अध्याय 49: द्रेष्काणगुणाः
सारावली · Saravali (The drekkanas of the Lagna)
37 श्लोक
- श्लोक 1कुंडली के 1 पठनदाता हर्ता दीप्तः क्षयोदयी सङ्गरप्रचण्डः स्यात् ।प्रियविग्रहस्त्रिभागे मेषाग्रे बन्धुषूग्रदण्डश्च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनस्त्रीचञ्चलो विहारी रतिमान् गीतप्रियो मनस्वी स्यात् ।मित्रार्थभाक् सुरूपः स्त्रीवित्तरुचिर्द्वितीये च ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनगुणवान् परदोषकरश्चलसत्रयुतो नरेन्द्रसेवी स्यात् ।स्वजनप्रियोऽतिधर्मस्तृतीयभागे प्रियादरोऽज्ञश्च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनप्रियपानभोज्यनारीवियोगतप्तो वृषस्य पूर्वांशे ।वस्त्रालङ्कारयुतो युवतिप्रकृतानुसारी स्यात् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनसौम्यवपुस्त्रीसुभगो महाधरो रूपधनयुक्तः ।धनवान् स्थिरो मनस्वी लुब्धस्त्रीणां प्रियो द्वितीये स्यात् ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनचतुरोऽल्पभाग्यवीरो मलीमसः स्याद्धनान्युपादाय ।सन्तप्यते तु पश्चाद्वृषस्य भागे तृतीये च ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनमिथुनादिमे दृगाणे पृथूत्तमाङ्गो धनान्वितः प्रांशुः ।कितवो गुणी विलासी नृपाप्तमानो वचस्वी स्यात् ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनह्रस्वाननस्वरूपः सौम्यवपुः सूक्ष्ममूर्द्धजतनुः स्यात् ।धन्यो मृदुर्महाधीर्द्वितीयभागे प्रतापवान् सुयशाः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनस्त्रीद्वेषणो वपुष्मान् महाशिराः शत्रुसंयुतः प्रांशुः ।रूक्षनखाङ्घ्रिकरतलश्चलार्धविभृतो दृढस्तृतीये स्यात् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनकर्कटकादिमभागे देवब्राह्मणरतश्चलो गौरः ।कृत्यकरश्च परेषां सुधीः सुमूर्तिः शुभाङ्गनः सुभगः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनलुब्धः स्वाद्वदनपरः स्वप्नरतः स्त्रीजितोऽभिमानी स्यात् ।सहजान्वितो विलासी चपलो बहुरुग् द्वितीये च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनस्त्रीचञ्चलोऽर्थभागी विदेशनिरतः प्रियासवः साधुः ।काननतोयानुरतो दुर्दृष्टिर्माल्यवांस्तृतीये स्यात् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनसिंहादिद्रेष्काणे दाता भर्तारिनिर्जिगीषुः स्यात् ।बहुधनयोषित्सुसुहृद्बहुनृपसेवकः सुसत्वश्च ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनसुरुचिरकारी दाता स्थिरो वपुष्मान् रणेप्सुः स्यात् ।सुखभाक् श्रुतिधर्मरुचिर्विस्तीर्णमतिर्द्वितीये च ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनलुब्धः परस्वहरणे कल्यः स्तब्धो महामतिः कितवः ।नायततनुमूर्त्तिः स्यान्नैकापत्यः प्रगल्भोऽन्त्ये ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनश्यामः सुवाग्विनीतः प्रांशुः सुकुमारमूर्तिरबलाद्ये ।स्त्रीभ्योऽर्थभागनिष्ठो दीर्घशिरा मधुसमाक्षश्च ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनधीरो विदेशभागी शिल्पकथापण्डितः समरशौण्डः ।वाचाटः श्रुतवाक्यो वनौकसां संमतो द्वितीये स्यात् ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनगीतापरार्द्धभागी सङ्गीतरतिर्नरेन्द्रदयितः स्यात् ॥ह्रस्वस्वरूपवेषश्चान्ते पृथुदृक् शिरस्कश्च ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनकन्दर्परूपनिपुणस्तुलादिभागेऽध्वसेवज्ञः ।श्यामकला पण्यरतो नियोगधीरः सुमेधावी ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनपङ्कजविशालनेत्रः सुरूपवाक् साहसः कलापी स्यात् ।ख्यातः स्ववंशवर्धितवृद्धानुचरो द्वितीये च ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनचपलः शठः कृतघ्नो विरूपजिह्मोपचितमूर्त्तिः ।नष्टसुहृद्द्रविणयशाः स्वल्पमतिर्भागके तृतीये स्यात् ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनगौरः स्थिरः प्रचण्डो रणोत्कटः स्यान्नरो विशालाक्षः ।स्थूलविशालशरीरः कलिप्रियो वृश्चिकाद्यांशे ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनमृष्टान्नपानचतुरश्चलेक्षणो हेमगौरमूर्त्तिः स्यात् ।कान्तः परवित्तयुतः शीलकलावान् द्वितीयेंऽशे ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठननिश्मश्रुरोमहिंस्रः पिङ्गाक्षमहोदरः प्रहर्त्ता च ।सहजच्युतस्तृतीये पीवरबाहुः सुधीरहृदयश्च ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनपरिमण्डलाक्षवक्त्रो गणेषु मुख्यो धनुर्दृगाणाद्ये ।स्वोपचितस्वाचारस्तथा मृदुर्भवति सञ्जातः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनशास्त्रार्थवित्प्रवक्ता क्रतुशतहर्त्ता द्वितीये च ।मन्त्रभृतां श्रेष्ठतमस्त्वनेकतीर्थायतनचारी ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनबन्धुप्रधानचतुरः सतां गतिर्धर्मभाक् तृतीयेऽपि ।कामी पराङ्गनाभाक् रूपयशोभाजनो विजिष्णुश्च ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनव्यालम्बभुजः श्यामः प्रथितयशोरूपकान्तिशठः ।स्मितभाषी मकराद्ये स्त्रीषु जितो वल्गुचेष्टधनयुक्तः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनअल्पवदनश्च मध्ये चलः परस्त्रीधनापहर्ता स्यात् ।चतुरः सतां गतिज्ञः प्रदानशीलो दुरन्तपादः स्यात् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनवाचालः कलुषकृशो दीर्घाङ्गः पितृवियुक्तश्च ।लभते विदेशगमनाद्व्यसनान्यपि मृगमुखस्यान्ते ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनस्त्रीमानयशोभूतिः स्फीतप्रभवो घटस्याद्ये ।प्रांशुः कर्मसु निष्ठो धनवान्नृपसेवको जातः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनलुब्धः समर्थमधुरो गौरः पिङ्गोद्धताक्षहास्यधनः ।उद्धृष्टवचा मतिमान् बहुमित्रः स्याद् द्वितीये तु ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनदीर्घः शठः प्रतापी कृशोऽल्पबाहुः सुतार्थभाक् स्तब्धः ।बह्वनृतोऽन्तर्विषमो विदारिताक्षो रतिविदन्त्ये ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनमधुपिङ्गाक्षो गौरो मेधावी सत्क्रियारतिज्ञश्च ।सुखभागी मीनाद्ये जलचरयुगले विनीतश्च ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठननार्युपचारप्रवरो मृष्टान्नरतिः परार्द्धभुक् कारी ।स्त्रीसज्जनातिदयितो वदतां श्रेष्ठो द्वितीये तु ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनश्यामः कलासु निपुणः पृथुपादसुहृत् प्रदानश्च ।मृष्टान्नपानहास्यो मीनयुगान्त्ये भवेत्पुरुषः ॥ ३६ ॥
- श्लोक 37इतीरितोयं स्वगुणस्वभावोद्रेक्काणजानां गुणविद्धिकल्पैः ।द्रेक्काणगे वीर्यवति स्वदृष्टेद्रेक्काणकल्पन्तु फलं विदध्यात् ॥ ३७ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।