अध्याय 17: चतुर्ग्रहयोगाः

सारावली · Saravali (Four planets together)

35 श्लोक

  1. श्लोक 1कुंडली के 1 पठनलिपिकरतस्करमुखरो रोगी मायाप्रपञ्चकुशलश्च ।बुधरविभौमशशाङ्कैरेकर्क्षगतैः पुमान् भवति ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनधनवान्वनितानिन्द्यस्तेजस्वी नीतिमान् विगतशोकः ।कर्मसमर्थो निपुणः शशिकुजगुरुभास्करैः सहितैः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनआर्योचितवाग्वृत्तिः सुखभाङ् निपुणोऽर्थसंग्रहणशीलः ।विद्यासुतदारयुतः शशिकुजभृगुभास्करैः सहितैः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनविषमशरीरो ह्रस्वो धनरहितो याचिताशनो मूर्खः ।गम्यः सर्वस्य तथा रविशशिकुजसौरिसंयोगे ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनसौवर्णिकः प्लुताक्षः शिल्पकरो वा महाधनो धीरः ।जातः स्यान्निरुजतनुः शशिज्ञगुरुभास्करैः सहितैः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनविकलः सुभगो वाग्मी ह्रस्वो नृपसम्मतो मनुजः ।जातः स्यादेकस्थै रविशशिबुधभार्गवैः सहितैः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनमातृपितृविप्रयुक्तो धनसौख्यविवर्जितो भ्रमणशीलः ।भिक्षाशनोऽप्यनृतवाक् रवीन्दुसौम्यार्किभिर्नियतम् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनसलिलमृगारण्यानां स्वामी स्यात्सौख्यभाक् भवति पूज्यः ।शुक्रार्कगुरुशशाङ्कैरेकर्क्षगतैः पुमान् निपुणः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनतामसनेत्रस्तीक्ष्णो बहुसुतवित्तो वराङ्गनासुभगः ।सूर्येज्यचन्द्रसौरैरेकस्थैर्जायते पुरुषः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनवनितासदृशाचारः पुरःसरोऽत्यन्तदुर्बलशरीरः ।भीरुः सर्वत्र भवेदर्केन्दुसितासितैः सहितैः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनशूरोऽथ सूत्रकारश्चक्रधरो वा विपन्नदारधनः ।दुःखार्णवोऽटनपरः सुसङ्गतैरर्कजीवबुधभौमैः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनपरदाररतश्चोरो विषमाङ्गो दुर्जनो विगतसत्वः ।भवति प्रसवे पुरुषो रविसितभौमेन्दुजैः सहितैः ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनयोद्धा प्राज्ञस्तीक्ष्णो नीचाचारः कविप्रधानश्च ।मन्त्री च भूपतिर्वा बुधार्ककुजसौरिसंयोगे ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनसुभगः पूज्यो लोके धनवान् नृपसंमतो भुवि ख्यातः ।रविभौमजीवशुक्रैरेकस्थैर्नीतिमान् पुरुषः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनसोन्मादो गणमान्यः सिद्धार्थो बन्धुमित्रसंपृक्तः ।भानुकुजजीवसौरैः संयुक्तैर्वा नृपाभिमतः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनविकलो नीचाचारो विषमाक्षो बन्धुविद्विष्टः ।सूर्यकुजशुक्रसौरैः पराभवं सर्वतो याति ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनधनवान् सुखप्रधानः सिद्धार्थो बन्धुमान् प्रकृष्टश्च ।भानुबुधजीवशुक्रैर्भवति पुमानेकराशिगतैः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनक्लीबाचारो मानी कलहरुचिः सहजवाङ् निरुत्साहः ।अर्कार्किबुधसुरेज्यैरेकस्थैर्जायते पुरुषः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनमुखरः सुभगः प्राज्ञो मृदुसौख्यः सत्वशौचसम्पन्नः ।धीरो मित्रसहायो रविबुधसितसौरिसंयोगे ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनलुब्धः कविः प्रधानः कारुकनाथोऽधिपश्च नीचानाम् ।आदित्यार्किसितार्यैं राज्ञां जातो भवेदिष्टः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनशास्त्रकुशलो नरेन्द्रः सुमहामन्त्रोऽथवा महाबुद्धिः ।शशिकुजसोमजजीवैरेकस्थैर्यः पुमान् जातः ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनकलहरुचिर्निद्रालुर्नीचः स्याद्वर्धकीपतिः सुभगः ।बन्धुद्वेष्टा न सुखी शशिकुजबुधभार्गवैः सहितैः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनशूरो विमातृपितृको दुष्कुलजो बहुकलत्रमित्रसुतः ।भवति सुकर्माभिरतः शशिकुजबुधसौरिसंयोगे ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनविकलाङ्गः सुकलत्रः सकलसहोऽतीव मानसंयुक्तः ।प्राज्ञो बहुमित्रसुखः शशिकुजगुरुभार्गवैः सहितैः ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनबधिरो धनवान् शूरः सोन्मादो वाक्पटुः स्थिरप्रकृतिः ।मतिमानुदारचित्तो भौमेन्दुशनैश्चरसुरेज्यैः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनकुलटापतिः प्रगल्भः सर्पाक्षो नित्यमेव सोद्वेगः ।जातः पुरुषोऽवश्यं कुजेन्दुयमभार्गवैर्भवति ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनविद्वान् विमातृपितृकः सद्रूपो धनयुतोऽतिसुभगश्च ।भवति नरो विगतारिर्बुधगुरुशशिभार्गवैः सहितैः ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनकृतधर्मकीर्तिरग्र्यस्तेजस्वी बन्धुवल्लभो मतिमान् ।नृपसचिवः प्रवरकविः शशिबुधजीवार्किभिः सहितैः ॥२८॥
  29. श्लोक 29कुंडली के 1 पठनपरदारगमनशीलो विशीलभार्यो विपन्नबन्धुश्च ।प्राज्ञो लोकद्विष्टः स्यादिन्दुबुधार्किभृगुपुत्रैः ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनमात्रा रहितः सुभगस्त्वग्दोषी दुःखितो भ्रमणशीलः ।बहुभाषी सत्यरतः शशिगुरुभृगुसौरिभिः सहितैः ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनस्त्रीकलहरुचिर्धनभाक् पूज्यो लोके च शीलसम्पन्नः ।भवति पुमान् निरुजतनुर्बुधारगुरुभार्गवैः सहितैः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनशूरो विद्वान् वाग्मी धनरहितः सत्यशौचसम्पन्नः ।वादी द्वन्द्वसहिष्णुर्मतिमान् सहितैर्बुधारगुरुसौरैः ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनस्यान्मल्लः परपुष्टः कठिनाङ्गो युद्धदुर्मदः ख्यातः ।रमते च सारमेयैर्बुधारयमभार्गवैः सहितैः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनतेजस्वी वित्तयुतः स्त्रीलोलः साहसप्रियश्चपलः ।भौमगुरुशुक्रसौरैरेकस्थैर्जायते कितवः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनमेधावी श्राद्धरतो रामासक्तो विधेयभृत्यश्च ।बुधजीवशुक्रसौरैरेकस्थैस्तीव्रसंयोगे ॥ ३५ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।