अध्याय 5: मिश्रकाध्यायः
सारावली · Saravali (Miscellaneous definitions (states and strengths))
52 श्लोक
- श्लोक 1राशिप्रभेदसंज्ञः कथितो ग्रहयोनिभित्तिरध्यायः ।सर्वव्यापकमधुना कथयिष्ये मिश्रकं नाम ॥ १ ॥
- श्लोक 2दीप्तः स्वस्थो मुदितः शान्तःशक्तो निपीडितो भीतः ।विकलः खलश्च कथितो नवप्रकारो ग्रहो हरिणा ॥ २ ॥
- श्लोक 3स्वोच्चे भवति च दीप्तः स्वस्थः स्वगृहे सुहृद्गृहे मुदितः ।शान्तः शुभवर्गस्थः शक्तः स्फुटकिरणजालश्च ॥ ३ ॥
- श्लोक 4विकलो रविलुप्तकरो ग्रहाभिभूतो निपीडितश्चैवम् ।पापगणस्थश्च खलो नीचे भीतः समाख्यातः ॥ ४ ॥
- श्लोक 5दीप्ते विचरति पुरुषः प्रतापविषमाग्निदग्धरिपुवर्गः ।लक्ष्म्यालिङ्गितदेहो गजमदसंसिक्तभूपृष्ठः ॥ ५ ॥
- श्लोक 6स्वस्थः करोति जन्मनि रत्नानि सुखानि कनकपरिवारान् ।नृपतेर्दण्डपतित्वं गृहधान्यकुटुम्बपरिवृद्धिम् ॥ ६ ॥
- श्लोक 7मुदिते विलसति मुदितो विलासिनीकनकरत्नपरिपूर्णः ।विजितसकलारिपक्षः समस्तसुखभाङ् नरो भवति ॥ ७ ॥
- श्लोक 8शान्ते प्रशान्तचित्तः सुखधनभागी महीपतेः सचिवः ।विद्वान् परोपकारी धर्मपरो जायते पुरुषः ॥ ८ ॥
- श्लोक 9स्त्रीवस्त्रमाल्यगन्धैर्विलसति पुरुषः सदा विततकीर्तिः ।दयितः सर्वजनस्य च शक्ताख्ये भवति विख्यातः ॥ ९ ॥
- श्लोक 10दुःखैर्व्याधिभिररिभिः प्रपीड्यते पीडिताख्ये तु ।देशाद्देशं विचरति बन्धुवियोगाभिसंतप्तः ॥ १० ॥
- श्लोक 11बहुसाधनोऽपि राजा प्रध्वस्तबलः प्रपीडितो रिपुणा ।नाशमुपयाति विजितो भीते दैन्यं परं प्राप्तः ॥ ११ ॥
- श्लोक 12स्वस्थानपरिभ्रष्टः क्लिष्टो मलिनः प्रयाति परदेशम् ।विध्वस्तबलो विकले रिपुबलसंचकितचित्तश्च ॥ १२ ॥
- श्लोक 13स्त्रीभरणदुःखतप्तः समस्तधननाशकलुषितमनस्कः ।न जहाति शोकभारं कथमपि खलसंज्ञिते पुरुषः ॥ १३ ॥
- श्लोक 14उच्चराशौ विलोमे च बलं नान्यैरिहेष्यते ।कालस्यातिबहुत्वाच्च तस्मात्स्वोच्चेऽतिवक्रिते ॥ १४ ॥
- श्लोक 15स्वोच्चाश्रिताः श्रेष्ठबला भवन्ति मूलत्रिकोणे स्वगृहे च मध्याः ।इष्टेक्षिता मित्रगृहाश्रिता वा वीर्यं कनीयः समुपोद्वहन्ति ॥ १५ ॥
- श्लोक 16शुक्लप्रतिपद्दशके मध्यबलः कीर्त्यते यवनवृद्धैः ।श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च ॥ १६ ॥
- श्लोक 17आहितकलासमूहः प्रसन्ननिजमण्डलः सुपरिपूर्णः ।अप्रतिहतमिह कुरुते भूतिबलमुडुगणाधिपतिः ॥ १७ ॥
- श्लोक 18चन्द्राध्यासितराशेर्नाथो लग्नाधिपोऽपि वा यस्य ।केन्द्रे सुरगुरुमन्त्री वयसो मध्ये सुखं तस्य ॥ १८ ॥
- श्लोक 19राशेस्तदीश्वरस्य च बलेन परिकल्प्यमृक्षभेदफलम् ।युगपत्फलोपलब्धेरवधृतिरेकस्य कर्तव्या ॥ १९ ॥
- श्लोक 20होराग्रहबलसाम्ये निसर्गजं चिन्तनीयमाचार्यैः ।लग्नाधिपतेस्तुल्यं बलमिह चूडामणिर्वदति ॥ २० ॥
- श्लोक 21उच्चबलं कन्यायां बुधस्य तुङ्गांशकैः सदा चिन्त्यम् ।परतस्त्रिकोणजातं पञ्चभिरंशैः स्वराशिजं परतः ॥ २१ ॥
- श्लोक 22उच्चं भागत्रितयं वृष इन्दोश्च त्रिकोणमपरेंऽशाः ।द्वादशभागा मेषे त्रिकोणमपरे स्वभं तु भौमस्य ॥ २२ ॥
- श्लोक 23दशभागा ईड्यस्य च त्रिकोणमपरे स्वभं चापे ।शुक्रस्य तु त्रिकोणं पञ्चभिरपरे स्वभं जूके ॥ २३ ॥
- श्लोक 24विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य ।कुम्भे त्रिकोणनिजभे रविजस्य यथा रवेः सिंहे ॥ २४ ॥
- श्लोक 25स्वोच्चस्थितः शुभफलं प्रकरोति पूर्णंनीचर्क्षगस्तु विफलं रिपुमन्दिरेऽल्पम् ।पादं शुभस्य हितभे स्वगृहे हितार्धंपादत्रयं गगनगः स्थितवांस्त्रिकोणे ॥ २५ ॥
- श्लोक 26नीचर्क्षगः सकलमेव करोति पापंन्यूनं च किंचिदरिभे विफलं स्वतुङ्गे ।पादत्रयं हितगृहे विहगोऽशुभस्यस्वर्क्षे दलं च चरणं स्थितवांस्त्रिकोणे ॥ २६ ॥
- श्लोक 27औत्पातिकाः सवितृलुप्तकरा विरूक्षानीचं गता रिपुगृहं च नभश्चरेन्द्राः ।युद्धे जिताः शुभफलानि विनाशयन्तिपापानि यानि सुतरां परिवर्धयन्ति ॥ २७ ॥
- श्लोक 28उच्चबलेन समेतः परां विभूतिं ग्रहः प्रसाधयति ।पुंसामथ साचिव्यं त्रिकोणबलवान् बलपतित्वम् ॥ २८ ॥
- श्लोक 29स्वर्क्षबलेन च सहितः प्रमुदितधनधान्यसंपदाक्रान्तम् ।मित्रबलेन च युक्तो जनयति कीर्त्यान्वितं पुरुषम् ॥ २९ ॥
- श्लोक 30तेजस्विनमतिसुभगं सुस्थिरविभवं नृपाच्च लब्धधनम् ।निजहोराबलयुक्तो जनयति विक्रान्तमतिचिन्त्यम् ॥ ३० ॥
- श्लोक 31स्वद्रेक्काणबलेनाहीनो गुणभाजनं ग्रहः कुरुते ।स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च ॥ ३१ ॥
- श्लोक 32सप्तांशकबलसहितः साहसिकं वित्तकीर्त्याढ्यम् ।द्विरसांशबलसमेतः कर्मरतपरोपकारकं चैव ॥ ३२ ॥
- श्लोक 33त्रिंशांशबलेन तथा विकसत्सौख्यं गुणान्वितं कुर्यात् ।शुभदर्शनफलसहितः पुरुषं कुर्याद्धनान्वितं ख्यातम् ।सुभगं प्रधानमखिलं सुरूपदेहं सुसौख्यं च ॥ ३३ ॥
- श्लोक 34पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम् ।पुरुषं प्रसन्नचित्तं कल्यं परलोकभीरुं च ॥ ३४ ॥
- श्लोक 35स्थानबलेन समेतः स्थितिसौख्यं सुहृच्च भागाढ्यः ।धीरो निश्चलवित्तः स्वतन्त्रकर्मा भवेन्मनुजः ॥ ३५ ॥
- श्लोक 36आशाबलसमुपेतो नयति स्वदिशं नभश्चरः पुरुषम् ।नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते ॥ ३६ ॥
- श्लोक 37आयनबलसमुपेतो दद्याद्विविधार्थसङ्गमं स्वदिशि ॥ ३७ ॥
- श्लोक 38क्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः ।ददाति विहगश्चित्रं चेष्टावीर्यसमन्वितः ॥ ३८ ॥
- श्लोक 39वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः ।पापा व्यसनिनां पुंसां कुर्वन्ति च वृथाटनम् ॥ ३९ ॥
- श्लोक 40स्वस्थशरीरसमागमसुकरोद्भवजयबलेन विदधाति ।शुभमखिलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् ॥ ४० ॥
- श्लोक 41रात्रिदिवाबलपूर्णैर्भूगजलाभेन शौर्यपरिवृद्ध्या ।मलिनयति शत्रुपक्षं भजति च लक्ष्मीं नभश्चरैः पुरुषः ॥ ४१ ॥
- श्लोक 42द्विगुणा द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः ।क्रमपरिवृद्ध्या सौख्यं स्वदशासु धनं च कीर्तिं च ॥ ४२ ॥
- श्लोक 43पक्षबलाद्रिपुनाशं रत्नाम्बरहस्तिसम्पदं दद्युः ।स्त्रीकनकभूमिलाभान् कीर्तिं च शशाङ्ककरधवलाम् ॥ ४३ ॥
- श्लोक 44सकलकरभारभारितनिर्मलकरजालभासुराः सततम् ।राज्यं ग्रहाः प्रदद्युः सौख्यं च मनोरथातीतम् ॥ ४४ ॥
- श्लोक 45आचारसत्यशुभशौचयुताः सुरूपा-स्तेजस्विनः कृतविदो द्विजदेवभक्ताः ।स्रग्वस्त्रगन्धजलभूषणसंप्रियाश्चसौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति ॥ ४५ ॥
- श्लोक 46लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाःसाधुद्विषः सकलहाश्च तमोभिभूताः ।क्रूराः सदा वधरता मलिनाः कृतघ्नाःपापग्रहैर्बलयुतैः पिशुनाः कुरूपाः ॥ ४६ ॥
- श्लोक 47स्वमित्रक्षेत्रसंस्थानां ग्रहाणां बालसंज्ञिका ।स्वत्रिकोणगतानां च कुमारो नामसंज्ञितः ॥ ४७ ॥
- श्लोक 48ग्रहाणां स्वोच्चसंस्थानां युवराजाभिधा भवेत् ।शत्रुक्षेत्रगतानां च वृद्धो नाम तथेरितः ॥ ४८ ॥
- श्लोक 49नीचगानां ग्रहाणां च दशा मरणसंज्ञिता ।तत्तत्फलसमायुक्ता ग्रहाणां तु दशा भवेत् ॥ ४९ ॥
- श्लोक 50बालैः सुखी सुशीलश्च यौवनैरवनीश्वरः ।वृद्धैर्व्याधिर्ऋणे वृद्धिर्मरणे मरणं व्ययम् ॥ ५० ॥
- श्लोक 51पुंराशिगैः शुभखगैर्धीराः सङ्ग्रामरक्षिणो बलिनः ।निश्चेष्टैः सुकठोराः क्रूरा मूर्खाश्च जायन्ते ॥ ५१ ॥
- श्लोक 52युवतिभवनस्थितेषु च मृदवः सङ्ग्रामभीरुकाः पुरुषाः ।जलकुसुमवस्त्रनिरताः सौम्याः कल्याः स्वजनहृष्टाः ॥ ५२ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।