अध्याय 22: आदित्यचारः

सारावली · Saravali (The Sun in each sign, with aspects)

67 श्लोक

  1. श्लोक 1सर्वस्य सर्वकालं ग्रहराशिसमुद्भवं फलं यस्मात् ।कथयाम्यतः प्रयत्नात् शेषाचार्यान् समाश्रित्य ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनशास्त्रार्थकृतिकलाभिः ख्यातो युद्धप्रियः प्रचण्डश्च ।उद्युक्तो भ्रमणरुचिर्दृढास्थिबन्धः क्रिये श्रेष्ठः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसाहसकर्माभिरतः पित्तासृग्व्याधिकान्तिसत्वयुतः ।सूर्ये भवति नरेन्द्रः स्वतुङ्गराशौ नरो जातः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनदानरतो बहुभृत्यो ललितो युवतिप्रियो मृदुशरीरः ।कुजभवनगते सूर्ये चन्द्रेण निरीक्षिते भवति ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनसङ्ग्रामोत्कटवीर्यः क्रूरः संरक्तनेत्रकरचरणः ।भौमगृहे कुजदृष्टे भानौ तेजोबलोपेतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनप्रेष्यः परकर्मरतो मन्दधनः सत्वहीनबहुदुःखः ।भानौ बुधसंदृष्टे कुजभवने मलिनकायश्च ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनभूरिद्रविणो दाता नृपमन्त्री दण्डनायको वाऽपि ।तरणौ सुरगुरुदृष्टे कुजभवने जायते श्रेष्ठः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनकुत्सितरामाभर्त्ता बहुशत्रुः क्षीणबान्धवो दीनः ।भौमगृहे सितदृष्टे दिवाकरे जायते कुष्ठी ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनदुःखपरिप्लुतदेहः कार्योन्मादी भवेद्विमूढमतिः ।भौमर्क्षे दिवसकरे रवितनयनिरीक्षिते मूर्खः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनवदनाक्षिरोगतप्तः क्लेशसहिष्णुर्न चापि बहुशत्रुः ।भक्तो व्यवहाररतो रतिमान्वन्ध्याङ्गनाद्वेषी ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनभोजनमाल्याच्छादनगन्धयुतो गेयवाद्यनृत्तज्ञः ।दिवसकरे वृषसंस्थे भवति पुमान् सलिलभीरुश्च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनवेश्यारतिर्मृदुवचाः बहुयुवतिसमाश्रयो भवति ।दिननाथे सितभवने दृष्टे शशिना सलिलजीवी ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनशूरः सङ्ग्रामरुचिस्तेजस्वी साहसाप्तधनकीर्तिः ।दिननाथे सितभवने कुजसंदृष्टे पुमान् विकलः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनलिपिलेख्यकाव्यपुस्तकगेयादिविधावतीव निपुणमतिः ।दिननाथे सितभवने बुधसंदृष्टे भवेत् सुतनुः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनबहुशत्रुमित्रपक्षो नृपसचिवश्चारुलोचनः कान्तः ।दिननाथे सितभवने गुरुणा दृष्टे सुतोषितो नृपतिः ॥१५॥
  16. श्लोक 16कुंडली के 1 पठननृपतिर्नृपमन्त्री वा स्त्रीधनबहुयोगसंयुतो मतिमान् ।दिननाथे सितभवने सितसंदृष्टे भवेद्भीरुः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठननीचोऽलसो दरिद्रो वृद्धस्त्रीसंगतो विषमशीलः ।दिननाथे सितभवने शनिदृष्टे व्याधिसन्तप्तः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनमेधावी वाङ्मधुरो वात्सल्यगुणैर्युतः श्रुताचारः ।विज्ञानशास्त्रकुशलो बहुवित्त उदारचेष्टश्च ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठननिपुणो ज्योतिषवेत्ता मध्यमरूपो द्विमातृकः सुभगः ।मिथुनस्थे दिनभर्त्तरि जातः पुरुषो विनीतः स्यात् ॥१९॥
  20. श्लोक 20कुंडली के 1 पठनरिपुबान्धवकृतपीडा विदेशगमनार्दितो बहुविलापी ।बुधभवने दिनभर्तरि दृष्टे चन्द्रेण पुरुषः स्यात् ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनरिपुभयकलहसमेतो रणापवादादिदुःखितो दीनः ।बुधराशौ दिनभर्त्तरि कुजेक्षिते भवति सव्रीडः ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनभूपतिचरितः ख्यातो बान्धवसहितोऽरिभिश्च संत्यक्तः ।बुधराशौ दिनभर्तरि बुधदृष्टेऽक्ष्यामययुतः स्यात् ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनबहुशास्त्रदारितमुखो राज्ञां दूतो विदेशगश्चण्डः ।बुधराशौ दिनभर्तरि गुरुणा दृष्टे सदोन्मादः ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनधनदारपुत्रसुखितो मन्दस्नेहस्त्वनामयः सुखितः ।बुधराशौ दिनभर्त्तरि सितसंदृष्टे भवेच्चपलः ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनबहुभृत्योद्विग्नमना बहुबन्धुविपोषणे सदा निरतः ।बुधराशौ दिनभर्तरि सौरेण निरीक्षिते कितवः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनकर्मसु चपलः ख्यातो गुणैर्नृपाणां स्वपक्षविद्वेषी ।स्त्रीदुर्भगः सुरूपः कफपित्तार्तः श्रमाभिसन्तप्तः ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनमद्यरुचिः समधर्मा मानी वरवाक्यदेशदिग्वेत्ता ।सूर्ये कुलीरसंस्थे बहुस्थितिः पितृगणद्वेष्टा ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनराजा राजसमो वा जलपण्यधनस्थिरः क्रूरः ।कर्कटके तीव्रकरे दृष्टे शशिना भवेत्पुरुषः ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनशोर्षभगन्दररोगैः सन्तप्तो बन्धुभिः सह विरक्तः ।कर्कटके दिननाथे भौमेन निरीक्षिते पिशुनः ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनविद्यामानयशोभिः ख्यातो नृपवल्लभो भवेन्निपुणः ।सूर्ये कुलीरराशौ बुधेन दृष्टे विगतशत्रः ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनश्रेष्ठो राज्ञो मन्त्री सेनानाथोऽथ सुप्रसिद्धश्च ।सूर्ये शशिभवनस्थे गुरुणा दृष्टे कलाभ्यधिकः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनस्त्रीसेवी युवतिधनः परकार्यकरो रणे प्रचण्डश्च ।कर्कटकस्थे सूर्ये शुक्रेण निरीक्षिते प्रियालापः ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनकफमारुतरोगार्तः परस्वहारी विलोममतिचेष्टः ।कर्कटकस्थे भानौ स्वपुत्रदृष्टे पुमान् पिशुनः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनरिपुहन्ता क्रोधपरो विशिष्टचेष्टो वनाद्रिदुर्गचरः ।उत्साही सच्छूरस्तेजस्वी मांसभक्षणो रौद्रः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनगम्भीरः स्थिरसत्वो बधिरः क्षितिपालको धनसमृद्धः ।सिंहस्थे दिवसकरे ख्यातः पुरुषो भवेज्जातः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनमेधावी सुकलत्रः कफार्दितो भूपवल्लभो मनुजः ।आदित्ये सिंहस्थे चन्द्रेण निरीक्षिते भवति ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनपरदाररतः शूरः साहसकारी कृतोद्यमो रौद्रः ।दिवसकरे सिंहस्थे कुजेन दृष्टे प्रधानश्च ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनविद्वान् लिपिलेख्यकरः कितवासेवी परिभ्रमतिहीनः ।सिंहस्थे दिवसकरे बुधेन दृष्टे न बहुसत्वः ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनदेवारामतटाकान् करोति सत्वाधिको विजनशीलः ।सिंहे सहस्ररश्मौ सुरगुरुदृष्टे महाबुद्धिः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनदुर्नामकुष्ठरोगैरभिभूतो निर्दयो विगतलज्जः ।सिंहे तिमिरविनाशे शुक्रेण निरीक्षिते जातः ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनकार्यविनाशनदक्षः षण्डो जातः परोपतापकरः ।सिंहस्थे दिवसकरे स्वपुत्रदृष्टे पुमान् भवति ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनस्त्रीतुल्यतनुर्ह्रीमान् लिपिवेत्ता दुर्बलश्च वल्गुकथः ।मेधावी लघुसत्वो विद्वान् शुश्रूषकः सुरगुरूणाम् ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनसंवाहनादिकर्मसु दक्षः श्रुतिगेयवाद्यपरितुष्टः ।कन्यायां दिवसकरे जातो मृदुदीनवाक्यश्च ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनभङ्गक्षयव्ययार्त्तो विदेशमार्गादिलम्पटो द्विष्टः ।नीचोपहतप्रीतिर्हिरण्यलोहादिपण्यजीवी च ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनद्वेष्यः परकर्मरतः परदाररतिः पुमान् भवेन्मलिनः ।सूर्ये तुलाधरस्थे नृपपरिभूतः प्रगल्भश्च ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनअनिवारितरणवेगः श्रुतिधर्मरतो न सत्यवाङ्मूर्खः ।प्रविनष्टदुष्टयुवतिः क्रूरः कुस्त्रीविधेयश्च ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनक्रोधपरोऽसद्वृत्तो लोभिष्ठः कलहवल्लभोऽनृतवाक् ।शस्त्राग्निविषग्रस्तः पितुर्जनन्याश्च दुर्भगः कीटे ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनद्रव्यान्वितो नृपेष्टो जातः प्राज्ञः सुरद्विजानुरतः ।शस्त्रास्त्रहस्तिशिक्षानिपुणो व्यवहारयोग्यश्च ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनपूज्यः सतां प्रशान्तो धनवान् विस्तीर्णपीनचारुतनुः ।बन्धूनां हितकारी सत्वयुतः कार्मुके सूर्ये ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनवाक्बुद्धिविभवपुत्रैः समन्वितो नृपसमो विगतशोकः ।वाक्पतिराशौ तपने दृष्टे चन्द्रेण सुशरीरः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनसंग्रामे लब्धयशाः स्फुटवचनो वित्तसौख्यसम्पन्नः ।सूर्ये वाक्पतिराशौ भौमेन निरीक्षिते चण्डः ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनमधुरवचनो लिपिज्ञः काव्यकलागोष्ठियानधातुज्ञः ।गुरुभे सवितरि दृष्टे बुधेन जनसंमतो भवति ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनविचरति नरेन्द्रभवने नृपतिर्वा वारणाश्वधनयुक्तः ।सुरगुरुगृहे विवस्वति गुरुणा दृष्टे सदा विद्वान् ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनदिव्यस्त्रीभोगयुतः सुगन्धमाल्यादिभिः सहितः ।सुरगुरुभवने भानौ शुक्रेण निरीक्षिते शान्तः ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनअशुचिः परान्नकाङ्क्षी नीचानुरतः चतुष्पदक्रीडः ।देवेज्यगृहे सूर्ये मन्देन निरीक्षिते भवति ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनलुब्धः कुस्त्रीसक्तः कुकर्मसंवर्धितः सतृष्णश्च ।बहुकार्यरतो भीरुर्विहीनबन्धुश्चलप्रकृतिः ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनअटनप्रियोऽल्पसत्वः स्वपक्षविक्षोभनाशितसमस्तः ।मकरस्थे दिवसकरे जातो बहुभक्षकः पुरुषः ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनमायापटुश्चलमतिः स्त्रीसङ्गान्नष्टधनसौख्यः ।मन्दगृहे तीव्रकरे चन्द्रेण निरीक्षिते भवति ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनव्याधिभिररिभिर्ग्रस्तः परकलहात् शस्त्रविक्षतशरीरः ।मन्दगृहे तिमिररिपौ भौमेन निरीक्षिते विकलः ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनशूरः षण्डप्रकृतिः परस्वहारी नसारसर्वाङ्गः ।नलिनीदयिते शनिभे बुधेन संवीक्षिते भवति ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनशोभनकर्मा मतिमान् सर्वेषामाश्रयो विपुलकीर्तिः ।कोणगृहे दिनभर्तरि गुरुणा दृष्टे मनस्वी च ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनशङ्खप्रवालमणिभिर्जीवति वेश्याङ्गनाधनसमृद्धः ।कोणभवने दिनपतौ भृगुणा दृष्टे सुखी जातः ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनध्वंसयति शत्रुपक्षं नरेन्द्रसन्मानवर्द्धिताश्वासः ।भानौ शनैश्चरगृहे शनिदृष्टे सूयते योऽसौ ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनहृद्रोगी बहुसत्वः सतां विगर्ह्योऽतिरोषश्च ।परदाराणां सुभगः कर्मस्विति निश्चितो भवति ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनदुःखप्रायोऽल्पधनः शठश्चलितसौहृदो मलिनमूर्तिः ।कुम्भधरेऽर्के जातः पिशुनः स्यात् दुष्प्रलापश्च ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनसुहृदां संग्रहशीलः स्त्रीप्रीत्या लब्धसौख्यसंभारः ।प्राज्ञो बहुशत्रुघ्नः क्षयोदयी भवति धनकीर्त्या ॥ ६६ ॥
  67. श्लोक 67कुंडली के 1 पठनसत्सुतभृत्याप्तयशा जलपण्यधनः सुवागनृतवादी ।ऊर्जितगुह्यरुगार्तो बहुसहजो मीनसंस्थेऽर्के ॥ ६७ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।