अध्याय 21: नाभसयोगाः
सारावली · Saravali (Nabhasa yogas)
52 श्लोक
- श्लोक 1यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना ।अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये ॥ १ ॥
- श्लोक 2नौच्छत्रकूटकार्मुकशृङ्गाटकवज्रदामनीपाशाः ।वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि ॥ २ ॥
- श्लोक 3माला सर्पार्धेन्दू यवकेदारौ गदाविहगयूपाः ।युगशकटशूलदण्डा रज्जुः शक्तिस्तथा नलो गोलः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनसचराचरस्य जगतो योगैरेभिः प्रकीर्त्यते प्रसवः ।आश्रयजातान् प्राहुर्माणिन्धा मुसलरज्जुनलयोगान् ॥ ४ ॥
- श्लोक 5कुंडली के 8 पठनगोलयुगशूलपाशा वीणाकेदारदामनीसंज्ञाः ।सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः ॥ ५ ॥
- श्लोक 6कुंडली के 2 पठनद्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणोक्ते ।आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रे ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनआश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ताः ।अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठननन्दन्ति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः ।प्रायेण सौख्ययुक्ताश्चाकृतियोगेषु ये जाताः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनपरभाग्यलब्धसौख्या धनभाग्यैरेव जीवितास्तेषाम् ।संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनक्वचित् स्वभाग्यैः क्वचिदेवमेवं क्वचित्पराद्भूपतितः फलं च ।क्वचित्सुखं दुःखमतीव कष्टं समार्द्धयोगे पुरुषो लभेत ॥ १० ॥
- श्लोक 11कुंडली के 4 पठनहोरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः ।नौच्छत्रकूटकार्मुकनिर्देशाः पूर्वयवनेन्द्रैः ॥ ११ ॥
- श्लोक 12कुंडली के 4 पठनलग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः ।यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम् ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठनसप्तर्क्षगैर्ग्रहेन्द्रैः केन्द्रादन्यत्र कीर्तितोऽर्द्धशशी ।केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम ॥ १३ ॥
- श्लोक 14कुंडली के 4 पठनलग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम् ।विपरीतैर्यवयोगो मिश्रैः पद्मं बहिःस्थितैर्वापी ॥ १४ ॥
- श्लोक 15कुंडली के 4 पठनहोरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः ।उदयान्त्यगैस्त्रिकोणे हल इति शृङ्गाटकं सलग्ने तत् ॥ १५ ॥
- श्लोक 16कुंडली के 2 पठनराश्यन्तरितैर्लग्नात् षड्भवनगतैर्भवेच्चक्रम् ।अर्थात्तथैव यातैश्चक्राकारो भवेज्जलधिः ॥ १६ ॥
- श्लोक 17इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः ।आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य ॥ १७ ॥
- श्लोक 18कुंडली के 5 पठनउभयस्थिरचरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः ।केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ ॥ १८ ॥
- श्लोक 19कुंडली के 7 पठनएकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः ।गोलयुगशूलसंज्ञाः केदारः पाशदामनीवीणाः ॥ १९ ॥
- श्लोक 20एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम् ।सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनसलिलोपजीवविभवाः बह्वायाख्यातकीर्तयो दृष्टाः ।कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनआनृतिककितवबन्धनपाला निष्किञ्चनाः शठाः क्रूराः ।कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनस्वजनाश्रयो दयावान् दाता नृपवल्लभः प्रकृष्टमतिः ।प्रथमेऽन्त्ये वयसि नरःसुखभाग्ययुतःसितातपत्रःस्यात् ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनआनृतिकगुप्तिपालाश्चोराः कितवाश्च कानने निरताः ।कार्मुकयोगे जाता भाग्यविहीना वयोमध्ये ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनसुभगाः सेनापतयः कान्तशरीरा नृपप्रिया बलिनः ।मणिकनकभूषणयुता भवन्ति योगेऽर्द्धचन्द्राख्ये ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनआद्यन्तवयसि सुखिताः शूराः सुभगा विरोगदेहाश्च ।भाग्यविहीना वज्रे जाताः स्वजनैर्विरुद्धाश्च ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनव्रतनियममङ्गलपरा वयसो मध्ये सुखार्थसंयुक्ताः ।दातारः स्थिरवित्ता यवयोगभवाः सदा पुरुषाः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनस्फीतयशसो गुणाढ्याः स्थिरायुषो विपुलकीर्तयः कान्ताः ।शुभयशसः पृथिवीशाः कमलभवा मानवा नित्यम् ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठननिधिकरणे निपुणधियः स्थिरार्थसुखसंयुताः सुरूपाश्च ।नयनसुखसम्प्रहृष्टा वापीयोगे नरा जाताः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनरोगार्त्ताः कुकलत्रा मूर्खाः शकटानुजीविनो निःस्वाः ।स्वजनैर्मित्रैर्हीनाः शकटे जाता भवन्ति नराः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनभ्रमणरुचयो निकृष्टा दूताः सुरतानुजीविनो धृष्टाः ।कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनसततं मानार्थपरा यज्वानः शास्त्रयोगकुशलाश्च ।धनकनकरत्नसम्पत्संयुक्ता मानवा गदायान्तु ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनप्रियकलहसमरसाहससुखिनो नृपतेः प्रियाः सुभगकान्ताः ।आढ्या युवतिद्वेष्याः शृङ्गाटकसंभवा मनुजाः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनबह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगाः ।बन्धुसुहृत्सन्त्यक्ताः प्रेष्याहलसंज्ञिते पुरुषाः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनप्रणताशेषनराधिपकिरीटरत्नप्रभाच्छुरितपादः ।भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनबहुधनरत्नाः क्षितिपा भोगार्थयुता जनप्रियाश्चापि ।उदधिसमुत्थाः पुरुषाः स्थिरचित्ताः सत्ववन्तश्च ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनआत्मनि रक्षानिरतस्त्यागयुतो वित्तसौख्यसम्पन्नः ।व्रतनियमसत्यनिरतो यूपे जातो विशिष्टश्च ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनइषुकरणदस्युबन्धनमृगयावनसेवनेतिसोन्मादाः ।हिंस्राः कुशिल्पनिरताः शरयोगे सम्प्रसूताः स्युः ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनधनरहितविकलदुःखितनीचालसपेलवायुषः पुरुषाः ।सङ्ग्रामयुद्धनिपुणाः शक्त्यां जाताः स्थिराः सुभगाः ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनहतपुत्रदारनिःस्वाः सर्वजनैर्न्यक्कृताः स्वजनबाह्याः ।दुःखितनीचाः प्रेष्या दण्डप्रभवा नराः सततम् ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठननित्यं सुखप्रधाना वाहनवस्त्रार्थभोगसम्पन्नाः ।कान्ताः सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनविषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च ।परभुक्ताः पानरताः सर्पे जाता भवन्ति नराः ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनअटनप्रियाः सुरूपाः परदेशेष्वर्थभागिनो मनुजाः ।क्रूराः खलस्वभावाः रज्जुप्रभवाः सदा कथिताः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनमानधनज्ञानयुताः कर्मोद्युक्ता नृपप्रियाः ख्याताः ।स्थिरचित्ता मुसलोत्था भवन्ति शूराः सदा पुरुषाः ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनऊनातिरिक्तदेहा धनसंचयभागिनोऽतिनिपुणाश्च ।बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनदारिद्र्यालस्ययुता विद्याज्ञामानवर्जिता मलिनाः ।नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनपाषण्डभागिनो वा धनरहिता वा बहिष्कृता लोके ।सुतमानधर्मरहिता युगयोगे मानवा जाताः ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनतीक्ष्णालसधनरहिता हिंस्राः सुबहिष्कृता महाशूराः ।सङ्ग्रामलब्धशब्दाः शूले रौद्राः प्रजायन्ते ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनसुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिताः ।केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनपाशे बन्धनभाजः कार्योद्युक्ताः प्रपञ्चकाराश्च ।बहुभाषिणो विशीला बहुभृत्याः सम्प्रसूताः स्युः ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनदामिन्यामुपकारी पशुगणयुक्तो धनेश्वरो मूढः ।बहुसुतरत्नसमृद्धो धीरो विद्वान् प्रजातः स्यात् ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनमित्रान्विताः सुवचसः शास्त्रपरा गेयवाद्यनिरताश्च ।सुखभाजो बहुभृत्या वीणायां कीर्तिता मनुजाः ॥ ५२ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।