अध्याय 15: द्विग्रहयोगाः
सारावली · Saravali (Two planets together)
23 श्लोक
- श्लोक 1यवनाचार्यैर्वृद्धैर्द्विग्रहयोगेषु यत्फलं प्रोक्तम् ।तदहमपहाय मत्सरमधुना वक्ष्ये विशेषेण ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनयुवतीनां वशगः स्यादविनीतः कूटवित् पृथुलवित्तः ।आसवविक्रयकुशलो रव्युडुपत्योः क्रियानिपुणः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनओजस्वी साहसिको मूर्खो बलसत्वसंयुतोऽनृतवाक् ।पापमतिर्वधनिरतो रविकुजयोः स्यात् प्रचण्डश्च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनसेवाकृदस्थिरधनो रविज्ञयोः प्रियवचा यशोर्थः स्यात् ।आर्यः क्षितिपतिदयितः सतां च बलरूपवित्तविद्यावान् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनबहुधर्मो नृपसचिवः समृद्धिमान्मित्रसंश्रयाप्तार्थः ।सूर्ये बृहस्पतियुते भवेदुपाध्यायसंज्ञश्च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनशस्त्रप्रहरणविद्याशक्तियुतो नेत्रदुर्बलश्चरमे ।रङ्गज्ञो रविसितयोः स्त्रीसङ्गाल्लब्धबन्धुधनः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनधातुज्ञो धर्ममयः स्वधर्मनिरतः प्रणष्टसुतदारः ।निजवंशगुणैः शुद्धः शनिरव्योरल्पशीलश्च ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनशूरो रणप्रतापी मल्लोऽसृग्वेदनार्त्तदेहश्च ।मृच्चर्मधातुशिल्पी कूटज्ञश्चन्द्रकुजयोगे ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनकाव्यकथास्वतिनिपुणः सधनस्त्रीसंमतः सुरूपश्च ।स्मितवदनः शशिबुधयोर्धर्मरुचिः स्याद्विशिष्टगुणः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनदृढसौहृदो विनीतः स्वबन्धुसंमानवर्धनेशश्च ।गुर्विन्द्वोः शुभशीलः सुरद्विजेभ्यो रतो भवेत्पुरुषः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनस्रग्धौतांबरयुक्तः क्रियाविधिज्ञः कुलप्रियोऽत्यलसः ।क्रयविक्रयेषु कुशलः शशिभार्गवयोः सदा योगे ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनजीर्णवधूजनरमणो गजाश्वसम्पादको विगतशीलः ।वश्यो विधनः पुरुषः पराजितः स्याच्छशाङ्कशनियोगे ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनस्त्रीदुर्भगोऽल्पवित्तः सुवर्णलोहप्रकारकः स्थपतिः ।दुष्टस्त्रीविधवानां कुजबुधयोरौषधक्रियानिपुणः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनशिल्पश्रुतिशास्त्रज्ञो मेधावी वाग्विशारदो मतिमान् ।अस्त्रप्रियप्रधानः सुरगुरुकुजयोः समागतयोः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनपूज्यो गणप्रधानो गणितज्ञः परयुवतिभी रतो धूर्त्तः ।द्यूतानृतशाठ्यरतो विटश्च सितरुधिरसंयोगे ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनधात्विन्द्रजालकुशलः प्रवञ्चकस्तेयकर्मकुशलश्च ।कुजसौरयोर्विधर्मः शस्त्रविषघ्नः कलिरुचिः स्यात् ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठननृत्तविधेर्विज्ञाता प्राज्ञोऽपि च गेयशास्त्रविन्मनुजः ।बुधगुरुयोगे मतिमान् सौख्ययुतो जायतेऽवश्यम् ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनअतिशयधनो नयज्ञो बहुशिल्पो वेदवित्सुवाक्यः स्यात् ।गीतज्ञो हास्यरतिर्बुधसितयोर्गन्धमाल्यरुचिः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनऋणवान् डम्भप्रायः प्रपञ्चकः सत्कविर्गमनशीलः ।निपुणः शोभनवाक्यो बुधशनियोगे पुमान् भवति ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनजीवति विद्यावादैर्विशिष्टधर्मस्थितः प्रमाणयुतः ।जीवसितयोर्मनुष्यो विशिष्टदारो भवेन्मतिमान् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनशूरो वित्तसमृद्धो नगराधिपतिर्यशस्वी च ।शनिजीवयोः प्रधानः श्रेणिसभाग्रामसंघानाम् ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनदारुविदारणदक्षः क्षुरचित्राश्मादिकर्मशिल्पी च ।मल्लोऽटनः पशुपतिः शनिसितयोगे पुमान् भवति ॥ २२ ॥
- श्लोक 23उक्तं फलं गगनगा यद्यन्योन्यगणस्थिताः ।अधमादि विकल्पेन कुर्वन्ति विकृतिं तथा ॥ २३ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।