अध्याय 16: त्रिग्रहयोगाः
सारावली · Saravali (Three planets together)
38 श्लोक
- श्लोक 1कुंडली के 1 पठननिर्लज्जः पापरतो यन्त्रज्ञः शत्रुदारणे शूरः ।अश्मक्रियासु कुशलः सहस्थितैः सूर्यशशिभौमैः ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनतेजस्वी निपुणमतिः शास्त्रकलागोष्ठिपानरतः ।नृपकृत्यकरो धीरो रविशशिशशिजैः सहैकस्थैः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनक्रुद्धो मायानिपुणः सेवाकुशलो विदेशगमनरतः ।मेधावी चपलमतिः सहस्थितैरर्कशशिजीवैः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनपरधनहरणे निपुणः परदाररतश्च शास्त्रनिपुणश्च ।रविचन्द्रदैत्यपूज्यैरेकस्थैर्जायते मनुजः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनकामे विवादकुशलो मूर्खः परतन्त्रगो दरिद्रश्च ।सूर्यनिशाकररविजैरेकस्थैर्जायते मनुजः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनभवति ख्यातो मल्लः साहसिको निष्ठुरो विगतलज्जः ।धनसुतकलत्ररहितः सहस्थितैरर्ककुजसौम्यैः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनवचसि निपुणो महार्थः क्षितिपतिमन्त्री च भूपतिर्वाऽपि ।सत्यवचनः प्रचण्डः सहस्थितैर्भौमगुरुसूर्यैः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठननयनातुरः कुलीनः सुभगो वाक्शल्यसंयुतो मनुजः ।भृगुभौमदिवसनाथैः सहस्थितैः स्याद्विभवयुक्तः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनविकलाङ्गो धनरहितो नित्यं रोगान्वितो मनुजः ।स्वजनरहितोऽतिमूर्खः क्षितिजार्कजभानुभिः सहितैः ॥९॥
- श्लोक 10कुंडली के 1 पठननेत्रातुरोऽतिधनवान् मूर्खः शास्त्रादिशिल्पकाव्यरतः ।वाचस्पतिबुधसूर्यैरेकगतैर्लिपिकरः पुरुषः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनअतितप्तो वाचाटो भ्रमणरुचिः प्रोषितो गुरुभिः ।स्त्रीहेतोः सन्तप्तः शशिसुतरविभार्गवैः सहितैः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनक्लीबाचारो द्वेष्यः सर्वजितो बन्धुभिः परित्यक्तः ।सौरादित्येन्दुसुतैरेकस्थैर्जायते पुरुषः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनदुर्बलचक्षुः शूरः प्राज्ञो निःस्वश्च भूपतेः सचिवः ।परकार्यरतो नित्यं भार्गवगुरुभास्करैः सहितैः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनअसदृशकायः पूज्यः स्वजनद्वेष्यः सुदारसुतमित्रः ।नृपतीष्टो विगतभयो जीवार्कजदिनकरैः सहितैः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनशत्रुभयात् सोद्वेगो मानकलाकाव्यवर्जितो मनुजः ।कुत्सितचरितः कुष्ठी सितार्किरविसंयुतैर्भवति ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनपापकरा जायन्ते नीचाचाराः सुहृत् स्वजनहीनाः ।आजीविनश्च पुरुषाः शशाङ्कबुधभूमिजैः सहितैः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनविनताङ्गः स्त्रीलोलश्चोरः कान्तश्च संमतः स्त्रीणाम् ।भौमशशाङ्कसुरेज्यैरेकस्थैश्चण्डरोषश्च ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनदुःशीलायाः पुत्रः पतिश्च तस्याः सदैव निर्दिष्टः ।कुजभृगुशशिभिः सहितैर्भ्रमणरुचिः शीतभीतश्च ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनबाल्ये मृतजननीकः क्षुद्रो विषमश्च लोकविद्विष्टः ।जायेत नरो योगे भूसुतशशिभास्करसुतानाम् ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनधनवान् कल्यो वाग्मी तेजस्वी ख्यातिमान्विपुलकीर्तिः ।बहुपुत्रभ्रातृयुतो बुधेन्दुसुरपूजितैर्युक्तैः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनविद्यासंस्कृतमतिरपि नीचाचारः पुमान् भवेज्जातः ।सौम्यो धनप्रलुब्धो बुधभार्गवचन्द्रसंयोगे ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनअस्वस्थो विकलाङ्गः प्राज्ञो वाग्मी सुपूजितः क्षितिपः ।भवति नरः संयोगे सौरेन्दुशशाङ्कपुत्राणाम् ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनसाध्वीतनयः प्राज्ञः कलास्वभिज्ञो बहुश्रुतः साधुः ।भार्गवगुरुशशियोगे जातः सुभगो भवेत् पुरुषः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनशास्त्रार्थतत्त्वबुद्धिर्वृद्धस्त्रीसङ्गतो विगतरोगः ।शशिवाचस्पतिसौरैरेकस्थैर्ग्रामबृन्दपतिः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनलिपिकरपुस्तकवाचकपुरोधसां भवति जन्मसुकृतैश्च ।दैवविदां पुरुषाणां शशिभार्गवसौरिसंयोगे ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनसुकविः क्षोणीनाथः सद्युवतिपतिः परार्थ उद्युक्तः ।गान्धर्ववेदकुशलः स्याद्बुधगुरुभूसुतैः सहितैः ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनअकुलीनो विकलाङ्गश्चपलो दुष्टश्च जायते मनुजः ।मुखरो नित्योत्साही कुजबुधभृगुनन्दनैः सहितैः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनप्रेष्यः श्यामलनेत्रः प्रवासशीलो भवेद्वदनरोगी ।रमते प्रहसनशीलैर्बुधार्किरुधिरैः सहैकस्थैः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठननृपतीष्टः सत्सुतवान् विलासिनीभ्यः सदाप्तबहुसौख्यः ।सकलजनानन्दकरो भार्गवगुरुभूमिजैः सहितैः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठननृपसंमतः क्षताङ्गो नीचाचारो विगर्हितो मित्रैः ।भवति नरो विगतघृणः सुरेज्यकुजसौरिसंयोगे ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनचारित्रविहीनायाः पुत्रो भर्ता भवेत् सुखविहीनः ।नित्यं प्रवासशीलः संयुक्तैः सौरिकुजशुक्रैः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनसुतनुः क्षपितारिगणो नृपतिः सुभगस्तथा पृथुलकीर्तिः ।बुधगुरुशुक्रैः सहितैर्भवति नरः सत्यवचनश्च ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनस्थानधनैश्वर्ययुतं प्राज्ञं बहुभोगिनं स्वदाररतम् ।धृतिसौख्यरतं सुभगं जनयन्ति बुधार्कजीवाख्याः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनमुखरो धूर्तोऽनृतवाक् परयुवतिरतो भवेद्विषमशीलः ।बुधशुक्रसूर्यतनयैः कलास्वभिज्ञः स्वदेशरतः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनन्यूने कुलेऽपि जातो भवति नरो भूपतिर्विपुलकीर्तिः ।गुरुभार्गवदिनकरजैरेकस्थैः शीलसम्पन्नः ॥ ३५ ॥
- श्लोक 36पापैर्युक्ते चन्द्रे मातुरभावः प्रकीर्तितप्रायः ।सूर्ये पितुस्तथान्यैः शुभं वदेन्मिश्रितैर्मिश्रम् ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनप्रायः शुभाः समेता धनभूतियशोन्वितं नृपतिचेष्टम् ।उत्पादयन्ति मनुजं भूमण्डलमण्डनं श्रेष्ठम् ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनपापास्त्रयोऽपि मिलिताः कुर्वन्ति नरं सुदुर्भगं लोके ।दारिद्र्यदुःखतप्तं गर्हितरूपं विनयहीनम् ॥ ३८ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।