अध्याय 25: अङ्गारकचारः

सारावली · Saravali (Mars in each sign, with aspects)

66 श्लोक

  1. श्लोक 1कुंडली के 1 पठनतेजस्वी सत्ययुतः शूरः क्षितिपोऽथवा रणश्लाघी ।साहसकर्माभिरतश्चमूपुरग्रामवृन्दपतिः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनराभसिको दानरतः प्रभूतगोऽजाविधान्यकरः ।भौमे क्रिये प्रचण्डो बहुयुवतिरतो भवेत्पुरुषः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसाध्वीव्रतभङ्गकरः प्रभाषणो मन्दधनपुत्रः ।द्वेष्यो बहुभरणपरो विस्रम्भस्थितिविहीनश्च ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनप्रोद्धतवेषक्रीडो बहुदुष्टवचाः कुजे वृषभसंस्थे ।सङ्गीतरतः पापो बन्धुविरुद्धः कुलोत्सादी ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनकान्तः क्लेशसहिष्णुर्बहुश्रुतः काव्यविधिनिपुणः ।नानाशिल्पकलासु च निपुणो बहुशो विदेशगमनरतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनधर्मपरो निपुणमतिर्हितानुकूलः सुतेषु सुहृदां च ।मिथुनस्थे क्षितिपुत्रे भवति प्रचुरक्रियासु रतः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनपरगृहनिवासशीलो वैकल्यरुगार्दितः कृषिधनश्च ।बाल्ये च राजभोजनवस्त्रेप्सुः परगृहान्नाशी ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनसलिलाशयतो धनवान् पुनः पुनर्वृद्धिवेदनार्तश्च ।कर्कटके क्षितितनये भवति मृदुः सर्वतो दीनः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनअसहः प्रचण्डशूरः परस्वसन्तानसङ्ग्रहणशीलः ।अटवीनिवासगोकुलमांसरुचिः स्यान्मृतप्रथमदारः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनव्यालमृगोरगहन्ता न पुत्रवान् धर्मफलहीनः ।भौमे हरौ सुसत्वः क्रियोद्यतः स्याद्वपुष्मांश्च ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनपूज्यः सतामतिधनो रतिगीतधनो मृदुप्रियाभाषी ।विविधव्ययोऽल्पशौर्यो विद्वान् भवति प्रणीतपार्श्वश्च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनअहितेभ्योऽर्जनभीरुर्वेदस्मृतिधर्मवान् सुबहुशिल्पः ।कन्यायां भूतनये स्नानविलेपनरतः कान्तः ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनअध्वनिरतः सुपुण्यप्रसक्तवाक्यो विकत्थनः सुभगः ।हीनाङ्गः स्वल्पजनः सङ्ग्रामेप्सुः परोपभोगी च ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनयोषिद्गुरुमित्राणां मनोरमो नष्टपूर्वदारश्च ।शौण्डिकवेश्यानिकटे सम्प्राप्तधनक्षयस्तुलिनि भौमे ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनव्यापारश्रुतिसत्यश्चोरसमूहाधिपः क्रियानिपुणः ।युद्धोत्सुकोऽतिपापो बह्वपराधी च वैरशठः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनद्रोहवधाहितबुद्धिः प्रसूचको भूमिपुत्रयुवतीशः ।वृश्चिकगे भूपुत्रे विषाग्निशस्त्रव्रणैस्तप्तः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनबहुभिः क्षतैः कृशाङ्गो निष्ठुरवाक्यः शठः पराधीनः ।रथगजपदातियोधी रथेन शरधारकोऽथ परसैन्ये ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनविपुलश्रमैश्च सुखितः परस्परं क्रोधनष्टसुखवित्तः ।कार्मुकसंस्थे वक्रे गुरुष्वसक्तः पुमान् भवति ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनधन्यो वित्ताहर्ता सुखभोगसमन्वितो भवति सुस्थः ।श्रेष्ठमतिः प्रख्यातः सेनानाथो नरेन्द्रो वा ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनसद्यःप्रतिरणविजयी स्वबन्धुविषयस्थितः स्वतन्त्रश्च ।आरक्षकः सुशीलः कुजे स्वतुङ्गे बहूपचाररतः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनप्रश्रयशौचविहीनो वृद्धाकारः सुदुर्गतिर्मरणे ।मात्सर्यासूयानृतवाग्दोषैरपहृतार्थश्च ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनरोमशगात्रो विकृतो द्यूताद्याहृतधनः कुवेषधरः ।दुःखसमाहृतवृत्तिः पानरुचिर्दुर्भगः कुजे कुंभे ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनरोगार्तो मन्दसुतः प्रवासशीलः स्वबन्धुपरिभूतः ।मायावञ्चनदोषैर्हृतसर्वस्वो विषादी च ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनजिह्मोऽतितीक्ष्णशोको गुरुद्विजावज्ञकः सदा हीनः ।ईप्सितवेत्ता ज्ञाता स्तुतिप्रियोऽन्त्ये कुजे ख्यातः ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनधनदारपुत्रवन्तं नृपसचिवं दण्डनायकं ख्यातम् ।नृपतिमुदारं कुरुते दिनेश्वरनिरीक्षितः कुजः स्वर्क्षे ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनमातृरहितं क्षताङ्गं स्वजनद्वेष्यं च मित्ररहितं च ।स्वगृहेऽसृक् शशिदृष्टः सेर्ष्यं कन्याप्रियं कुरुते ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनपरधनहरणे निपुणं चानृतकं कामदेवभक्तं च ।कुरुते स्वभे ज्ञदृष्टो द्वेष्यं वेश्यापतिं भौमः ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनप्राज्ञं मधुरं सुभगं मातृपितृवल्लभं धनसमृद्धम् ।अनुपममीश्वरमाढ्यं त्रिदशगुरुनिरीक्षितोऽवनेः पुत्रः ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनस्वगृहेऽसृक् सितदृष्टः स्त्रीहेतोर्बन्धभागिनं कुरुते ।असकृत् सकृच्च विभवं स्त्रीहेतोरार्जितं चापि ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनचोरविघाते शूरं निर्वीर्यं स्वजनपरिहीनम् ।अन्यस्त्रीभर्तारं जनयति सौरेक्षितः स्वभे भौमः ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनवनपर्वतेषु रमते रामाद्विष्टो भवेद्बहुविपक्षः ।सितभे रविणा दृष्टे प्रचण्डवेषः कुजे धीरः ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनमातुरपथ्यो विषमो बहुयुवतीनां पतिः प्रियस्तासाम् ।शुक्रगृहे शशिदृष्टे रणभीरुर्जायते भौमे ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनकलहप्रियो मृदुवचा मृदुकायो मन्दपुत्रधनः ।सितभे भवति च भौमे बुधदृष्टे शास्त्रवित्पुरुषः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनवादितगीतविधिज्ञः सौभाग्ययुतः स्वबन्धुदयितश्च ।शुक्रभवने क्षितिसुते दृष्टे गुरुणा भवेत् स्फीतः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठननृपमन्त्री नृपदयितः सेनानाथः प्रसिद्धनामा च ।शुक्रगृहे भवति कुजे शुक्रेण निरीक्षिते सुखितः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनसुखभाक् ख्यातो धनवान् मित्रस्वजनैर्युतः कुजे विद्वान् ।श्रेणिपुरग्रामाणामधिपः सितभे च शनिदृष्टे ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनविद्याधनशौर्ययुतं गिरिवनदुर्गप्रियं महासत्वम् ।बुधभवने रक्ताङ्गो जनयति दृष्टः सदा रविणा ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनकन्यापुररक्षकरं युवतिपतिं सद्विनीतमतिसुभगम् ।ज्ञगृहे नृपगृहपालं जनयति चन्द्रेक्षितो भौमः ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनलिपिगणितकाव्यकुशलं बहुभाषिणमनृतमधुरवाक्यं च ।दूतं बहुदुःखसहं जनयति वक्रो बुधेक्षितो ज्ञर्क्षे ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनराजपुरुषं प्रकाशं दौत्येन विदेशगं नरं कुरुते ।सर्वक्रियासु कुशलं बुधराशौ नायकं च गुरुदृष्टः ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनशुक्रेण दृश्यमानः स्त्रीकृत्यकरं समृद्धसुभगं च ।बुधभवने रक्ताङ्गः कुरुते वस्त्रान्नभोक्तारम् ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनआकरगिरिदुर्गरतं कर्षकमतिदुःखभागिनं कुरुते ।अतिशूरमति च मलिनं यमेक्षितो बुधगृहे विभवहीनम् ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनपित्तरुगर्दितदेहस्तेजस्वी दण्डनायको धीरः ।चन्द्रगृहस्थे भौमे दिनकरदृष्टे भवेत्पुरुषः ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनबहुभिर्व्याधिभिरार्तो नीचाचारो विरूपदेहश्च ।शशिराशौ भूतनये शशिना दृष्टे सशोकश्च ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनमलिनः पापाचारः क्षुद्रकुटुम्बो बहिष्कृतः स्वजनैः ।कर्कटके बुधदृष्टे क्षितितनये भवति निर्लज्जः ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनविख्यातो नृपमन्त्री विद्वांस्त्यागान्वितो भवेद्धन्यः ।गुरुदृष्टे शशिभवने भोगैश्च विवर्जितो वक्रे ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनस्त्रीसङ्गादुद्विग्नः परिभूतस्त्रीकृतैस्तथा दोषैः ।कर्कटके क्षितिपुत्रे सितदृष्टे स्याद्विपन्नधनः ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनजलसंयानो विधनः क्षितिपालसमानललितचेष्टश्च ।शशिगृहसंस्थे भौमे यमेक्षिते स्यात् सदा कान्तः ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनप्रणतानां हितकारी मित्रैः स्वजनैश्च संयुतश्चण्डः ।गोकुलवनाद्रिचारी सिंहे भौमे तरणिदृष्टे ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनमातुर्न शुभो मतिमान् कठिनशरीरो विपुलकीर्त्तिः ।केसरिभवने भौमे शशिना दृष्टेऽङ्गनाप्रार्थ्यः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनबहुशिल्पज्ञो लुब्धः काव्यकलालम्पटो विषमशीलः ।पञ्चमभवने भौमे बुधेन दृष्टेऽतिनिपुणश्च ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनभूपतिसमीपवर्ती विद्याचार्यो विशुद्धबुद्धिश्च ।अवनिसुते सिंहस्थे गुरुणा दृष्टे चमूनाथः ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनविविधस्त्रीभोगयुतः स्त्रीसुभगो नित्ययौवनो हृष्टः ।लेयगृहे रक्ताङ्गे सितेन दृष्टे भवेज्जातः ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनवृद्धाकारो निस्वः परवेश्मभ्रमणशीलवान् दुःखी ।दिनकरराशौ रुधिरे दिनकरतनयेन संदृष्टे ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनलोकनमस्यं सुभगं वनगिरिदुर्गेषु लब्धगृहवासम् ।सुरगुरुभवने भौमः करोति रविणेक्षितः क्रूरम् ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनविकलं कलहप्रायं प्राज्ञं रुधिरः करोति शशिदृष्टः ।विद्वांसं गुरुभवने नृपतिविरुद्धं सदा पुरुषम् ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनमेधाविनं सुनिपुणं शिल्पाचार्यं बुधेन संदृष्टः ।गुरुभवने क्षितितनयः करोति विद्वांसमत्यन्तम् ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनअकलत्रं सुखरहितं रिपुभिरधृष्यं च वित्तवन्तं च ।गुरुभवने गुरुदृष्टो व्यायामपरं कुजः कुरुते ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनकन्यानामतिदयितं चित्रालङ्कारभागिनमुदारम् ।विषयपरमतिच सुभगं गुरुभे काव्येक्षितः कुजः कुरुते ॥५९
  60. श्लोक 60कुंडली के 1 पठनगुरुभेऽसृक् शनिदृष्टः कुशरीरमुदारमाहवे पापम् ।अटनं सुखलवरहितं परधर्मरतं कुजः कुरुते ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनअतिकृष्णतनुं शूरं योषिदपत्यार्थविस्तरैर्युक्तम् ।सूर्येक्षितोऽतितीक्ष्णः सौरगृहे भूमिजः कुरुते ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनचपलमहितं जनन्या यमभेऽलङ्कारभागिनमुदारम् ।अस्थिरसौहृदमाढ्यं जनयति चन्द्रेक्षितो वक्रः ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनअतिमधुरगमनमधनं रवितनयगृहे न निर्वृतमसत्वम् ।कापटिकमधर्मपरं जनयति बुधवीक्षितो भौमः ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनअविरूपं मन्दगृहे नृपतिगुणसमन्वितं स्थिरारम्भम् ।दीर्घायुषं क्षमाजो गुरुसंदृष्टः करोति बन्ध्वाप्तम् ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनविविधोपभोगमाढ्यं शनिभे स्त्रीपोषणानुरतमेव ।शुक्रेण दृश्यमानो जनयति कलहप्रियं वक्रः ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठननृपतिमतिवित्तवन्तं युवतिद्वेष्यं बहुप्रजं प्राज्ञम् ।सुखरहितं रणशौण्डं करोति शनिभे शनीक्षितो भौमः ॥ ६६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।