण्या गते दिनाद्यः प्रयत्नस्तु ॥ ३ ॥
- श्लोक 4एकत्रिंशद्भागैर्युक्तश्चैत्रादीनां ग्रहादीनाम् ।क्रमशो विज्ञातव्या शुक्लप्रतिपत्प्रसंख्यायाम् ॥ ४ ॥
- श्लोक 5यस्य ग्रहस्य भावो यस्तस्य गृहे प्रशस्यते कर्म ।तस्मिंश्चोपचयस्थे तस्मिन् लग्ने गृहे चास्य ॥ ५ ॥
- श्लोक 6तत्कर्मग्रहदिवसे तदेव होराब्दमासकालेषु ।पादविवृद्ध्या वा स्यात्तेषां कालस्य संपाकः ॥ ६ ॥
- श्लोक 7सव्यालोर्णकशैलस्वर्णशस्त्रविषदहनभेषजनृपाश्च ।म्लेच्छाब्धितारकान्तारकाष्ठमंत्रप्रभुः सूर्यः ॥ ७ ॥
- श्लोक 8कविकुसुमभोज्यमणिरजतशंखलवणोदकेषु वस्त्राणाम् ।भूषणनारीघृतकुजतैल........निद्राप्रभुश्चन्द्रः ॥ ८ ॥
- श्लोक 9रक्तोत्पलताम्रसुवर्णरुधिरपारदमनःशिलाद्यानाम् ।क्षितिनृपतिपतनमूर्च्छापैत्तिकचोरप्रभुर्भौमः ॥ ९ ॥
- श्लोक 10श्रुतलिखितशिल्पचैत्य(क?)नैपुणमन्त्रित्वदूतहास्यानाम् ।खगयुग्मख्यातिवनस्पतिस्वर्णमयप्रभुः सौम्यः ॥ १० ॥
- श्लोक 11माङ्गल्यधर्मपौष्टिकमहत्वशिक्षानियोगपुरराष्ट्रम् ।यानासनशयनसुवर्णधान्य(वेश्म)पुत्रप्रभुर्जीवः ॥ ११ ॥
- श्लोक 12वस्त्रमणिरत्नभूषणविवाहगन्धेष्टमाल्ययुवतीनाम् ।गोमयनिधानविद्याधनशुक्तिरजतप्रभुः शुक्रः ॥ १२ ॥
- श्लोक 13त्रपुसीसकाललोहककुधान्यमृतबन्धभृतकानाम् ।नीचस्त्रीपण्यकदासवृद्धजनदीक्षा प्रभुः सौरिः ॥ १३ ॥
- श्लोक 14अर्कः कलिङ्गविषये यवनेषु च चन्द्रमाः ।शुक्रः समतटे जातः सैन्धवेषु बृहस्पतिः ॥ १४ ॥
- श्लोक 15मगधेषु बुधो जातः सौराष्ट्रेषु शनैश्चरः ।अङ्गारकस्तूज्जयिन्यां राहुः केतुश्च द्राविडे ॥ १५ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।