अध्याय 54: उपसंहाराध्यायः

सारावली · Saravali (Conclusion: ashtakavarga bindus, the authorities)

12 श्लोक

  1. श्लोक 1तिर्यग्विश्वोर्ध्वमन्दं गिरिगिरिशपदं न्यस्य चक्रं तदूर्ध्वंमेषाद्या राशयः स्युर्ग्रहगणसहिता शिष्टमिष्टस्य सद्म ।तस्याधः सोऽपि मुख्यं ग्रहगणमुदयं चा……क्ष्माक्रमेणन्यस्याधः स्वीयचक्रे स्वपदसहितभाक् स्वाष्टके बिन्दुरेखा १
  2. श्लोक 2कुंडली के 2 पठनपूर्णैर्बिन्दुभिरष्टभिः पदगतैर्हीनोऽपि भूपो भवेत्एकैकोनतया क्रमात्फलविधिः सर्वेस्थि……।……प्रियसुहृत्प्राप्तिर्विपच्छून्यतावित्तानामपि हानिराधिकृशता शून्यक्रमे संक्षयः ॥२॥
  3. श्लोक 3कुंडली के 7 पठनसूर्यस्याष्टसु बिन्दुषु क्षितिपतेराप्ता विभूतिर्भवेत्……शौर्यविजयः षट्सु प्रतापोन्नतिः ।पञ्चस्वर्थसमागमः सदसतोः साम्यं चतुष्के त्रिकेत्वध्वश्रान्तिरथ द्विके गदभयं रूपेऽथ शून्ये मृतिः ॥३॥
  4. श्लोक 4कुंडली के 1 पठनइन्दोर्भोगविभूतिकाञ्चन……वस्त्रान्नगन्धोद्भवाःसन्मन्त्रीद्विजसङ्गमोद्धृतिमही……दुःखसौख्यास्थितिः ।द्वेषो बन्धुजनैः प्रियार्थविरहोऽकस्माद्विपद्दुस्तरा-च्छोकोद्वेगबला……नियतं प्रोक्तं फलानामिदम् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनआरस्यार्थमहीसपत्नविजयाः सौभाग्यकान्तिप्रदाःराज्ञां वल्लभता प्रसिद्धगुणता साम्यं विषह्यं पदोः ।भ्रातृस्त्रीविरहो विपत्परिभवो राजाग्निपित्तज्वरैःस्फोटैर्दूषितमा(गा?)त्रता जठररुङ् मूर्च्छाक्षिरुङ्मृत्यवः ॥५॥
  6. श्लोक 6कुंडली के 1 पठनज्ञस्य क्ष्मापतिमान्यता द्रविणतो विज्ञानसौख्याप्तयःसर्वोद्योगफलोदयो नवसुहृत्प्राप्तिर्निरुद्योगता ।चित्तव्याकुलता …………सर्वस्वहानिर्मृतिः ॥६॥
  7. श्लोक 7कुंडली के 1 पठन……प्तयोवासो वाहनहेमलब्धिरहितध्वंसक्रियासिद्धयः ।लाभच्छेदविहीनता श्रवणदृक् पुंस्त्वप्रणाशादयोभूभृत्कोपभयं गदै……रशदाद्बन्ध्वर्थपुत्रक्षयः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनशुक्रस्याखिलभोगवस्त्रवनितापुष्पान्नपानाप्तयोभूषामौक्तिकपुष्टयः प्रियवधूलाभः सुहृत्सङ्गमः ।मध्यस्थः शुभपापयोर्जनपदग्रामान्नविद्वेषतास्थानभ्रंशरुजः कफश्च विषमे सर्वापदां सङ्गमः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनसौरे ग्रामपुराधिपाद्यधिपता दासीखरोष्ट्राप्तयःपूजा चोरनिषादसैन्यपतिभिर्धान्यार्थलाभागमः ।अन्यो……लिकसौख्यता सुतवधूभृत्यार्थविध्वंसनंबन्धोद्वेगरुजो महाधनतया भार्यादिसर्वक्षयः ॥ ९ ॥
  10. श्लोक 10इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव ।पूर्वाचार्यैर्निर्मित……दैवज्ञः ॥ १० ॥
  11. श्लोक 11पौलिशरोमशवासिष्ठयवनबादरायणाः शक्तिः ।अत्रिश्च भरद्वाजो विश्वामित्रो गुडाग्निकेशौ च ॥ ११ ॥
  12. श्लोक 12गर्ग……विस्तरं रचितम् ।……शास्त्रेषूक्तं जातकमितिचित्रगुप्तकृतम् ॥ १२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।