अध्याय 47: नष्टजातके लग्नगुणाः
सारावली · Saravali (The rising signs)
49 श्लोक
- श्लोक 1जन्मविधावज्ञाते प्रश्नोत्थविकल्पतो भवेत्प्रष्टुः ।जन्मसमये नराणामतः प्रयत्नेन संचिन्त्यम् ॥ १ ॥
- श्लोक 2दशविधचिन्हैर्ज्ञात्वा जातं पुरुषं प्रसाधयेल्लग्नम् ।अत एव प्रथमतरं तानि समस्तान्यहं वक्ष्ये ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनमेषविलग्ने जातः प्रचण्डरोषो विदेशगमनरतः ।लुब्धः कृशोऽल्पसौख्यः सेर्ष्यः स्खलिताभिधायी च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनपित्तानिलोष्ठरोगैरभितप्ततनुः क्रियापटुर्भीरुः ।मेषर्क्षे धर्मपरः चलोऽल्पमेधाः परार्थनाशकरः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनभोक्ता ख्यातः कुनखो भ्रातृविहीनस्तथा पितृत्यक्तः ।शीघ्रगतिर्मन्दसुतो विविधार्थयुतः सुशीलश्च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनकुकुलोद्गतां सुशीलां स्वजनेऽपि च निर्घृणां स्त्रियं लभते ।अपकृष्टोदयसौख्यः कुधर्मसंवर्धितार्थश्च ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनवृषभविलग्ने शूरः क्लेशसहिष्णुः सुखी रिपुनिहन्ता ।बाल्ये सञ्चययुक्तः पृथुपीनललाटघोणगण्डोष्ठः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनउद्युक्तकर्मसुभगः पितुर्जनन्याः सुशर्मकृद्दाता ।विविधव्ययोऽतिरौद्रः कफानिलात्मा पिता कुमारीणाम् ॥८॥
- श्लोक 9कुंडली के 1 पठनस्वजनावमर्दनपरो धर्मनिर्वृत्तोऽबलाप्रियश्चपलः ।भोजनपाननिगृध्नुर्नानाम्बरभूषणैकमतिः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनमिथुनविलग्ने जातः प्रियदारो भूषणप्रदानरतिः ।पूज्यवचः सुवचस्वी द्विमातृको रिपुविनीतः स्यात् ॥१०॥
- श्लोक 11कुंडली के 1 पठनगान्धर्वशिल्पकुशलः श्रुतिशास्त्रार्थप्रहास्यकाव्यमतिः ।सौम्योऽथ मण्डनरुचिर्मदवश्यः स्यात्सतां सत्यः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनअसहिष्णुरनिष्टसुतः शठोऽल्पबन्धुश्च संस्थितो भवति ।हीनाधिकाङ्गपादो विनीतवृत्ताक्षिपक्ष्मा च ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनचण्डाकारो वश्यो दारुणरिपुपक्षसंहरणशीलः ।भूरत्नकाञ्चनोर्मिकजलार्थभागी भवेत्पुरुषः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनकर्किणि लग्ने भीरुर्नैकनिवासश्चलप्रज्ञः ।मेधान्वितोऽतिधुर्यो गुह्यरुगार्त्तो निहन्ति रिपून् ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनअन्तर्विषमः कामी द्विजदेवात्यर्चनप्रदानरतः ।धर्मरतः कफबहुलो युवतितनुसंस्थितो गुणैर्नियतम् ॥१५॥
- श्लोक 16कुंडली के 1 पठनकन्यानुजो न बन्धुर्दृष्टाल्पसुतो विगर्हितकुटुम्बः ।बहुमतकुत्सितयुवतिः परार्थभागी दृढग्राही ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनपरदेशगः सुधीरः साहसकर्मा जलाधिगतवित्तः ।स्त्रीभूषणाम्बरसुखैर्भोगैश्च समन्वितो भवति ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनसिंहोदये प्रसूतो मांसरुचिर्नृपतिलब्धमानधनः ।धर्माच्च्युतोऽप्यसंस्थः कुटुम्बकार्येषु रतवामः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनसिंहस्य समानमुखः स्थितिमान्गाम्भीर्यसत्वसंयुक्तः ।धृष्टोऽल्पवचा लुब्धः परघातकरो बुभुक्षावान् ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनपर्वतवनानुसारी सुरोषणो दृढसुहृत्प्रमादी च ।दुष्प्रसहो हतशत्रुः ख्यातसुतः प्रणतसाधुजनः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनकृष्यादिकर्मधनवान् व्यापाररतो बहुव्ययो भवति ।वेश्या नटी नियमनाद्भार्यातश्चातिदन्तरोगाच्च ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनषष्ठे साधुत्वयुतः शिक्षागान्धर्वकाव्यशिल्पपटुः ।प्रियवल्गुकथाभाषी प्रणयी दानोपचाररतः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनकन्याविलाससत्वस्थितिर्दयावान्परस्वभोक्ता च ।भोक्ता देशभ्रमणः स्त्रीप्रकृतिर्विनयवाक् कितवः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनभूमण्डलवर्धनभाक् सुभगः कामी यशोच्छ्रयं लभते ।ऋजुधर्मवान् सुरूपः सुरुचिः कान्तो गुरूणां च ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनपापैरहार्यवृत्तैः सहजैश्च समं विरुद्धश्च ।कन्याप्रजोऽनिलकफो नीचारिविवर्जितकथश्च ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनसप्तमलग्ने जातो विषमाङ्गः शीलवर्जितश्चपलः ।उपचितहीनद्रविणः सुखहृद्देहानुसारी स्यात् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनकफवातिककलिरुचिको दीर्घमुखशरीरधर्ममतिवेत्ता ।बहुदुःखभाक् सुमेधाः परावमर्दी सुचारुकृष्णाक्षः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनअतिथिद्विजदेवरतिः क्रतुक्रियावान् गुरुषु भक्तः ।पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्लः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनभ्रातृप्रियोऽर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च ।कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनवृश्चिकलग्ने पुरुषः पीनपृथुव्यायताङ्गतीक्ष्णश्च ।अन्तर्विषमः शूरो मातुरभीष्टो रतोद्यतस्त्यागी ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनगम्भीरपिङ्गलोद्धतदृक् सुमहाहृन्निमग्नजठरश्च ।अन्तर्विलग्नघोणः साहसनिरतः स्थिरश्चण्डः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनविश्वासहासवश्यः पित्तरुगार्तः कुटुम्बसम्पन्नः ।गुरुसुहृदां द्रोहरतः पराङ्गनाकर्षणानुरतः ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनबन्धोल्बणवक्रः स्याद्भूपतिसेवी सशत्रुपक्षः स्यात् ।प्रयतोऽर्थदः सुयुवतिर्धर्मं प्रति वत्सलः क्षुद्रः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनकार्मुकलग्ने जातः स्थूलरदस्तुङ्गपृथुलमूर्धा च ।प्रणतानां प्रियकारी धृतिसत्वसमन्वितः सुनयः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनमलिनासिकोष्ठकुनखी ह्रीमानतिपीवरोरुजठरश्च ।विज्ञानशास्त्रकुशलः प्रत्यग्रमतिः प्रकोपश्च ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनबलिनाममर्षणपरः कुलमुख्यो नाशितारिपक्षश्च ।संग्रामपदश्रेष्ठश्छलबहुलच्छिद्रबन्धुगुणः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनशिल्पादिकर्मनिरतः स्वकर्मवाग्बन्धुवर्गशुभदश्च ।कान्तो वदनांजिपदो नृपाद्धृतार्थः सुधर्मरतः ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनमृगवदने लग्नस्थे कृशगात्रो भीरुरेणवक्रश्च ।वातव्याधिभिरार्तः प्रदीप्ततुङ्गोग्रनासः स्यात् ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनलघुसत्वोऽमिततनयो रोमचितः पाणिपादविस्तीर्णः ।आचारगुणैर्हीनस्तृषार्त्तरामाभिराममतिः ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनगिरिवनचारी शूरः शास्त्रश्रुतिशिल्पगेयवाद्यज्ञः ।क्षुद्रबलः सकुटुम्बो द्विष्टो दुष्टश्च बन्धुशठः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनकुत्सितशीलः कान्तः कुत्सितदारोऽनसूयको धनवान् ।धर्मरतो नृपसेवी न चातिदाता सुखी सुभगः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनकुम्भविलग्ने पुरुषः सुनीचकर्मा कुलाधिको मूर्खः ।स्फुटिताग्रनसो नीचः सक्रोधपरोऽलसात्मा च ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनवैरप्रियोऽप्रहृष्टः पारुष्यद्यूतनीचदासीष्टः ।उपहृतबन्धुः क्षुब्धः क्षयोदयी प्राप्तवित्तश्च ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनपिशुनः शठो दरिद्रो विनष्टबन्धुर्बहिष्कृतो लोके ।नो संमतः परेषां प्रकृष्टसम्पद्गुरुरतिश्च ॥ ४४ ॥
- श्लोक 45कुम्भोदयो न शस्तो लग्नविधौ सर्वथैव सत्यमते ।यवनैर्वर्गोऽपि तथा चाणिक्यो वदति नो वर्गम् ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनमीनविलग्ने जातो धन्यः स्फुटनासिकोऽस्फुटाक्षश्च ।विज्ञानकाव्यबुद्धिर्मानादरलब्धकीर्तिश्च ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनविवृतोष्ठरदः कुष्ठी विदारितास्यो वृषादि संलुब्धः ।दाक्षिण्यप्रत्ययवान् मेषच्छागादिसम्पन्नः ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनशौचाचारश्रुतिवाग्धृतिमान् कन्याप्रजो विनीतश्च ।सौम्यमतिः सत्वयुतो गान्धर्वस्त्रीरतिज्ञश्च ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनबहुशीलोदारमतिर्भ्रातृधनोऽमर्षणः सुबन्धुश्च ।बलवति राशावेतत्तदधिपतौ वा बलं सर्वम् ॥ ४९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।