अध्याय 50: नववर्गगुणचिन्ता

सारावली · Saravali (The navamshas of the Lagna)

110 श्लोक

  1. श्लोक 1अतोंशके लग्नगते तु वक्ष्ये वर्णस्वभावाकृतिलक्षणानि ।प्रधानवीर्येंऽशपतौ शशीव तत्स्वामिराशिक्रमशो विधत्ते ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनअजसंस्थानमुखः स्यान्मेषाद्यांशेऽल्पनासिकाङ्गभुजः ।चण्डध्वनिर्विरूपः संकुचिताक्षः कृशोऽक्षताङ्गश्च ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनश्यामगुरुस्कन्धभुजो ह्रस्वललाटः सुजत्रुकः स्फुटदृक् ।दीर्घास्यनसो मृदुवाक् तृतीयभागे कृशाङ्घ्रिसन्धिश्च ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनव्यालुप्तकेशगौरो व्यस्तभुजश्चारुनयननासश्च ।वाक्पण्डितस्तृतीये जातस्तु कृशोरुजानुजंघश्च ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनविभ्रान्तदृक् प्रचण्डो ह्रस्वनसोऽटनखराङ्घ्रिरोमा च ।अभ्रातृकः कृशः स्याच्चतुर्थनवभागजः पुरुषः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनदृप्तो गजेन्द्रनयनः पृथुनासा भ्रूललाटको मध्ये ।पीनोपचिताग्रतनुः खरतररोमाङ्घ्रितनुकेशः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनश्यामो मृदुर्मृगाक्षो गुरुः कृशस्फिक् कठोरुचरणः स्यात् ।व्यस्तोदरकभुजांसः षण्ढो भीरुश्च बहुभाषी ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनदूर्वाङ्कुराभचपलः सितनेत्रः सप्तमे भवेत्पुरुषः ।कुलटापतिर्नृशंसो विशालविस्तीर्णमूर्तिः स्यात् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनवानरमुखप्रवक्ता खरपिङ्गतनुश्च गुह्यगदः ।हिंस्रोऽनृतघातरतः सुहृत्प्रियोग्रः सदाष्टमजः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनदीर्घः कृशो विहारी व्यस्तललाटश्रवोऽश्ववदनश्च ।बह्वभिधानाभिरतस्त्वनृजुर्नवमांशजो भवति ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनसमकृष्णतनुस्तब्धः पूर्वमघान्त्येऽन्त्यकर्मा स्यात् ।नीचः प्रकृतिविरुद्धो विषमाक्षिनिरीक्षणो वृषस्याद्ये ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनगम्भीरदृगलसात्मा विनतशिरावक्रकश्च लघुमेधाः ।प्रतिकूलकर्ममिथ्याबहुप्रलापी द्वितीये स्यात् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनमृद्वङ्गवान्वपुष्मान् सुनसस्पष्टायताक्षबृहदङ्गः ।यज्ञादिकर्मनिरतः स्थिरपार्ष्णिकरस्तृतीयनवमांशे ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनह्रस्वोदरः सुरोषो मेषाक्षः पिङ्गलस्त्वधनयुक्तः ।परधनहरणाभिरतश्चतुर्थभागे वृषस्य नरः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनव्यालः सुतुङ्गघोणो महर्षभाकारवक्त्रघनकेशः ।स्यात्पञ्चमे विलासी बृहद्भुजस्कन्धकटिगौरः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनस्वक्षस्थिरः सुकेशः स्निग्धतनुर्वल्गुवाक् प्रगल्भः स्यात् ।माधुर्यहास्यनिरतः कृशः सुनिपुणो भवेत्षष्ठे ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनमृतसुतयुवतीषु रतो मनाक्प्रलम्बाग्रनासिकाक्षः स्यात् ।उद्बद्धाङ्गः स्वजनद्वेषी गुरुपादसूक्ष्मकेशश्च ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनव्याघ्रेक्षणः सुदशनस्त्वजितस्फुटनासिकोऽल्पकर्मा स्यात् ।उद्वृत्तनीलकेशोग्रनखो मुखरस्तथाष्टमजः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनमान्योऽल्पसत्वभीरुः क्रोधी समरुचिरमूर्तिकितवः स्यात् ।सञ्चितधनः प्रसिद्धः कृशस्त्वधस्तात् प्रलाप्यन्ते ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनरोमोपचितांसभुजो घनासितापाङ्गदृक् तथोच्चनसः ।दूर्वाकाण्डश्यामः कृशाङ्घ्रिपाणिस्तृतीयभवनाद्ये ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनघटशीर्षोऽशुचिकर्मा घातरुचिर्मध्यलग्नघोणः स्यात् ।बहुभाषी बहुचेष्टो द्वितीयभागे तु विग्रहाधिपतिः ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनगौरोऽतिरक्तनयनः सुनासिकः समतनुः सुमेधाः स्यात् ।दीर्घाननोऽसितभ्रूर्वाचाचतुरस्तृतीयेंशे ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनसुभ्रूललाटकामी नीलोत्पलमूर्तिविपुलवक्षाः स्यात् ।सितवक्त्रो मृदुवक्त्रः प्रशस्तरोमाचितश्चतुर्थेंऽशे ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनपृथ्वाननो बृहत्स्फिक् पीवरवक्षोभुजश्च खलः ।स्थूलशिरा मायावी सितानुकूलनयनस्तु पञ्चमजः ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनमध्वीक्षणः प्रलापी व्यस्तललाटः समस्सुतनुः ।कितवश्चलश्च रुधिरोष्ठरदः षष्ठे तु सत्वयुतः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनताम्रारुणाक्षवर्णः समुन्नताक्षो विशालवक्षाः स्यात् ।शिक्षासु शिल्पनिपुणो हास्यरतिः सप्तमे जातः ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनश्यामो गुरुर्मनस्वी ललितो मधुराभिधानश्च ।व्यस्तविवृद्धशरीरो दीर्घासितदृक् कलाविदष्टमजः ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनवृत्ता सितदृक् सुतनुः सिद्धो मेधाबलो रतिज्ञः स्यात् ।विज्ञानकाव्यनिरतो नवमे जायेत मिथुनस्य ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठननिर्मलचारुसुगौरः सुमूर्द्धजः स्याद्विशालकुक्षिश्च ।मङ्गलमुखोन्नताक्षस्तन्वङ्गभुजः कुलीराद्ये ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनरक्तच्छविचरणोढः कलाप्रियः स्याद्विडालमुखनेत्रः ।कर्किद्वितीयभागे त्यागी कृशजानुजङ्घश्च ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनगौरः सुनेत्रवाग्मी सुकुमारस्थूलयोषिदङ्गश्च ।धीमान्मृदुकर्मरतस्तृतीयभागे भवेदलसः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनश्यामच्छविर्नतभ्रूर्विलासपीनोन्नतः सुनासाक्षः ।क्षीणः पुरुषो दाता सुजातिकार्यश्चतुर्थे स्यात् ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनघण्टाशिरोनतास्यः सुसंहतभ्रूः सुदीर्घबाहुः स्यात् ।सेवारतो विकर्मा मध्ये दुर्मर्षणोऽल्पमेधाश्च ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनदीर्घविशालशरीरः प्रशस्तनयनो बहुप्रतापः स्यात् ।गौरः सुवंशघोणो वक्ता षष्ठे च पृथुदन्तः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनभिन्नशिरोरुहरोमा बृहत्तनुः स्यात्सिरालजङ्घश्च ।परगृहरक्षणशीलः काकाकारश्च सप्तमजः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनघण्टाशिराः कुशिल्पी सुमुखभुजाङ्गश्च कूर्मगतिः ।मध्यविलग्ननसः स्यादष्टमभागे तु कुष्ठश्च ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनगौरो झषनेत्रगुरुर्मृदूदरोऽथ पृथुपीनवक्षाः स्यात् ।दीर्घहनुर्लम्बोष्ठो महोरुकृशजानुगुल्फोऽन्त्ये ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनमन्दोदरः प्रचण्डो रक्ताग्रनसो बृहच्छिराः शूरः ।उन्नतमांसलवक्षाः सिंहे प्रथमे भवेद्भागे ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनउन्नतविततललाटश्चतुरश्रतनुर्विलोमनेत्रश्च ।दीर्घभुजोन्नतवक्षाः पृथूग्रघोणो द्वितीयेंशे ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनरोमान्वितायतभुजश्चकोरनयनश्चलस्त्यागी ।उन्नासिकस्तृतीये स्निग्धतनुर्बाहुवृत्तगलः ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनघृतमण्डगौरगात्रो दीर्घासितलोचनो मृदुशिरोजः ।भिन्नध्वनिश्चतुर्थे पृथुकरचरणश्च भेककुक्षिः स्यात् ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनघण्टाशिरोऽल्पकेशो सितघोणाक्षश्च लोमशाङ्गतनुः ।लम्बोदरप्रचण्डो दंष्ट्रोत्कटपीनहृन्मध्ये ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनस्रस्ताल्परोममूर्तिः स्निग्धसमासितविलोचनो दीर्घः ।श्यामस्त्रीणां चतुरो विकत्थनो वाक्यपण्डितः षष्ठे ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनदीर्घाननः सिरालः पीनतनुः स्त्रीषु दुर्भगः कृष्णः ।स्यात्सप्तमे सुचण्डो रोमचितः कूटनिष्ठुराभाषी ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनउत्कृष्टवाक् स्थिराङ्गः सुभगो गम्भीरदृग्विकर्मा च ।निःस्वः कूटकरः स्यादष्टमभागे प्रसूतश्च ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनरासभमुखोऽसिताक्षो व्यालम्बभुजः सुपार्ष्णिजङ्घश्च ।श्वासनिपीडितवक्षा नवमांशे जायते मनुजः ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनसारङ्गाक्षो वक्ता प्रदानसम्भोगवान् धनाढ्यश्च ।श्यामोन्नतहृदयः स्यात्षष्ठे प्रथमांशके जातः ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनपूर्णाननः सुचक्षुः स्निग्धो मृदुवादशीलश्च ।लम्बोदरश्चलः स्याद्द्वितीयभागे महोरुश्च ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनस्फुटनासिकास्फुटः स्यात्प्रशस्तपादश्च पीनपादभुजः ।विस्पष्टवाक् च गौरः कन्यासु सुहृत्तृतीयेंशे ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनश्रुतवान् स्त्रीषु च रमते सुकुमारो मधुररक्तगौरश्च ।तीक्ष्णश्चतुर्थभागे प्रबोधनोधःकृशो द्विमूर्धा च ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनस्थूलोष्ठबाहुरुन्नततनुः पृथुशिरोरुहांसः स्यात् ।पञ्चमजः पृथुवक्षाः पराश्रयोद्बद्धजङ्घश्च ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनस्निग्धच्छविः सुवाक्यः शस्ततनुः शास्त्रकृतमतिप्रचुरः ।लिपिलेख्यकलाभिज्ञः सुमनाः षष्ठांशजो विहारी च ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनह्रस्ववदनोन्नतांसः स्निग्धभुजोऽन्ते च केशगौरः स्यात् ।सप्तमजः पृथुजठरः पृथुतरचरणोऽम्बुभीरुश्च ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनसुकुमारगौरदीर्घश्वित्रोन्नतदृक् प्रचण्डमानी स्यात् ।व्यालम्बपीनबाहुः पिङ्गलरोमाष्टमे जातः ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनख्यातो मृदुसुखमूर्त्तिर्विशालनेत्रो बलासदृशसत्वः ।चतुरो नवमेंशे स्यान्नतांसलेख्यादिविद्वांश्च ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनगौरो विशालनेत्रः श्लाघी दीर्घाननोऽर्थगोप्ता स्यात् ।नवपण्यकर्मकुशलस्तुलाधराद्यंशजः सुविख्यातः ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनप्लुतमण्डलनेत्रः स्यात्करालदन्तो निमग्नमध्यस्तु ।युगले विस्मृतहृदयः कुतनुर्घनसंहतभ्रूश्च ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनगौरोऽश्वमुखः सुरदो महोन्नताक्षः कृशोऽपि लब्धयशाः ।दीर्घकरोरुहघोणस्तृतीयजः स्यात्सुचरणश्च ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनतन्वंसबाहुभीरुस्तून्नतदन्तः कृशो मृगतरलदृक् ।ह्रस्वनसः सुविषादी श्यामो शीलश्चतुर्थजो भवति ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनगम्भीरदृक् स्थिरात्मा सुहृत्प्रियः पञ्चमे ह्यमानी स्यात् ।खरकेशः समनेत्रो मध्यप्रतिलग्नघोणदृप्तश्च ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनपीनाङ्गो गौरः स्याद्विशालनेत्रः सुनासिकावंशः ।स्निग्धनखः सुनयज्ञः षष्ठेंशे शास्त्रविज्जातः ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनरक्तावदातमतिमान् गुरुह्रस्वतनुः कृशो ललाटे स्यात् ।लुब्धः प्रचण्डदुर्गः सप्तमभागे मनःस्वी च ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनतुङ्गांसगण्डभोक्ता कठिनतनुर्दीर्घकृष्णभ्रूः ।निर्निक्तवाक् प्रशान्तः सद्वक्षस्त्वर्धमस्तकोऽष्टमजः ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनस्वक्षः प्रसन्नगौरः समचारुतनुः पटुः कलाभिरतः ।दाक्षिण्यहास्यनिरतो विटस्वभावो भवेन्नवमे ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनह्रस्वोन्नतोष्ठघोणः सुललाटः स्यात् दृढाङ्गगौरश्च ।दर्दुरकुक्षिर्घटकोऽष्टमराशौ प्रथमनवभागे ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनगौरः पृथ्वायतहृद्बाहुस्ताम्रोग्रदृग् द्वितीये स्यात् ।उद्वृत्तबलनिहन्ता साहसकृदनल्पकेशश्च ॥ ६६ ॥
  67. श्लोक 67कुंडली के 1 पठनप्राज्ञो दृढांसबाहुः प्रयत्नकोशो विशुद्धवाक्यः स्यात् ।कानीनको वपुष्मान् गौरो रुचिराधरस्तृतीयेंशे ॥ ६७ ॥
  68. श्लोक 68कुंडली के 1 पठनपरदारद्रोहरतिः क्षेप्ता धीरश्चतुर्थजो दीर्घः ।श्यामोऽसितकेशाक्षो नटप्रगल्भश्च पीनरोमांसः ॥ ६८ ॥
  69. श्लोक 69कुंडली के 1 पठनगम्भीरस्ताम्राक्षो मग्ननसः पञ्चमे धीरः ।मृष्टोदरोग्रकर्मा व्यस्तदृढाङ्गो यशस्वी स्यात् ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठनधृष्टो वरिष्ठबुद्धिः पृष्ठोच्चनसो गभीरसत्वः स्यात् ।सुनसः प्रचण्डकर्मा षष्ठे दक्षोऽल्पकचघनभ्रूश्च ॥ ७० ॥
  71. श्लोक 71कुंडली के 1 पठनदारितमुखः स्थिराङ्गः प्रविकीर्णरदः शिरावनद्धाङ्गः ।निम्नोदरः प्लुताक्षः स्रस्ततनुः सप्तमे भवेदंशे ॥ ७१ ॥
  72. श्लोक 72कुंडली के 1 पठनस्फुटिताग्रनसः कालो विपन्नशीलो मलीमसाङ्गः स्यात् ।भिन्नोत्कटैः शिरोजैः सन्त्यक्तमतिस्तथाष्टमजः ॥ ७२ ॥
  73. श्लोक 73कुंडली के 1 पठनगौरो मृगाकृतिमृदुः प्रशान्तपिङ्गाक्षरोमदृढपीनः ।सुसमेतश्च गुरूणां मतः प्रजातो नवमभागे ॥ ७३ ॥
  74. श्लोक 74कुंडली के 1 पठनसुबृहन्नसोजदृष्टिः स्फुटाग्रभाषी सुदन्तरोमा च ।गौरः सुबुद्धवृषणश्चापाद्यांशे प्रचण्डः स्यात् ॥ ७४ ॥
  75. श्लोक 75कुंडली के 1 पठनप्रोत्तुङ्गशिराः स्थिरविद्विस्तीर्णाक्षो गुरुस्फिगूरुश्च ।विकृताक्षनसो दीर्घो महाहनुः स्याद्द्वितीयेंशे ॥ ७५ ॥
  76. श्लोक 76कुंडली के 1 पठनशिक्षाशास्त्रमतिज्ञः प्रगल्भगम्भीरमूर्त्तिसुनयश्च ।स्त्रीवल्लभो मनस्वी तृतीयजो हास्यशिल्पज्ञः ॥ ७६ ॥
  77. श्लोक 77कुंडली के 1 पठनदक्षो मधुमण्डलदृक् गौरः कृच्छ्रप्रवृद्धकुक्षिः स्यात् ।प्राज्ञोऽटनः सुकेशः पृथुशुभमूर्त्तिश्चतुर्थे स्यात् ॥ ७७ ॥
  78. श्लोक 78कुंडली के 1 पठनपृथुकण्ठनेत्रवदनः प्रवृद्धहरिविग्रहो महाभ्रूः स्यात् ।पीनोन्नतांसहन्ता पञ्चमजो रूढरोमदृढबुद्धिः ॥ ७८ ॥
  79. श्लोक 79कुंडली के 1 पठनस्निग्धासितान्तपृथुदृक् महाललाटः सुवृत्तिकाव्यरतः ।पृथुपीनमुखो हीनः षष्ठे विद्वान् कथाभिरतः ॥ ७९ ॥
  80. श्लोक 80कुंडली के 1 पठनश्यामो मृदुर्वचस्वी तुङ्गशिराः सङ्ग्रहानुसन्धिरतः ।दीर्घो विशालनयनो दाक्षिण्यपटुश्च सप्तमजः ॥ ८० ॥
  81. श्लोक 81कुंडली के 1 पठनचिपिटाग्रनासिकः स्याद्विस्तीर्णशिराः सुबद्धवैरश्च ।विभ्रान्तदृक् प्रलापी गुरुष्वभिमतोऽष्टमांशभवः ॥ ८१ ॥
  82. श्लोक 82कुंडली के 1 पठनगौरो हयाकृतिमुखो दीर्घासितदृक् तथाल्पवाक्यः स्यात् ।सत्यः सतां विषादी नवमे कुटिलोरुजङ्घश्च ॥ ८२ ॥
  83. श्लोक 83कुंडली के 1 पठनविरलाग्ररदः श्यामः प्रभिन्नवाक् खरशिरोरुनखजानुः ।गीताध्वहास्यनिरतो मकराद्ये बलधनः कृशाङ्गः स्यात् ॥ ८३ ॥
  84. श्लोक 84कुंडली के 1 पठनअलसशटः कुटिलनसो गीताभिरतिर्विशालदेहश्च ।प्रचुराङ्गनासु निरतो बहुभाषी स्याद्द्वितीयजः कल्प्यः ॥ ८४ ॥
  85. श्लोक 85कुंडली के 1 पठनगान्धर्वकलाकामः ख्याताङ्गो गौरदृक् सुनसः ।बहुमित्रबन्धुरतिमान् तृतीयजः स्विष्टकर्मा च ॥ ८५ ॥
  86. श्लोक 86कुंडली के 1 पठनरक्तासितवृत्ताक्षो महाललाटभुजदुर्बलाङ्गकरः ।भवति हि विकीर्णकेशश्चतुर्थजो विरलदन्तवाक्यः स्यात् ॥ ८६ ॥
  87. श्लोक 87कुंडली के 1 पठनउद्दण्डघोणकुक्षिर्भवति हि भोक्ता सुनासिकावंशः ।श्यामो वृत्तोरुभुजः पञ्चमभागे स्थिरारम्भः ॥ ८७ ॥
  88. श्लोक 88कुंडली के 1 पठनस्निग्धच्छविः सुवेषः कामरतः सूक्ष्मसमरदसुवक्ता ।षष्ठांशजः पृथुहनुर्महाललाटः पुमान् भवति ॥ ८८ ॥
  89. श्लोक 89कुंडली के 1 पठनश्यामोऽलसः सुभाषी रूक्षितदेहो बृहत्तनुः कठिनः ।मृदुपादपाणिमतिमान्सप्तमजः शीलसम्पन्नः ॥ ८९ ॥
  90. श्लोक 90कुंडली के 1 पठनगम्भीरदृक् सुघोणो रक्तास्यो भिन्ननखशिरोजः स्यात् ।उद्बद्धूतनुः शक्तोऽष्टमजो घटपृथुललाटश्च ॥ ९० ॥
  91. श्लोक 91कुंडली के 1 पठनविपुलाक्षिहृत्सुमेधाः पूर्णमुखो गीतवाद्यनिरतश्च ।माधुर्यसत्वयुक्तः साधुर्नवमे भवेत्सुजनः ॥ ९१ ॥
  92. श्लोक 92कुंडली के 1 पठनश्यामो मृदुः कृशाङ्गः पीनहनुः शास्त्रकाव्यमतिः ।कामी रतिमान्कान्तः कुम्भस्याद्यांशके भवेज्जातः ॥ ९२ ॥
  93. श्लोक 93कुंडली के 1 पठनत्वङ्नखदृष्टिशिरोजैः खरैश्च सुविपन्नवत्सलः साधुः ।दीर्घो विशिरा मूर्खो द्वितीयभागे भवेज्जातः ॥ ९३ ॥
  94. श्लोक 94कुंडली के 1 पठनसंसक्ततनुः प्रमदाप्रियश्च वैडूर्यकान्तिधरः ।शास्त्रार्थवित्प्रयोक्ता तृतीयनवभागसंजातः ॥ ९४ ॥
  95. श्लोक 95कुंडली के 1 पठनकान्तानुरतो गौरो विदारितास्यो रिपुप्रणाशकरः ।गम्भीरधीरसत्वश्चतुर्थजो भोगरतियुक्तः ॥ ९५ ॥
  96. श्लोक 96कुंडली के 1 पठनस्पष्टार्थवित्कलाज्ञः खररोमधराङ्घ्रिरुग्रः स्यात् ।संरुद्धगण्डकर्णः पञ्चमजः कृष्णवर्णश्च ॥ ९६ ॥
  97. श्लोक 97कुंडली के 1 पठनव्याघ्राननः प्रगल्भः कुञ्चितकेशः सुनिश्चितार्थश्च ।व्यालमृगोरगहन्ता षष्ठेंशे वल्लभो नृपतेः ॥ ९७ ॥
  98. श्लोक 98कुंडली के 1 पठनमेषाक्षिमुखस्तीक्ष्णो ग्राम्यरतिस्त्रीषु परिभूतः ।पित्तरुगर्दितदेहः सप्तमजः सत्वधृतियुक्तः ॥ ९८ ॥
  99. श्लोक 99कुंडली के 1 पठनस्थिरसत्वबुद्धिरतिमान् नरेन्द्रयोधो नरेश्वरः सुभगः ।स्थूलरदो विपुलाक्षः कुम्भे स्यादष्टमेंशके पुरुषः ॥ ९९ ॥
  100. श्लोक 100कुंडली के 1 पठनश्यामः समग्रवदनाविशेषितः सुधनदारपुत्रश्च ।नवमांशजः सुवाक्यः प्रथितः शक्तो भवेत्पुरुषः ॥ १०० ॥
  101. श्लोक 101कुंडली के 1 पठनगौरोऽपि रक्तदेहः प्रभामृदुस्त्रीमतिप्रचलचित्तः ।ह्रस्वगलः कृशमध्यो मीनस्याद्यांशके पुरुषः ॥ १०१ ॥
  102. श्लोक 102कुंडली के 1 पठनपृथुपीनभुग्ननासः (?) क्रियापटुर्मांसभुग्रुचिरदेहः ।काननपर्वतचारी बृहच्छिराः स्याद्द्वितीयांशे ॥ १०२ ॥
  103. श्लोक 103कुंडली के 1 पठनगौरः शठः सुचक्षुः शस्ततनुर्धर्मवान् सुविद्वांश्च ।दाक्षिण्यवान् विनीतस्तृतीयजो रूपवांश्चतुरः ॥ १०३ ॥
  104. श्लोक 104कुंडली के 1 पठनगुणवान् विपन्नशीलः प्रवृद्धसेवी क्रियापटुर्विद्वान् ।सत्वाधिको नयज्ञस्तुङ्गनसः स्याच्चतुर्थे तु ॥ १०४ ॥
  105. श्लोक 105कुंडली के 1 पठनदीर्घोऽसितः प्रतापी तुङ्गाङ्गः स्वल्पनासिकः स्वक्षः ।हिंसारतिः शुभरदो दुष्प्रसहः पञ्चमे प्रतापी स्यात् ॥ १०५ ॥
  106. श्लोक 106कुंडली के 1 पठनकान्तः प्रतापगुणवान् प्रसन्नवंशोऽल्पनासिको मानी ।तिर्यग्वदनः ख्यातः षष्ठेंशे स्यात्तथा निपुणः ॥ १०६ ॥
  107. श्लोक 107कुंडली के 1 पठनपुरुषाभिमानपरकृद्धर्मरुचिः श्रेष्ठगश्च सचिवः स्यात् ।प्रबलो विषादशीलः शठोऽस्थिरः सप्तमे भागे ॥ १०७ ॥
  108. श्लोक 108कुंडली के 1 पठनदीर्घो बृहच्छिराः स्यात्कृशोऽलसो रूक्षनेत्रकेशश्च ।मन्दात्मजोऽर्थनिरतो रणकुशलो ह्यष्टमे भागे ॥ १०८ ॥
  109. श्लोक 109कुंडली के 1 पठनह्रस्वो मृदुः सुधीरो विशालवक्षोक्षिनासिकः स्निग्धः ।विहिताङ्गबुद्धिगुणवान् नवमेंशे स्यात्पुमान् ख्यातः ॥ १०९ ॥
  110. श्लोक 110यत्प्रोक्तांशादिफलं द्वादशभागेऽपि तत्फलं वाच्यम् ।सप्तमभागसमानं शेषेषु विनिर्दिशेत्प्राज्ञः ॥ ११० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।