अध्याय 24: अंशकदर्शने चन्द्रचारः
सारावली · Saravali (The Moon in navamshas, with aspects)
24 श्लोक
- श्लोक 1कुंडली के 2 पठनभौमेंशे कुजदृष्टो निकर्त्तनश्चन्द्रमाः प्रचण्डश्च ।जनयति मायाबहुलं प्रवञ्चकं सूर्यजेन किल पुरुषम् ॥ १ ॥
- श्लोक 2कुंडली के 2 पठनसूर्येण चोरघातकमथवाप्यारक्षकं शूरम् ।जीवेन मनुजनाथं ख्यातं विद्वत्समाराध्यम् ॥ २ ॥
- श्लोक 3कुंडली के 2 पठनशुक्रेण नृपतिसचिवं धनान्वितं स्त्रीविलेपनानुरतम् ।शीघ्रं वदन्ति चपलं सौम्येन निरीक्षिते चन्द्रे ॥ ३ ॥
- श्लोक 4कुंडली के 2 पठनसितभागे सितदृष्टे योषिद्वस्त्रान्नपानधनसौख्यम् ।जनयति बुधेन चन्द्रो वाद्यज्ञं नृत्तगेयपरम् ॥ ४ ॥
- श्लोक 5कुंडली के 2 पठनगुरुणा कविप्रधानं नयशास्त्रविशारदं नृपसचिवम् ।परदारदर्शनपरं कामिनमारेण बहुभृत्यम् ॥ ५ ॥
- श्लोक 6कुंडली के 2 पठनसूर्येण महामूर्खं प्रियंवदं सततमन्नपानरुचिम् ।सौरेण वर्धकीनां गुणैश्च सदृशं दिशति चन्द्रः ॥ ६ ॥
- श्लोक 7कुंडली के 2 पठनबुधभागे बुधदृष्टः शिल्पाचार्यं कविं शशी जनयेत् ।शुक्रेक्षितो विशालं गेयज्ञं वचनसाराढ्यम् ॥ ७ ॥
- श्लोक 8कुंडली के 2 पठननृपमन्त्रिणं गुणाढ्यं गुरुणा दृष्टः प्रतिष्ठितं कान्तम् ।भौमेक्षितोऽतिचोरं विवादकुशलं नरं रौद्रम् ॥ ८ ॥
- श्लोक 9कुंडली के 2 पठनशास्त्रार्थकाव्यबुद्धिं प्राज्ञं शिल्पिनमवेक्षितः शशिना ।रङ्गचरं विख्यातं जनयति सूर्येक्षितश्चन्द्रः ॥ ९ ॥
- श्लोक 10कुंडली के 2 पठनस्वांशे दिनकरदृष्टः शशीकृशतनुमविक्षतशरीरम् ।परधनरक्षणनिपुणं लुब्धं नितरां कुजेनापि ॥ १० ॥
- श्लोक 11कुंडली के 2 पठनसौरेणाकृत्यकरं वधबन्धविवादसन्तप्तम् ।शुक्रेण स्त्रीद्वेष्यं जनयेदथवा नपुंसकाकारम् ॥ ११ ॥
- श्लोक 12कुंडली के 2 पठननृपमन्त्रिणं नृपं वा जनयति गुरुणावलोकितश्चन्द्रः ।सौम्येनाधर्मरतं निद्राबहुलं च सततमध्वरतम् ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठनरविभागे रविदृष्टे सुरोषणः समुपलब्धकीर्तिधनः ।पापो निर्दय इन्दौ सौरेण प्राणिनां हन्ता ॥ १३ ॥
- श्लोक 14कुंडली के 2 पठनभौमेन सुवर्णधनं ख्यातं नृपसत्कृतं प्रचण्डतरम् ।गुरुणा दृष्टो जनयति चमूपतिं वानरेन्द्रं वा ॥ १४ ॥
- श्लोक 15कुंडली के 2 पठनशुक्रेण दृष्टमूर्तिः सुतार्थिनं मृतसुतं वाऽपि ।सौम्येन दैवचिन्तकमितिहासरतं च निधिभाजम् ॥ १५ ॥
- श्लोक 16कुंडली के 2 पठनगुरुभागे गुरुदृष्टो विशदं नृपवल्लभं विपुलकीर्तिम् ।जनयति शशी सितेन स्त्रीणां भोगैः सुसंयुक्तम् ॥ १६ ॥
- श्लोक 17कुंडली के 2 पठनबुधदृष्टो हास्यकरं नृपप्रियं नायकं वरूथिन्याः ।अस्त्राचार्यं कुरुते कुजेक्षितः सर्वतः ख्यातम् ॥ १७ ॥
- श्लोक 18कुंडली के 2 पठनदोषैर्विविधैः ख्यातं दिनकरदृष्टो नरं प्रमाणस्थम् ।सौरेण वृद्धशीलं बलिभिश्च निराकृतं नीचम् ॥ १८ ॥
- श्लोक 19कुंडली के 2 पठनसौरांशे शनिदृष्टः कृपणं रोगान्वितं मृतसुतं वा ।सूर्येणाल्पापत्यं व्याधिग्रस्तं विरूपतनुम् ॥ १९ ॥
- श्लोक 20कुंडली के 2 पठनभौमेन नरपतिसमं स्वाढ्यं स्त्रीदुर्भगं सुखैर्युक्तम् ।शुक्रेण विषमशीलं युवतिभिरवधीरितं धीरम् ॥ २० ॥
- श्लोक 21कुंडली के 2 पठनसौम्येन पापनिरतं कुत्सितचरितं शशी सदा दृष्टः ।गुरुणा स्वकर्मनिरतं कुरुते पुरुषं न चोदात्तम् ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनवर्गोत्तमे स्वकीये परकीयनवांशके च दृष्टिफलम् ।पुष्टं मध्यं स्वल्पं विपरीतं स्यादनिष्टफलम् ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनराशिफलं यद् दृष्टं पूर्वैः कथितं ग्रहैः शशाङ्कस्य ।तस्य निरोधो दृष्टो यद्यंशपतिर्बली भवति ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनअंशपतेश्चन्द्रस्य च फलं विनिश्चित्य दर्शनकृतानि ।कथितानि यवनवृद्धाः फलानि सम्यग्व्यवस्यन्ति ॥ २४ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।