अध्याय 45: स्त्रीजातकफलम्
सारावली · Saravali (A woman's chart)
32 श्लोक
- श्लोक 1स्त्रीणां जन्मफलं तुल्यं पुंभिः सार्धं यदुच्यते ।विशेषस्तत्र यो दृष्टः कथ्यते विस्तरेण सः ॥ १ ॥
- श्लोक 2वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नतः ।सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनप्रकृतिस्था लग्नेन्द्वोः समभे सच्छीलरूपाढ्या ।भूषणगुणैरुपेता शुभवीक्षितयोश्च युवतिः स्यात् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनपुरुषाकृतिशीलयुता दुःशीला दुःखिता विषमराशौ ।क्रूरैर्वीक्षितयुतयोः पापा स्त्री स्याद्गुणैर्हीना ॥ ४ ॥
- श्लोक 5लग्नेन्द्वोर्यो बलवान् त्रिंशांशेऽधिष्ठितैः फलं क्रमशः ।भूसुतभार्गवबोधनसुरगुरुमार्ताण्डदेहभवैः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनकन्यैव स्वगृहे दुष्टा भौमत्रिंशांशके भवेत् ।कुचरित्रा तथा शौक्रे समाया बोधनेऽबला ॥ ६ ॥
- श्लोक 7कुंडली के 3 पठनजीवे साध्वी नटी दासी मान्दे स्यात्कपटी मता ।शौक्रे प्रकीर्णकामा च बौधे गुणवती भवेत् ॥ ७ ॥
- श्लोक 8कुंडली के 3 पठनजैवे सती शनौ क्लीबा दुष्टा कौजे सितर्क्षगे ।शौक्रे ख्यातगुणा बौधे कलासु निपुणा मता ॥ ८ ॥
- श्लोक 9कुंडली के 2 पठनजैवे गुणान्विता मन्दे पुनर्भूश्चन्द्रभे ततः ।स्वच्छन्दा कथिता कौजे शौक्रे च कुलपांसना ॥ ९ ॥
- श्लोक 10कुंडली के 3 पठनबौधे शिल्पान्विता नारी जैवे बहुगुणा स्मृता ।पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १० ॥
- श्लोक 11कुंडली के 4 पठनबौधे पुंश्चेष्टिता जैवे राज्ञी मन्दे कुलच्युता ।कौजे बहुगुणार्यर्क्षे शौक्रे वाग्व्यसनी तथा ॥ ११ ॥
- श्लोक 12कुंडली के 3 पठनबौधे विज्ञानसंयुक्ता जैवे नैकगुणा स्मृता ।मन्दे चाल्परतिः प्रोक्ता दासी कौजे तथार्किभे ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठनसुप्रज्ञा च भवेच्छौक्रे बुधे दुःस्था खला तथा ।जैवे पतिव्रता नित्यं मन्दे नीचानुसेविनी ॥ १३ ॥
- श्लोक 14शुक्रासितौ यदि परस्परभागसंस्थौशौक्रे च दृष्टिपथगावुदये घटांशे ।स्त्रीणामतीव मदनाग्निमदः प्रवृद्धःस्त्रीभिः शमं च पुरुषाकृतिभिर्लभन्ते ॥ १४ ॥
- श्लोक 15कुंडली के 2 पठनशून्येऽस्ते कापुरुषो बलहीनः सौम्यदर्शनविहीने ।चरभे प्रवासशीलो भर्ता क्लीबो ज्ञमन्दयोश्च भवेत् ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनउत्सृष्टा सूर्येऽस्ते कुजे च विधवा नवोढैव ।कन्यैवाशुभदृष्टे शनैश्चरे वृद्धतां याति ॥ १६ ॥
- श्लोक 17अशुभे क्षीणेऽस्तगते त्यक्ता पत्या भवेदशुभदृष्टे ।क्रूरैर्विधवास्तगतैर्भवति पुनर्भूस्तथा मिश्रैः ॥ १७ ॥
- श्लोक 18अन्योन्यभागगतयोः सितकुजयोरन्यपुरुषसक्ता स्यात् ।द्यूने शिशिरगुतनये स्याद्युवतिरनुज्ञया भर्तुः ॥ १८ ॥
- श्लोक 19सौरारगृहे तद्वत् शशिनि सशुक्रे विलग्नगे जाता ।मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥ १९ ॥
- श्लोक 20कुंडली के 2 पठनद्यूने तु कुजनवांशे शशिना दृष्टे सरोगयोनिः स्त्री ।सद्भृगुभागे चारुश्रोणी पतिवल्लभा भवति ॥ २० ॥
- श्लोक 21कुंडली के 2 पठनद्यूने वृद्धो मूर्खः सौरगृहे स्यान्नवांशके नाथः ।स्त्रीलोलः क्रोधपरः कुजभेऽथ नवांशके भर्ता ॥ २१ ॥
- श्लोक 22कुंडली के 2 पठनशुक्रगृहेऽथ नवांशेऽतिरूपसौभाग्यसंयुतो भर्ता ।नैपुणविज्ञानयुतस्तथैव बौधेऽथवा नवांशे वा ॥ २२ ॥
- श्लोक 23कुंडली के 2 पठनमदनार्तो मृदुचित्तः शशिभे नवमेंशकेऽथवा भर्ता ।गुरुसितभागेऽप्यथवा गुणवान्विजितेन्द्रियो भवति ॥२३॥
- श्लोक 24कुंडली के 1 पठनअतिकर्मकृदतितीक्ष्णो रविभेऽप्यथवांशके भवति भर्ता ।सप्तमभवनोपेतैर्नित्यं स्त्रीणां समवधार्यम् ॥ २४ ॥
- श्लोक 25कुंडली के 2 पठनईर्ष्यान्विता सुखपरा लग्ने सितचन्द्रयोर्बुधेन्द्वोश्च ।सुखिता कलासु कुशला गुणशतसहिता विनीता स्यात्॥२५॥
- श्लोक 26कुंडली के 3 पठनशुक्रबुधयोर्विलग्ने रुचिरा सुभगा कलासु निपुणा च ।दास्यम्बरसौख्ययुता शुभेषु पापेषु विपरीता ॥ २६ ॥
- श्लोक 27पापेऽष्टमे तु विधवा निधनाधिपतिर्नवांशके यस्य ।तस्य दशायां मरणं वाच्यं तस्याः शुभैर्द्वितीयस्थैः ॥२७॥
- श्लोक 28कुंडली के 1 पठनकन्यालिवृषभसिंहे शिशिरमयूखेऽल्पपुत्रा स्यात् ।पुत्रभवने शुभयुते निरीक्षिते वा तथैव स्यात् ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनरिक्ते बुधेन्दुभृगुजै रविजे च मध्येशेषैर्बलेन सहितैर्विषमर्क्षलग्ने ।जाता भवेत्पुरुषिणी युवती सदैवपुंश्चेष्टिता विचरति प्रथिता च लोके ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनक्रूरे जामित्रगते नवमे यदि खेचरो भवति नूनम् ।आप्नोति प्रव्रज्यां पापग्रहसम्भवामबला ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनबलिभिर्बुधगुरुशुक्रैः शशाङ्कसहितैर्विलग्नगैः समभे ।स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रार्थकुशला च ॥ ३१ ॥
- श्लोक 32जन्मकाले विवाहे च चिन्तायां वरणे तथा ।चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि ॥ ३२ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।