अध्याय 23: चन्द्रचारः

सारावली · Saravali (The Moon in each sign, with aspects)

86 श्लोक

  1. श्लोक 1कुंडली के 1 पठनसौवर्णाङ्गः स्थिरस्वः सहजविरहितः साहसी मानभद्रःकामार्त्तः क्षामजानुः कुनखतनुकचश्चञ्चलो मानवित्तः ।पद्माभैः पाणिपादैर्विततसुतजनो वर्तुलाकारनेत्रःसस्नेहस्तोयभीरुर्व्रणविकृतशिराः स्त्रीजितो मेष इन्दौ ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनअत्युग्रतरो नृपतिः प्रणतानां मार्दवं भजति जातः ।धीरः सङ्ग्रामरुची रविणा दृष्टे शशिनि मेषे ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनदन्ताक्षिरोगतप्तः शिखिवातादिक्षतशरीरः ।माण्डलिकः स्यान्मेषे कुजदृष्टे शशिनि भूतार्तः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठननानाविद्याचार्यः सद्वाक्यः स्यान्मनोभीष्टः ।बुधदृष्टे मेषस्थे निशाकरे सत्कविर्विपुलकीर्तिः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनबहुभृत्यधनसमृद्धो नृपतेः सचिवश्चमूपतिर्वाऽपि ।मेषगृहे हिमरश्मौ दृष्टे गुरुणा पुमान् जातः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनसुभगः सुतधनयुक्तो वरयुवतिविभूषणोऽल्पभोक्ता च ।मेषे शिशिरमयूखे भृगुतनयनिरीक्षिते भवति ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनविद्विष्टो बहुदुःखो दारिद्र्यतनुर्मलीमसोऽनृतवाक् ।मेषे शिशिरमयूखे रवितनयनिरीक्षिते भवति ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनव्यूढोरस्कोऽतिदाता घनकुटिलकचः कामुकः कीर्तिशालीकान्तः कन्याप्रजावान् वृषसमनयनो हंसलीलाप्रचारः ।मध्यान्ते भोगभागी पृथुकटिचरणस्कन्धजान्वास्यजङ्घःसांकः पार्श्वास्यपृष्ठे ककुदि शुभगतिः क्षान्तियुक्तो गवीन्दौ ८
  9. श्लोक 9कुंडली के 1 पठनकर्षकमतिकर्मकरं द्विपदचतुर्ष्पदैः समृद्धं च ।प्रायोगिकं प्रकुरुते वृषभे रविवीक्षितश्चन्द्रः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनअतिकामं कुजदृष्टो युवतिकृते नष्टसारमित्रजनम् ।हृदयहरं नारीणां मातुर्न शुभं शशी वृषे कुरुते ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनप्राज्ञं वाक्यविधिज्ञं प्रमुदितमिष्टं समस्तभूतानाम् ।जनयति बुधेन दृष्टः शशी वृषेऽनुपमगुणैर्युक्तम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनस्थिरपुत्रदारसुहृदं मातापितृभक्तिमन्तमतिनिपुणम् ।धार्मिकमतिविख्यातं गवि गुरुदृष्टः शशी कुरुते ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनभूषणयानगृहाणां शयनासनगन्धवस्त्रमाल्यानाम् ।भागिनमुपभोक्तारं सितेक्षितो यदि शशी कुरुते ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनधनहीनमनिष्टकरं वृषभे द्वेष्यं सदा च युवतीनाम् ।सुतमित्रबन्धुसहितं रविसुतदृष्टः शशी कुरुते ॥ १४ ॥
  15. श्लोक 15पूर्वार्धे सम्भूतो जननीमृत्युं करोति न चिरेण ।पश्चादर्द्धे वृषभे पितुर्वियोगं शशी कुरुते ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनउन्नासश्यामचक्षुः सुरतविधिकलाकाव्यकृद्भोगभोगीहस्ते मत्स्याधिपांको विषयसुखरतो बुद्धिदक्षः सिरालः ।कान्तः सौभाग्यहास्यप्रियवचनयुतः स्त्रीजितो व्यायताङ्गोयाति क्लीबैश्च सख्यं शशिनि मिथुनगे मातृयुग्मप्रपुष्टः॥१६॥
  17. श्लोक 17कुंडली के 1 पठनप्रज्ञाधनं प्रकाशं मिथुने रूपान्वितं सुधर्मिष्ठम् ।अतिदुःखितमल्पार्थं करोति सूर्येक्षितश्चन्द्रः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनअतिशूरमतिप्राज्ञं सुखवाहनविभवरूपसम्पन्नम् ।कुरुते मिथुने चन्द्रो वक्रेण निरीक्षितोऽवश्यम् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनअर्थोत्पादनकुशलं कुरुते ह्यपराजितं सुधीरं च ।पार्थिवमखण्डिताज्ञं मिथुने बुधवीक्षितश्चन्द्रः ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनविद्याशास्त्राचार्यं विख्यातं सत्यवाचमतिरूपम् ।मान्यं वाग्मिनमिन्दुः करोति गुरुवीक्षितो मिथुने ॥ २०॥
  21. श्लोक 21कुंडली के 1 पठनवरयुवतिमाल्यवस्त्रैर्वरवाहनयानभूषणैर्मणिभिः ।क्रीडां कुरुते पुरुषो भृगुदृष्टे शशिनि मिथुनस्थे ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनकुरुते बान्धवरहितं युवतिसुखविभूतिवर्जितं चापि ।अधनं लोकद्वेष्यं जितुमे शनिनेक्षितश्चन्द्रः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनयुक्तः सौभाग्ययोगैर्गृहसुहृदटनज्योतिषज्ञानशीलैःकामासक्तः कृतज्ञः क्षितिपतिसचिवः सत्प्रमाणः प्रवासी ।सोन्मादः केशकल्पो जनकुसुमरुचिर्हानिवृद्ध्यानुयातःप्रासादोद्यानवापीप्रियकरणरतः पीनकण्ठः कुलीरे ॥ २३॥
  24. श्लोक 24कुंडली के 1 पठननरपतिपुरुषमधन्यं धनरहितं क्लेशकारकं वाऽपि ।कुरुते स्वगृहे चन्द्रो रविदृष्टो दुर्गपालं च ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनशूरं विकलशरीरं मातुरनर्थावहं प्रियं दक्षम् ।क्षितितनयवीक्षिततनुर्जनयति चन्द्रो नरं स्वगृहे ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनअविकलमतिं नयज्ञं जनयति बुधवीक्षितः शशी स्वगृहे ।धनदारपुत्रवन्तं नृपसचिवं सौख्यवन्तं च ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठननृपतिं नृपगुणयुक्तं जनयति चन्द्रः सुरेज्यसंदृष्टः ।स्वगृहे सुखितसुभार्यं नयविनयपराक्रमाक्रान्तम् ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनधनकनकवस्त्रयोषिद्रत्नानां भाजनं शशी कुरुते ।कर्कटके सितदृष्टो वेश्याजननायकं कान्तम् ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनअटनमसुखं दरिद्रं मातुरनिष्टं प्रियानृतं पापम् ।शनिना दृष्टः स्वगृहे करोति चन्द्रो नरं नीचम् ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनस्थूलास्थिर्मन्दरोमा पृथुवदनगलो ह्रस्वपिङ्गाक्षियुग्मःस्त्रीद्वेषी क्षुत्पिपासाजठररदरुजा पीडितो मांसभक्षः ।दाता तीक्ष्णो ह्यपुत्रो विपिननगरतिर्मातृवश्यः सुवक्षाःविक्रान्तः कार्यलापी शशभृति रविभे सर्वगम्भीरदृष्टिः॥३०॥
  31. श्लोक 31कुंडली के 1 पठननृपतिसपत्नं कुरुते प्रोत्कृष्टगुणं महास्पदं वीरम् ।रविणा दृष्टः सिंहे पापरतं विश्रुतं चन्द्रः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनसेनापतिं प्रचण्डं नरयुवतिसुतार्थवाहनोपेतम् ।जनयत्युत्तमपुरुषं कुजेक्षितश्चन्द्रमाः सिंहे ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनस्त्रीसत्वं स्त्रीललितं स्त्रीवश्यं युवतिसेवकं सिंहे ।कुरुते बुधेन दृष्टो धनसुखभोगान्वितं चन्द्रः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनअभिजातं कुलपुत्रं बहुश्रुतं गुणसमृद्धं च ।कुरुते नरेन्द्रतुल्यं गुरुदृष्टश्चन्द्रमाः सिंहे ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनप्रमदाविभवैर्युक्तं रोगिणमपि युवतिसेवकं कुरुते ।सुरतविधिज्ञं प्राज्ञं शशी हरौ शुक्रसन्दृष्टः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनकर्षकमधनं कुरुतेऽनृतवाचं दुर्गपालकं सिंहे ।रविजेन तथा दृष्टो युवतिसुखैर्हीनमल्पकं च शशी ॥ ३६॥
  37. श्लोक 37कुंडली के 1 पठनस्त्रीलोलो लम्बबाहुर्ललिततनुमुखश्चारुदन्ताक्षिकर्णोविद्वानाचार्यधर्मा प्रियवचनयुतः सत्यशौचप्रधानः ।धीरः सत्वानुकम्पी परविषयरतः क्षान्तिसौभाग्यभागीकन्याप्रायप्रसूतिर्बहुसुतरहितः कन्यकायां शशाङ्के ॥ ३७॥
  38. श्लोक 38कुंडली के 1 पठननृपकोशकरं ख्यातं गृहीतवाक्यं विशिष्टकर्माणम् ।कन्यायां रविदृष्टो भार्याहीनं शशी कुरुते ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनशिल्पाचार्यं ख्यातं धनवन्तं शिक्षितं सुधीरं च ।कन्यायां कुजदृष्टो मातुरनिष्टं शशी कुरुते ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनज्योतिषकाव्यविधिज्ञं विवादकलहेषु विजयिनं सुतराम् ।सातिशयं कन्यायां जनयति निपुणं बुधेक्षितश्चन्द्रः ॥४०॥
  41. श्लोक 41कुंडली के 1 पठनबन्धुजनाढ्यं सुखिनं नृपकृत्यकरं गृहीतवाक्यं च ।कन्यायां गुरुदृष्टो जनयति विभवान्वितं चन्द्रः ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनकन्यायां बहुदारं विविधालङ्कारभोगिनमथाढ्यम् ।सततमिहोर्जितमुदितं कुरुते भृगुणा निरीक्षितश्चन्द्रः ॥४२॥
  43. श्लोक 43कुंडली के 1 पठनअदृढस्मृतिं दरिद्रं सुखरहितममातृकं युवतिवश्यम् ।कन्यायां यमदृष्टः स्त्रीभोग्यधनं शशी कुरुते ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनउन्नासो व्यायताक्षः कृशवदनतनुर्भूरिदारो वृषाढ्योगोभूम्यः शौचसारो वृषसमवृषणो विक्रमज्ञः क्रियेशः ।भक्तो देवद्विजानां बहुविभवयुतः स्त्रीजितो हीनदेहोधान्यादानैकबुद्धिस्तुलिनि शशधरे बन्धुवर्गोपकारी ॥४४॥
  45. श्लोक 45कुंडली के 1 पठनअधनं व्याधितमटनं परिभूतं भोगविप्रयुक्तं च ।असुतमसारं जूके जनयति रविवीक्षितश्चन्द्रः ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनतीक्ष्णं चोरं क्षुद्रं परयोषिद्गन्धमाल्यसंयुक्तम् ।मतिमन्नयनातुरगं जनयति वक्रेक्षितश्चन्द्रः ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनदृष्टो बुधेन चन्द्रः कलाविदग्धं प्रभूतधनधान्यम् ।शुभवाक्यं विद्वांसं देशख्यातं तुलाधरे कुरुते ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनजीवेक्षितस्तुलायां जनयति सर्वत्र पूजितं हिमगुः ।क्रयविक्रयेषु कुशलं रत्नादिषु भाण्डजातेषु ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनललितमरोगं सुभगं समुपचिताङ्गं धनान्वितं प्राज्ञम् ।विविधोपायविधिज्ञं कुरुते भृगुवीक्षितः शशी तुलके ॥४९॥
  50. श्लोक 50कुंडली के 1 पठनकुरुते शशी धनाढ्यं प्रियवाक्यं वाहनैर्युतं जूके ।विषयरतिं सुखरहितं भास्करिदृष्टो हितं मातुः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनलुब्धो वृत्तोरुजङ्घः कठिनतरतनुर्नास्तिकः क्रूरचेष्टःचोरो बाल्ये रुगार्त्तो हृतचिबुकनखश्चारुनेत्रः समृद्धः ।कर्मोद्युक्तः प्रदक्षः परयुवतिरतो बन्धुहीनः प्रमत्तःचण्डो राज्ञा हृतस्वः पृथुजठरशिराः कीटभे शीतरश्मौ ॥५१॥
  52. श्लोक 52कुंडली के 1 पठनकुरुते लोकद्वेष्यं बुधमटनं च वित्तवन्तं च ।दिनकरदृष्टोऽलिगतश्चन्द्रः सुखवर्जितं पुरुषम् ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनअनुपमधैर्यं कुरुते नृपतिसमं वृश्चिके विभूतियुतम् ।शूरमजय्यं समरे प्रभक्षणं भूमिजेन संदृष्टः ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनअचतुरममृष्टवाक्यं यमलापत्यं च युक्तिमन्तं च ।जनयति बुधेन दृष्टः कूटकरं वृश्चिके च गीतज्ञम् ॥५४॥
  55. श्लोक 55कुंडली के 1 पठनकर्मासक्तं कुरुते लोकद्वेष्यं च वित्तवन्तं च ।गुरुणा दृष्टोऽलिगतो निशाकरो रूपवन्तं च ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनअतिमदमतीव सुभगं धनवाहनभोगललितमिह कीटे ।युवतिविनाशितसारं जनयति भृगुवीक्षितश्चन्द्रः ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठननीचापत्यं कृपणं व्याधितमधनं च सत्यहीनं च ।जनयत्यन्तकदृष्टो नरमधनं चन्द्रमाः कीटे ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनकुब्जाङ्गो वृत्तनेत्रः पृथुहृदयकटिः पीनबाहुः प्रवक्तादीर्घांसो दीर्घकण्ठो जलतटवसतिः शिल्पविद् गूढगुह्यः ।शूरो दृष्टोऽस्थिसारो विततबहुबलः स्थूलकण्ठोष्ठघोणोबन्धुस्नेही कृतज्ञो धनुषि शशिधरे संहताङ्घ्रिः प्रगल्भः ॥५८॥
  59. श्लोक 59कुंडली के 1 पठननृपतिमथाढ्यं कुरुते शूरं विख्यातपौरुषं चापे ।भास्करदृष्टश्चन्द्रस्त्वनुपमसुखवाहनोपेतम् ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनसेनापतिं समृद्धं सुभगं प्रख्यातपौरुषं पुरुषम् ।जनयत्यनुपमभृत्यं क्षितिसुतदृष्टः शशी धनुषि ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनबहुभृत्यं त्वक्सारं ज्योतिषशिल्पक्रियादिनिपुणं च ।बुधदृष्टो हिमरश्मिर्नग्नाचार्यं हये कुरुते ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनअनुपमदेहं कुरुते पृथ्वीपालस्य मन्त्रिणं चापे ।त्रिदशगुरुदृष्टमूर्तिर्धनधर्मसुखान्वितं चन्द्रः ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनसुखिनमतीव हि ललितं सुभगं पुत्रार्थकामवन्तं च ।चापे सुमित्रभार्यं भार्गवदृष्टः करोतीन्दुः ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनप्रियवादिनं सुवाक्यं बहुश्रुतं सत्यवादिनं सौम्यम् ।अभिजातं नृपपुरुषं जनयति सौरेक्षितः शशी धनुषि॥६४॥
  65. श्लोक 65कुंडली के 1 पठनगीतज्ञः शीतभीरुः पृथुलतरशिराः सत्यधर्मोपसेवीप्रांशुः ख्यातोऽल्परोषो मनसि भवयुतो निर्घृणस्त्यक्तलज्जः ।चार्वक्षः क्षामदेहो गुरुयुवतिरतः सत्कविर्वृत्तजङ्घोमन्दोत्साहोऽतिलुब्धः शशिनि मकरगे दीर्घकण्ठोतिकर्णः ६५
  66. श्लोक 66कुंडली के 1 पठनअधनं दुःखितमटनं परकर्मरतं मलीमसं कुरुते ।मकरे कुवलयनाथः शिल्पमतिं वीक्षितो रविणा ॥ ६६ ॥
  67. श्लोक 67कुंडली के 1 पठनअतिविभवमत्युदारं सुभगं धनसंयुतं मृगे पुरुषम् ।वाहनयुतं प्रचण्डं करोति वक्रेक्षितश्चन्द्रः ॥ ६७ ॥
  68. श्लोक 68कुंडली के 1 पठनमूर्खं प्रवासशीलं गतयुवतिं चञ्चलं मृगे तीक्ष्णम् ।जनयति बुधेन दृष्टः सुखरहितं निर्धनं पुरुषम् ॥ ६८ ॥
  69. श्लोक 69कुंडली के 1 पठनभूपतिमनुपमवीर्यं नृपतिगुणैः संयुतं मृगे जातम् ।बहुदारपुत्रमित्रं जनयति गुरुवीक्षितश्चन्द्रः ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठन(प)वरयुवतिधनविभूषणवाहनमालान्वितं नरं मकरे ।सोपक्रोशमपुत्रं जनयति भृगुवीक्षितश्चन्द्रः ॥ ७० ॥
  71. श्लोक 71कुंडली के 1 पठनअलसं मलिनं सधनं मदनार्तं पारदारिकमसत्यम् ।दिवसकरपुत्रदृष्टः करोति चन्द्रो नरं मकरे ॥ ७१ ॥
  72. श्लोक 72कुंडली के 1 पठनउद्घोणो रूक्षदेहः पृथुकरचरणो मद्यपानप्रसक्तःसद्वेष्यो धर्महीनः परसुतजनकः स्थूलमूर्धा कुनेत्रः ।शाठ्यालस्याभिभूतो विपुलमुखकटिः शिल्पविद्यासमेतोदुःशीलो दुःखतप्तो घटभमुपगते रात्रिनाथे दरिद्रः ॥७२॥
  73. श्लोक 73कुंडली के 1 पठनअतिमलिनमतिच शूरं नृपरूपं धार्मिकं कृषिकरं च ।कुरुते दिनकरदृष्टो घटधरसंस्थः क्षपानाथः ॥ ७३ ॥
  74. श्लोक 74कुंडली के 1 पठनकुम्भेऽतिसत्यवाक्यं मातृगुरुधनैर्वियुक्तमलसं च ।विषमं परकार्यरतं करोति भौमेक्षितश्चन्द्रः ॥ ७४ ॥
  75. श्लोक 75कुंडली के 1 पठनशयनोपचारकुशलं गीतविधिज्ञं प्रियं च युवतीनाम् ।तनुविभवसुखं पुरुषं करोति बुधवीक्षितः शशी कुम्भे॥७५॥
  76. श्लोक 76कुंडली के 1 पठनग्रामक्षेत्रतरूणां वरभवनानां वराङ्गनानां च ।कुरुते भोगिनमार्यं साधुं गुरुवीक्षितः शशी कुम्भे ॥ ७६ ॥
  77. श्लोक 77कुंडली के 1 पठननीचमपुत्रममित्रं कातरमाचार्यनिन्दितं पापम् ।कुरुते शशी कुयुवतिं सितेक्षितो घटधरेऽल्पसुखम् ॥७७॥
  78. श्लोक 78कुंडली के 1 पठननखरोमधरं मलिनं परदाररतं शठं विधर्माणम् ।स्थावरभागिनमाढ्यं शशी घटे सौरसंदृष्टः ॥ ७८ ॥
  79. श्लोक 79कुंडली के 1 पठनशिल्पोत्पन्नाधिकारो हितजयनिपुणः शास्त्रविच्चारुदेहोगेयज्ञो धर्मनिष्ठो बहुयुवतिरतः सौख्यभाक् भूपसेवी ।ईषत्कोपो महत्कः सुखनिधिधनभाक् स्त्रीजितः सत्स्वभावोथानासक्तः समुद्रे तिमियुगलगते शीतगौ दानशीलः ॥७९॥
  80. श्लोक 80कुंडली के 1 पठनतीव्रमदनं प्रकाशं सुखिनं सेनापतिं धनसमृद्धम् ।जनयति दिनकरदृष्टः सुमुदितभार्यं शशी मीने ॥ ८० ॥
  81. श्लोक 81कुंडली के 1 पठनपरिभूतं सुखरहितं कुलटापुत्रं च पापनिरतं च ।जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषे शूरम् ॥ ८१ ॥
  82. श्लोक 82कुंडली के 1 पठनजनयति बुधेन दृष्टो मीनस्थश्चन्द्रमाः पुरुषम् ।भूपतिमतीव सुखिनं वरयुवतिसमावृतं वश्यम् ॥ ८२ ॥
  83. श्लोक 83कुंडली के 1 पठनगुरुदृष्टो मीनस्थो ललितं चन्द्रोऽग्रमाण्डलिकम् ।अत्याढ्यं सुकुमारं बहुभिः स्त्रीभिर्वृतं जनयेत् ॥ ८३ ॥
  84. श्लोक 84कुंडली के 1 पठनकुरुते शशी सुशीलं रतिमन्तं नृत्यवाद्यगेयरतम् ।शुक्रेक्षितो झषस्थो हृदयहरं कामिनीनां च ॥ ८४ ॥
  85. श्लोक 85कुंडली के 1 पठनविकलमहितं जनन्याः कामार्तं पुत्रदारमतिहीनम् ।कुरुते रविसुतदृष्टो नीचविरूपाङ्गनासक्तम् ॥ ८५ ॥
  86. श्लोक 86कुंडली के 1 पठनराशिपतौ बलयुक्ते राशौ च बलान्विते तथा चन्द्रे ।राशिफलं स्यात् सकलं नीचोच्चविधिना च संचिन्त्यम् ८६

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।