अध्याय 20: प्रव्रज्याध्यायः
सारावली · Saravali (Renunciation yogas)
37 श्लोक
- श्लोक 1योगा विभक्ताश्चतुरादिसंस्थैर्व्यासाद्ग्रहैः कैरपि तापसानाम् ।जन्मादि तेषामपरैर्मुनीन्द्रैः संवेदितं तत्कथयाम्यशेषात् ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनसूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु ।एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनकुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च ।सूर्येन्दुभूपुत्रशनैश्चरैः स्यादेकर्क्षगैः प्रव्रजितो मनुष्यः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनआदित्यगुर्वार्किशशाङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च ।एकर्क्षसंस्थास्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्राः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनसितार्कभौमार्कसुता महाबलाः सुरेज्यभूपुत्रकसौरसूरयः ।कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम् ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनकुजार्किसोमात्मजदेववन्दितैः कुजार्किचन्द्रात्मजसूर्यभार्गवैः ।रवीन्दुभौमासितदानवप्रियैर्भवन्ति सूता व्रतसंयुता नराः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनसितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेड्यबुधार्कनन्दनैः ।सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनचन्द्रेन्दुपुत्रारसुरेड्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभूमिजैः ।स्थितैरमीभिः सहितैर्नृसम्भवाः भवन्ति वन्द्या मुनयोऽत्र दूषकाः ८
- श्लोक 9कुंडली के 1 पठनरवीन्दुभौमेन्दुजजीवभार्गवैः शशाङ्कभौमार्किबुधेड्यभास्करैः ।कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्नरो व्रती ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनसितेन्दुजीवार्कजसूर्यलोहितैः सितार्कभौमार्किशशाङ्कसोमजैः ।एकत्रयातैर्गगनेचरैः सदा भवन्ति जाता मुनयो यशस्विनः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनकुजज्ञवागीशसितार्किभास्करैः सितार्किजीवेन्दुजचन्द्रभूमिजैः ।बलप्रधानैः सहितैर्विहङ्गमैर्व्रजेत्प्रजातः पुरुषस्तपस्विताम् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनरवीन्दुवागीशशनैश्चरैश्च शनैश्चरेन्द्वर्कसितैरवश्यम् ।रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विनः स्युः फलमूलभक्षिणः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनवक्रार्कसोमात्मजदानवेड्या भौमेन्दुवागीशशशाङ्कपुत्राः ।एकर्क्षगा जन्मनि यस्य जन्तोर्भवेद्व्रती वल्कलचीरधारी ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनशशीन्दुपुत्रक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेड्यसौराः ।एकर्क्षगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम् ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनचन्द्रार्कभार्गवशशाङ्कसुता बलस्थाभौमेन्दुपुत्रसितभास्करनन्दनाश्च ।मन्देन्दुवाक्पतिसिता नियतं यतीनांकुर्वन्ति जन्म फलपाककृताशनानाम् ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनरविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्यै-र्गुरुसितरविमन्दैः शुक्रजीवेन्दुवक्रैः ।कुजबुधसितचन्द्रैरेभिरेकर्क्षयातै-र्भवति गिरिवनौकास्तापसः सर्ववन्द्यः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुक्रैः ।रविशशिकुजबुधजीवैर्भवति यतिर्दुःखितो दीनः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनकुजार्किदेवेड्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः ।समं गतैः स्युः सबलैर्यथोक्तैर्जटाधरा वल्कलधारिणश्च ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनभान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैःसूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च ।प्राप्नोत्यवश्यमिह तापसरूपमेभिःएकर्क्षगैर्गगनवासिभिरेव जातः ॥ १९ ॥
- श्लोक 20प्रव्रज्येशे दिनकरगते भुक्तिमन्तोऽतिशक्ताःप्रव्रज्यायाः सुबलसहितैः स्थैर्यमाहुर्ग्रहेन्द्रैः ।सम्पूर्णानां वशमनुगतैः प्रच्युतैस्तैर्बहुत्वेवीर्योपेतैर्भवति बहुभिः सद्बलस्यानुपूर्व्याम् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनप्रव्रज्यायाः स्वामी रविमुषिततनुर्निरीक्षितो वाऽन्यैः ।याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम् ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनशशीदृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।कुजांशके वा रविजेन दृष्टो नवांशतुल्यं कथयन्ति तत्पुनः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनजन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ ।आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनजन्मपतिर्विकलाङ्गः पश्यति सौरिं चतुष्टये प्रबलम् ।यस्य स भाग्यविहीनः प्रव्रज्यां प्राप्नुयात् पुरुषः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनगुरुहिमगुरवीणामेक एवोदयस्थोगगनतलगतो वा रिःफगश्चाल्पमूर्तिः ।अविकलबलभाजा सूर्यपुत्रेण दृष्टोजनयति खलु जातं तापसं दुःखभाजम् ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनकुमुदवनसुबन्धुं सौम्यभागे बलस्थंवियति गमनशीलान् स्वोच्चभस्थांश्च शेषान् ।यदि दिनकरपुत्रः पश्यति प्राप्तवीर्योभवति भुवननाथो दीक्षितश्च स्वतन्त्रः ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनअतिशयबलयुक्तः शीतगुः शुक्लपक्षेबलविरहितरिक्तं प्रेक्षते लग्ननाथम् ।यदि भवति तपस्वी दुःखितः शोकतप्तोधनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनसौरिः शुभभागस्थः पश्यति चन्द्रं ग्रहांस्तथैवान्यान् ।कुम्भांशेषु प्राप्तान् जनयति दीक्षान्वितं पुरुषम् ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनएकर्क्षगतैः सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य ।दीक्षा तस्यावश्यं भवतीति पुरातनैः कथितम् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनअग्नीनां परिचारका गिरिनदीतीराश्रमे तापसाःसूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये ।गायत्रीं जपतां वने नियमिनां गङ्गाभिषेकार्थिनांकौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्करः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनवृद्धश्रावकभस्मधूलिधवलाः शैवव्रते ये स्थिताःबाह्याः पातकितां गता भगवतीभक्ताश्च निःसङ्गिनः ।सिद्धान्ते खलु सोमनाम्नि निरताः कापालिका निष्ठुरा-स्तेषां नायकतां गतः शशधरः खट्वाङ्गपाणिद्युतिः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनउपासका बुद्धसमाश्रयं गताः शिखां गताः पाण्डरभिक्षवश्च ये ।सुवाससो रक्तपटा जितेन्द्रियाःप्रभुः सदैषां क्षितिजः प्रकीर्तितः ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनआजीविनां कुहकिनां समयाधिका येये दीक्षितास्तनुभृतः खलु गारुडे च ।तन्त्रे मयूरपिशिताशनयोश्च युक्ता-स्तेषां शशाङ्कतनयोऽधिपतिर्निरुक्तः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनएकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरावानप्रस्थमुपागताः फलपयोभक्षाश्च ये भिक्षवः ।गार्हस्थ्येन तु संस्थिता नियमिनः सद्ब्रह्मचर्यं गता-स्तेषां दण्डपतिः सुरेन्द्रसचिवस्तीर्थेषु ये स्नातकाः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनपाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः ।वैष्णवचरकाणामपि तेषां नेता प्रकीर्तितः शुक्रः ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनपाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च ।तेषामधिपतिरार्किः श्रावकतरुमूलिनश्च दुस्तपसः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनप्रकथितमुनियोगे राजयोगो यदि स्यात्अशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।जनयति पृथिवीशं दीक्षितं साधुशीलंप्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ ३७ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।