अध्याय 4: ग्रहयोनिभेदः

सारावली · Saravali (The nature of the planets)

40 श्लोक

  1. श्लोक 1आत्मा रविः शीतकरस्तु चेतः सत्वं धराजः शशिजोऽथ वाणी ।ज्ञानं सुखं देवगुरुर्मदश्च शुक्रः शनिः कालनरस्य दुःखम् ॥ १ ॥
  2. श्लोक 2आत्मादयो गगनगैर्बलिभिर्बलवत्तराः ।दुर्बलैर्दुर्बलास्ते तु विपरीतं शनेः फलम् ॥ २ ॥
  3. श्लोक 3यथायथा लग्नगृहाश्रयाणां समुद्गमो भूरिविकल्पनानाम् ।तथातथा शैलनवाष्टसंख्याः क्रमेण कालावयवाः प्रसूताः ॥ ३ ॥
  4. श्लोक 4लग्नात्तत्क्षणमुदितं वामाङ्गमथाबलम् ।सव्यार्द्धादितरत्तस्य नोद्गतं सबलं च तत् ॥ ४ ॥
  5. श्लोक 5मूर्धालोचनकर्णगन्धवहनं गण्डौ हनुश्चाननंग्रीवास्कन्धभुजं तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः ।बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनीजङ्घे पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिताः ॥ ५ ॥
  6. श्लोक 6पापा व्रणं लाञ्छनमेषु सौम्याः स्वांशे स्वराशावथवा स्थितेषु ।कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु ग्रहास्तद्विपरीतसंस्थाः ॥ ६ ॥
  7. श्लोक 7राजा रविः शशधरस्तु बुधः कुमारःसेनापतिः क्षितिसुतः सचिवौ सितेज्यौ ।भृत्यस्तयोश्च रविजः सबला नराणांकुर्वन्ति जन्मसमये निजमेव सत्वम् ॥ ७ ॥
  8. श्लोक 8भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी ।सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥ ८ ॥
  9. श्लोक 9गुरुबुधशुक्राः सौम्याः सौरिकुजार्कास्तु निगदिताः पापाः ।शशिजोऽशुभसंयुक्तः क्षीणश्च निशाकरः पापः ॥ ९ ॥
  10. श्लोक 10हेलिर्भानुः शशी चन्द्रः क्रूराक्षः क्षितिनन्दनः ।आरो रक्तस्तथा वक्रो हेम्नो विद् ज्ञोऽथ बोधनः ॥ १० ॥
  11. श्लोक 11ईड्येज्यावङ्गिरा जीव आस्फुजिच्च सितो भृगुः ।मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः ॥ ११ ॥
  12. श्लोक 12ताम्रसितारुणहरितकपीतविचित्रासिता इनादीनाम् ।पावकजलगुहकेशवशक्रशचीवेधसः पतयः ॥ १२ ॥
  13. श्लोक 13अर्कादिग्रहदैवतमन्त्रैः सम्पूज्य तामाशाम् ।कनकगजवाहनादीन्प्राप्नोति गतोऽरितः शीघ्रम् ॥ १३ ॥
  14. श्लोक 14स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौपुंसां जीवदिवाकरक्षितिसुता विप्रस्य शक्रोऽङ्गिराः ।राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुधःशूद्राणां शिखिभूखतोयमरुतां भौमादयः कीर्तिताः ॥ १४ ॥
  15. श्लोक 15कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम् ।सुरगृहकाग्निविहारार्थशयनपांसूत्कराणां च ॥ १५ ॥
  16. श्लोक 16वस्त्राणां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम् ।ताम्रमणिहेममिश्रितरूप्यकमुक्तायसां वाऽपि ॥ १६ ॥
  17. श्लोक 17अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्याः ।शिशिरादीनामीशाः शनिसितभौमेन्दुबुधजीवाः ॥ १७ ॥
  18. श्लोक 18लग्नाधिपतेस्तुल्यः कालो लग्नोदितांशकसमाख्यः ।वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे ॥ १८ ॥
  19. श्लोक 19ऋग्वेदाधिपतिर्जीवो यजुर्वेदपतिः सितः ।सामवेदाधिपो वक्रः शशिजोऽथर्ववेदराट् ॥ १९ ॥
  20. श्लोक 20सुरपूज्यः शशिशुक्रौ दिनकरभौमौ बुधार्कजौ नाथाः ।विबुधमनुष्यपितृणां तिर्यङ्नरकाधिवासानाम् ॥ २० ॥
  21. श्लोक 21स्वल्पाकुञ्चितमूर्धजः पटुमतिर्मुख्यस्वरूपस्वनोनात्युच्चो मधुपिङ्गचारुनयनः शूरः प्रचण्डः स्थिरः ।रक्तश्यामतनुर्विगूढचरणः पित्तास्थिसारो महान्गम्भीरश्चतुरश्रकः पृथुकरः कौसुम्भवासा रविः ॥ २१ ॥
  22. श्लोक 22सौम्यः कान्तविलोचनो मधुरवाग्गौरः कृशाङ्गो युवाप्रांशुः सूक्ष्मनिकुञ्चितासितकचः प्राज्ञो मृदुः सात्विकः ।चारुर्वातकफात्मकः प्रियसखो रक्तैकसारो घृणीवृद्धस्त्रीषु रतश्चलोऽतिसुभगः शुभ्राम्बरश्चन्द्रमाः ॥ २२ ॥
  23. श्लोक 23ह्रस्वः पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलोमज्जावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक् ।ह्रस्वाकुञ्चितकेशदीप्ततरुणः पित्तात्मकस्तामस-श्चण्डः साहसिको विघातकुशलः संरक्तगौरः कुजः ॥ २३ ॥
  24. श्लोक 24रक्तान्तायतलोचनो मधुरवाक् दूर्वादलश्यामल-स्त्वक्सारोऽतिरजोधिकः स्फुटवचाः स्फीतस्त्रिदोषात्मकः ।हृष्टो मध्यमरूपवान् सुनिपुणो वृत्तः शिराभिस्ततःसर्वस्यानुकरोति वेषवचनैः पालाशवासा बुधः ॥ २४ ॥
  25. श्लोक 25ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरःसत्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः ।ह्रस्वो धर्मरतो विनीतनिपुणो बद्धोत्कटाक्षः क्षमीस्यात्पीताम्बरधृक्कफात्मकतनुर्मेदःप्रधानो गुरुः ॥ २५ ॥
  26. श्लोक 26चारुर्दीर्घभुजः पृथूरुवदनः शुक्राधिकः कान्तिमान्कृष्णाकुञ्चितसूक्ष्मलम्बिचिकुरो दूर्वादलश्यामलः ।कामी वातकफात्मकोऽतिसुभगश्चित्राम्बरो राजसोलीलावान्मतिमान्विशालनयनः स्थूलांसदेशः सितः ॥ २६ ॥
  27. श्लोक 27पिङ्गो निम्नविलोचनः कृशतनुर्दीर्घः सिरालोऽलसःकृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वाततो निर्घृणः ।मूर्खः स्थूलनखद्विजोऽतिमलिनो रूक्षोऽशुचिस्तामसोरौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥ २७ ॥
  28. श्लोक 28मित्राणि सूर्याद्गुरुभौमचन्द्राः सूर्येन्दुपुत्रौ रविचन्द्रजीवाः ।भानुश्च शुक्रः शशिसूर्यभौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण ॥ २८ ॥
  29. श्लोक 29शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्यः शशी शुक्रबुधौ रवीन्दू ।सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रुः ॥ २९ ॥
  30. श्लोक 30व्ययाम्बुधनखायेषु तृतीये सुहृदः स्थिताः ।तत्कालरिपवः षष्ठसप्ताष्टैकत्रिकोणगाः ॥ ३० ॥
  31. श्लोक 31हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ताहिततमहितमध्यास्तेऽपि तत्कालमित्रैः ।रिपुसमसुहृदाख्याः सूतिकाले ग्रहेन्द्राअधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीयाः ॥ ३१ ॥
  32. श्लोक 32संपश्यन्ति स्थानात् सदा ग्रहाश्चरणवृद्धितः सर्वे ।त्रिदशत्रिकोणचतुरश्रसप्तमानां फलं क्रमेणैव ॥ ३२ ॥
  33. श्लोक 33पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोणमपि जीवः ।चतुरस्त्रं भूमिसुतो द्यूनं च सितार्कशशिबुधाः क्रमशः ॥ ३३ ॥
  34. श्लोक 34दिक्स्थानकालचेष्टाकृतं बलं सर्वनिर्णयविधाने ।वक्ष्ये चतुष्प्रकारं ग्रहस्तु रिक्तो भवेदबलः ॥ ३४ ॥
  35. श्लोक 35लग्ने जीवबुधौ दिवाकरकुजौ व्योम्नि स्मरे भास्करि-र्बन्धाविन्दुसितौ दिशाकृतमिदं स्वोच्चे स्वकोणे स्वभे ।मित्रस्वांशकसंस्थितः शुभफलैर्दृष्टो बलीयान् ग्रहःस्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे ॥ ३५ ॥
  36. श्लोक 36जीवार्कास्फुजितोऽह्नि विच्च सततं मन्देन्दुभौमा निशिहोरामासदिनाब्दपाश्च बलिनः सौम्याः सितेऽन्येऽसिते ।सङ्ग्रामे जयिनो विलोमगतयः संपूर्णगावो ग्रहाःसूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले ॥ ३६ ॥
  37. श्लोक 37उत्तरमयनं प्राप्ताः शुक्रकुजार्केन्द्रमन्त्रिणो बलिनः ।याम्यं शशिरविपुत्रौ द्वयेऽपि शशिजः स्ववर्गस्थः ॥ ३७ ॥
  38. श्लोक 38स्त्रीपुंनपुंसकाख्याः क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ताः ।सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम् ॥ ३८ ॥
  39. श्लोक 39प्राग्रात्रिभागेऽतिबलः शशाङ्कः शुक्रो निशार्धेऽवनिजो निशान्ते ।प्रातर्बुधो मध्यदिने च सूर्यः सर्वत्र जीवोऽर्कसुतो दिनान्ते ॥ ३९ ॥
  40. श्लोक 40कृष्णारबुधगुरुसिताः शशिसूर्यावुत्तरोत्तरं बलिनः ।साधारणबलमेतद्बलसाम्ये चिन्तयेत्प्राज्ञः ॥ ४० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।