अध्याय 48: होरागुणाः

सारावली · Saravali (The horas (halves of a sign))

25 श्लोक

  1. श्लोक 1कुंडली के 1 पठनरिक्तोत्कटदृक् क्रूरो धनपः शुक्लाधिकोग्रदाररतः ।पीनोन्नतः प्रचण्डस्तस्करनाथः क्रियादिहोरायाम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनचोरः प्रमादबहुलः खराग्रपादाङ्गुलिर्द्वितीयायाम् ।स्निग्धायताक्षचतुरः पृथुपीनतनुः सुमेधाश्च ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनश्यामो विशालचक्षुर्ललाटपक्षाः प्रगल्भरतिवश्यः ।स्थूलास्थितनुर्वृषभप्रथमार्धे स्याद्वपुष्मांश्च ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनपृथ्वायतवृत्ततनुमुदारसत्वं सुमूर्द्धजं जनयेत् ।व्यस्तकटिं वृषभाक्षं वृषभे होराद्वितीयायाम् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनमध्यायतोऽतिदक्षो मध्यतनुर्मृदुशिरोरुहांघ्रिश्च ।मिथुनाद्यर्धे शूरः सुरतेप्सुः स्याद्धनी प्राज्ञः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनमधुरायताक्षकामी शूरो मृदुकर्मठो वचस्वी च ।परदारदत्तदेहो भवेन्नृमिथुनद्वितीयहोरायाम् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनउद्धतमूर्तिः सुशिराः प्रगल्भधीर्मन्ददृक् चलाङ्गशठः ।श्यामतनुः सुकृतघ्नो भग्नाग्ररदः कुलीरहोरायाम् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनद्यूते रतोऽध्वनिरतः पृथुवक्षाः सत्प्रमाणसम्पन्नः ।कठिनशरीरः क्रोधी जायेत कुलीरभद्वितीयायाम् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनरक्तान्तदृक् प्रगल्भो गुरुरायतविग्रहश्च सिंहाद्ये ।जिह्मस्वभावसुखभागन्तस्थिरकार्यसत्वश्च ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनस्त्रीमृष्टपानभोजनवस्त्रेप्सुर्बहुविचेष्टकठिनाङ्गः ।दाताध्वरतोऽल्पसुतो भोगी स्थिरसौहृदोऽन्त्यार्धे ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनसुकुमारमूर्तिकान्तः सुवाक्यगीताङ्गनारतिर्मधुरः ।गान्धर्वविद्युवत्याः सुभगः पूर्वार्धजः श्रेष्ठः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनह्रस्वो हठश्रुतार्थः स्थूलशिराः सम्मतो विवादी च ।सेवालेख्यलिपिज्ञः क्षयवृद्धियुतः सुखी द्वितीयार्धे ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनवृत्तानन उच्चनसस्त्वसितायतसुनयनो विलासी स्यात् ।पीनायतोऽस्थिसारो धनवान् स्वजनप्रियस्तुलाद्यर्धे ॥१३॥
  14. श्लोक 14कुंडली के 1 पठनबह्वर्थभाक् स्थिरार्धः श्यामाकुञ्चितशिरोरुहश्च शठः ।वृत्ताक्षस्त्वपरार्धे सुत्वग्घीनाग्रपादश्च ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनरक्तान्तपिङ्गदृष्टिः साहसकर्मान्वितो रणे शूरः ।दुष्टस्वभावरामाप्रियोऽर्थभाग्वृश्चिकाद्यर्धे ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनविस्तीर्णोपचितायतपीनाङ्गः क्ष्माधिपोपसेवी स्यात् ।बह्वृणमित्रसमेतः स्फुटिताक्षो वृश्चिकापरार्धे स्यात् ॥१६॥
  17. श्लोक 17कुंडली के 1 पठनदारितपृथुमुखवक्षाः परिकुञ्चितनेत्रगण्डः स्यात् ।बाल्ये त्यक्तात्मगुरुश्चापाद्यर्धे तपस्वी च ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनपद्माक्षो दीर्घमहाबाहुः शास्त्रार्थवित्सुमूर्तिः स्यात् ।वाक्सुभगो धन्योऽपि च धनुरपरे निर्वृतो यशस्वी च ॥१८॥
  19. श्लोक 19कुंडली के 1 पठनश्यामो मृगाक्षधन्यः स्त्रीष्वजितः सौम्यमूर्तिशठ आढ्यः ।मृष्टाशनः सुचेष्टो मृगाद्यभागे तनूच्चघोणः स्यात् ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनरक्तान्तदृष्टिरलसो गुरुदीर्घाटनपरो भवति मूर्खः ।श्यामो रोमचिताङ्गस्तीक्ष्णः सहसः सुरौद्रकर्मा च ॥२०॥
  21. श्लोक 21कुंडली के 1 पठनस्त्रीमित्रभागरसविन्मृदुलोऽल्पसुतश्च सद्गुणः शूरः ।ताम्रो भास्वरवर्णो यानमतिः कुम्भपूर्वार्धे ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनआताम्रदारिताक्षः कृशः स्थिरोऽत्यल्पमूर्तिरलसः स्यात् ।नैकृतिकः सुविषादी कृपणः कुम्भापरे सुशठः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनह्रस्वः पृथुचारुतनुर्महाललाटो बृहद्वदनवक्षाः ।स्त्रीदयितो मीनार्धे प्रथमे सुयशाः क्रियापटुः शूरः ॥२३॥
  24. श्लोक 24कुंडली के 1 पठनदाता सुतुङ्गनासो निपुणो मेधान्वितः शुभदनेत्रः ।नृपदयितः स्त्रीसुभगश्चारुर्मीनापरे सुवाक्यः स्यात् ॥ २४ ॥
  25. श्लोक 25चन्द्रार्कयोरेकतरे बलस्थे होरापतिः पश्यति केन्द्रगो वा ।होरा यथोद्दिष्टफलप्रदा स्याद्गर्भस्थसत्वस्य समुद्भवेषु ॥२५॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।