अध्याय 6: कारकाध्यायः

सारावली · Saravali (Karakas (significators))

6 श्लोक

  1. श्लोक 1स्वर्क्षत्रिकोणतुङ्गस्था यदि केन्द्रेषु संस्थिताः ।अन्योन्यं कारकास्ते स्युः केन्द्रेष्वेव हरेर्मतम् ॥ १ ॥
  2. श्लोक 2रवितनयो जूकस्थः कुलीरलग्ने बृहस्पतिहिमांशू ।मेषे कुजो गवि सितः परस्परं कारका एते ॥ २ ॥
  3. श्लोक 3तुङ्गसुहृत्स्वगृहांशे स्थिता ग्रहाः कारकाः समाख्याताः ।मेषूरणे च रविरिति विशेषतो वक्ति चाणक्यः ॥ ३ ॥
  4. श्लोक 4लग्नस्थः सुखसंस्थो दशमस्थश्चापि कारकाः सर्वे ।एकादशेऽपि केचिद्वाञ्छन्ति न तन्मतं मुनीन्द्राणाम् ॥ ४ ॥
  5. श्लोक 5नीचकुले संभूतः कारकविहगैः प्रधानतां याति ।क्षितिपतिवंशसमुत्थो भवति नरेन्द्रो न सन्देहः ॥ ५ ॥
  6. श्लोक 6कारकवेधो बलवान् मूलं योगेषु कीर्तितो हरिणा ।तस्मात्फलनिर्देशः कारकवेधादिभिर्वाच्यः ॥ ६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।