अध्याय 3: होराराशिभेदः

सारावली · Saravali (The signs and their divisions)

41 श्लोक

  1. श्लोक 1तमसावृते समन्ताज्जलभूते भूतले ततोऽकस्मात् ।उदितो भगवान् भानुः प्रकाशयन् स्वप्रकाशेन ॥ १ ॥
  2. श्लोक 2व्यसृजज्जगत्समस्तं ग्रहर्क्षसंघातकल्पितावगतम् ।द्वादशभेदैश्चित्रः कालः संप्रस्तुतस्तस्मात् ॥ २ ॥
  3. श्लोक 3मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिककः ।धन्वी मकरः कुम्भो मीनाविति राशिनामानि ॥ ३ ॥
  4. श्लोक 4कुम्भः कुम्भधरो नरोऽथ मिथुनं वीणागदाभृन्नरोमीनौ मीनयुगं धनुश्च सधनुः पश्चाच्छरीरो हयः ।एणास्यो मकरः प्रदीपसहिता कन्या च नौसंस्थिताशेषो राशिगणः स्वनामसदृशो धत्ते तुलाभृत्तुलाम् ॥ ४ ॥
  5. श्लोक 5शीर्षास्यबाहुहृदयं जठरं कटिबस्तिमेहनोरुयुगम् ।जानू जङ्घे चरणौ कालस्याङ्गानि राशयोऽजाद्याः ॥ ५ ॥
  6. श्लोक 6कालनरस्यावयवान्पुरुषाणां कल्पयेत्प्रसवकाले ।सदसद्ग्रहसंयोगात्पुष्टान् सोपद्रवांश्चापि ॥ ६ ॥
  7. श्लोक 7मेषादीनां क्रियताबुरुजुतुमकुलीरलेयपाथोनाः ।संज्ञास्तु जूककौर्पिकतौक्षाकोकेरहृदयरोगान्त्याः ॥ ७ ॥
  8. श्लोक 8ऋक्षं भवननामानि राशिः क्षेत्रं भमेव वा ।उक्तानि पूर्वमुनिभिस्तुल्यार्थप्रतिपत्तये ॥ ८ ॥
  9. श्लोक 9द्वादशमण्डलभगणं तस्यार्धे सिंहतो रविर्नाथः ।कर्कटकात्प्रतिलोमं शशी तथान्येऽपि तत्स्थानात् ॥ ९ ॥
  10. श्लोक 10भानोरर्धे विहगैः शूरास्तेजस्विनश्च साहसिकाः ।शशिनो मृदवः सौम्याः सौभाग्ययुताः प्रजायन्ते ॥ १० ॥
  11. श्लोक 11कुजभृगुबुधेन्दुरविशशिसुतसितरुधिरार्यमन्दशनिजीवाः ।गृहपा नवभागानामजमृगतुलकर्कटाश्चाद्याः ॥ ११ ॥
  12. श्लोक 12भवनाधिपैः समस्तं जातकविहितं विचिन्तयेन्मतिमान् ।एभिर्विना न शक्यं पदमपि गन्तुं महाशास्त्रे ॥ १२ ॥
  13. श्लोक 13वर्गोत्तमा नवांशास्तथादिमध्यान्तगाश्चराद्येषु ।सूतौ कुलमुख्यकरा द्वादश भागाः स्वराश्याद्याः ॥ १३ ॥
  14. श्लोक 14स्वर्क्षसुतनवमभेशाद्रेक्काणानां क्रमाच्च होराणाम् ।रविचन्द्राविन्दुरवी विषमसमेष्वर्धराशीनाम् ॥ १४ ॥
  15. श्लोक 15शरपञ्चाष्टमुनीन्द्रियभागास्त्रिंशांशकास्तु विषमेषु ।युग्मेषूत्क्रमगण्याः कुजार्किजीवज्ञशुक्राणाम् ॥ १५ ॥
  16. श्लोक 16मेषालिमिथुनमृगहरिमीनतुलावृषभचापधरकर्की ।घटधरकन्यापूर्वाः सप्तांशानां भवन्तीशाः ॥ १६ ॥
  17. श्लोक 17षष्टिर्होरात्रिंशच्चूडपदानां द्विसप्ततिसमेताः ।लिप्तानामष्टादशशतानि परिवर्तनैः स्वगृहात् ॥ १७ ॥
  18. श्लोक 18लग्नादीनां लिप्ता ज्ञेयाः स्वगृहादिवर्गसंगुणिताः ।अष्टादशशतभक्ताल्लब्धः स्यादीप्सितो वर्गः ॥ १८ ॥
  19. श्लोक 19एतेषां गुणदोषान् विस्तरतो नष्टजातके वक्ष्ये ।एभिः स्पष्टतरं तत्प्रत्यक्षपरीक्षणं यस्मात् ॥ १९ ॥
  20. श्लोक 20अजादितः क्रूरशुभौ पुमांस्त्री चरः स्थिरो मिश्रतनुश्च दृष्टाः ।कुलीरमीनालिगृहान्तसन्धिं वदन्ति गण्डान्तमिति प्रसिद्धम् ॥ २० ॥
  21. श्लोक 21जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता ।यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूपः ॥ २१ ॥
  22. श्लोक 22ऐन्द्राद्यं परिवर्तैस्त्रितयं त्रितयं त्रिभिस्तु मेषाद्यैः ।एभिर्दिक्षु निबद्धैर्यात्रादि विकल्पयेत्कार्ये ॥ २२ ॥
  23. श्लोक 23नरपशुवृश्चिकजलजा यथाक्रमं प्राग्दिगादिगा बलिनः ।निशि दिवसे सन्ध्यायां पशवः पुरुषा मृगालिकर्किझषाः ॥ २३ ॥
  24. श्लोक 24नक्तंबला मिथुनकर्किमृगाजगोश्वाद्युःश्रेष्ठका हरितुलालिघटान्त्यकन्याः ।पृष्ठोदयाः समिथुना मिथुनं विहायशेषाः शिरोभिरुदयन्त्युभयेन मीनः ॥ २४ ॥
  25. श्लोक 25आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रियैर्वापि ।शशिसुतजीवाभ्यामपि राशिर्बलवान्नचेच्छेषैः ॥ २५ ॥
  26. श्लोक 26तन्वर्थसहजबान्धवपुत्रारिस्त्रीविनाशपुण्यानि ।कर्मायव्ययभावा लग्नाद्या भावतश्चिन्त्याः ॥ २६ ॥
  27. श्लोक 27शक्तिधनपौरुषगृहप्रतिभाव्रणकामदेहविवराणि ।गुरुमानभवव्ययमिति कथितान्यपराणि नामानि ॥ २७ ॥
  28. श्लोक 28संज्ञा वेश्माष्टमयोश्चतुरश्रं वै तपश्च नवमस्य ।होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम् ॥ २८ ॥
  29. श्लोक 29नामानि चतुर्थस्य तु सुखजलपातालबन्धुहिबुकानि ।कर्माज्ञामेषूरणगगनाख्यं कीर्त्यते दशमम् ॥ २९ ॥
  30. श्लोक 30धर्मसुतयोस्त्रिकोणं सुतस्य धीस्त्रित्रिकोणमिति तपसः ।द्यूनं जायास्तमयं जामित्रं सप्तमस्याख्या ॥ ३० ॥
  31. श्लोक 31षट्कोणं रिपुभवनं तृतीयमथ कीर्तयन्ति दुश्चिक्यम् ।रिःफं द्वादशभवनं द्वितीयसंज्ञं कुटुम्बं च ॥ ३१ ॥
  32. श्लोक 32केन्द्रात्परं पणफरमापोक्लिमसंज्ञितं तयोः परतः ।बालयुवस्थविरत्वे क्रमेण फलदा ग्रहास्तेषु ॥ ३२ ॥
  33. श्लोक 33षट्दशभवदुश्चिक्यान्युपचयसंज्ञानि कीर्त्यन्ते ।स्वतनुसुखसुतास्ततपश्छिद्रव्ययसंज्ञितानि चान्यानि ॥ ३३ ॥
  34. श्लोक 34सिंहवृषमेषकन्या कार्मुकभृत्तौलिकुम्भधराः ।सूर्यादीनामेते त्रिकोणभवनानि कथ्यन्ते ॥ ३४ ॥
  35. श्लोक 35सूर्यादीनामुच्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः ।स्वोच्चगृहकथितभागा यथाक्रमेणैव परमोच्चाः ॥ ३५ ॥
  36. श्लोक 36दिग्वन्ह्यष्टाविंशतितिथिबाणत्रिघनविंशतयः ।स्वोच्चात्सप्तमराशिर्नीचः स्यादंशकात्परमम् ॥ ३६ ॥
  37. श्लोक 37ह्रस्वास्तिमिगोजघटा मिथुनधनुःकर्किमृगमुखाश्च समाः ।वृश्चिककन्यामृगपतिवणिजो दीर्घाः समाख्याताः ॥ ३७ ॥
  38. श्लोक 38एभिर्लग्नाधिगतैः शीर्षप्रभृतीनि वै शरीराणि ।सदृशानि विजायन्ते युतगगनचरैश्च तुल्यानि ॥ ३८ ॥
  39. श्लोक 39भवनाधिपदिङ्नाम प्लव इति यवनैः प्रयत्नतः कथितः ।तत्प्लवगो विनिहन्यादचिरेण महीपतिः शत्रून् ॥ ३९ ॥
  40. श्लोक 40लोहितसितशुकहरिताः पाटलपरिधूम्रपाण्डुचित्राश्च ।कृष्णकनकाभपिङ्गाः कर्बुरबभ्रूत्वजादिवर्णाः स्युः ॥ ४० ॥
  41. श्लोक 41जन्मोदयगृहवर्णा तदधिपतेः पूजिता प्रतिमा ।हन्ति हरेरिह शत्रूनिन्द्रध्वजिनीव देवरिपून् ॥ ४१ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।