अध्याय 26: बुधचारः

सारावली · Saravali (Mercury in each sign, with aspects)

66 श्लोक

  1. श्लोक 1कुंडली के 1 पठनप्रियविग्रहस्तुवेत्ताचार्यो विटधूर्त्तचेष्टकृशगात्रः ।सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनकूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः ।बह्वृणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनदक्षः प्रगल्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः ।व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनस्फीतधनस्त्रीसहितः प्रियवल्गुकथो गृहीतवाक्यश्च ।गान्धर्वहास्यशीलो रतिलोलो वैबुधे वृषभे ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनशुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी ।प्रोज्झितसुखकोल्परतिर्द्विस्त्रीपुत्रो विवादरतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनश्रुतिकल्पकलाभिज्ञः कविः स्वतन्त्रः प्रियः प्रदानरतः ।कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनप्राज्ञो विदेशनिरतः स्त्रीरतिगेयादिसक्तचित्तश्च ।चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनस्त्रीवैरान्नष्टधनः कुत्सितशीलो बहुक्रियाभिरतः ।सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनज्ञानकलापरिहीनो लोकख्यातो नसत्यवाक्यश्च ।अल्पस्मृतिश्च धनवान् सत्वविहीनः सहजहन्ता ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनस्त्रीदुर्भगः स्वतन्त्रो जघन्यकर्मा बुधे भवति पुरुषः ।प्रेष्योऽप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनधर्मप्रियोऽतिवाग्मी चतुरः स्याल्लेख्यकाव्यज्ञः ।विज्ञानशिल्पनिरतो मधुरस्त्रीष्वल्पवीर्यश्च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनज्येष्ठः पूज्यः सुहृदां नानाविनयोपचारवादरतः ।ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनशिल्पविवादाभिरतो वाक्चतुरोर्थार्थमीप्सितव्ययकृत् ।नानादिक्पण्यरतिर्विप्रातिथिदेवगुरुभक्तः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनकृतकोपचारकुशलः सुसम्मतो देवभक्तश्च ।सप्तमभवने शशिजे शठश्चलक्षिप्रकोपपरितोषः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनश्रमशोकानर्थपरः सद्द्वेष्योऽत्यन्तधर्मलज्जश्च ।मूर्खो न साधुशीलो लुब्धो दुष्टाङ्गनारमणः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनपारुष्यदण्डनिरतः छलकृद्विद्विष्टकर्मसु निरुद्धः ।ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनविख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमधिगतः ।मन्त्री पुरोहितो वा कुलप्रधानो महापुरुषः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनयज्ञाध्यापननिरतो मेधावी वाक्पटुर्व्रती दाता ।लिपिलेख्यदानकुशलः कार्मुकसंस्थे बुधे जातः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठननीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः ।नानादुःखपरीतः स्वप्नविहारादिशीलश्च ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनपिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोत्यसंस्थितात्मा च ।मलिनो भयसञ्चलितो दिष्टो मकरे बुधे पुरुषः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनवाग्बुद्धिकर्मनिरतः प्रकीर्णधर्मार्थवर्जविहितार्थः ।परपरिभूतो न शुचिः शीलविहीनस्तथाऽज्ञश्च ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनअतिदुष्टदारशत्रुर्भोगैस्त्यक्तो घटे विवाग्भवति ।अतिदुर्भगोऽतिभीरुः क्लीबो मलिनो विधेयश्च ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनआचारशौचनिरतो देशान्तरगोऽप्रजो दरिद्रश्च ।शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनसूच्यादिकर्मकुशलो विज्ञानश्रुतिकलावियुक्तश्च ।परधनसञ्चयदक्षो मीने शशिजेऽधनः प्रकीर्णश्च ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनसत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम् ।कुरुते बुधोऽर्कदृष्टो बन्धुजने सुक्षमं कुजभे ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनरजनीकरेण दृष्टो युवतिजनमनोहरं क्षितिजराशौ ।अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनअनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे ।जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्लभं शूरम् ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनसुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च ।जीवेक्षितोऽतिधनिनं जनयत्याज्ञापकं पापम् ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठननृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम् ।प्रत्ययिकं सितदृष्टः कुजभे स्त्रीसंयुतं शशिजः ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनरुधिरगृहे शनिदृष्टो हिमकिरणसुतोऽतिदुःखितं जनयेत् ।उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम् ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनदारिद्र्यदुःखतप्तं व्याधितदेहं परोपचाररतम् ।दिनकरदृष्टः सौम्यः कुरुते जनधिक्कृतं सितभे ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनप्रत्ययितं धनवन्तं दृढभक्तिमरोगिणं दृढकुटुम्बम् ।ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनव्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम् ।जनयति बुधोऽसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनप्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम् ।त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनसुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे ।हृदयहरं कन्यानां कुरुते शुक्रेक्षितः सौम्यः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनशुक्रगृहेऽर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम् ।व्याधितमनर्थबहुलं सौम्यः कुरुते नरं मलिनम् ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनअवितथकथनं मधुरं नृपवल्लभमीश्वरं ललितचेष्टम् ।दयितं करोति लोके रविणा दृष्टो बुधः स्वगृहे ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनसुमधुरमतिवाचाटं कलहरतं शास्त्रवत्सलं सुदृढम् ।जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनविक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभृत्यं च ।वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनपार्थिवमन्त्रिणमग्र्यं प्रतिरूपमुदारविभवपरिवारम् ।यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनप्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः ।स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम् ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनसततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम् ।सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनरजकं मालाकारं ग्रहवास्तुज्ञं तथा च मणिकारम् ।जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनयुवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम् ।कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनस्वल्पश्रुतमतिमुखरं प्रियानृतं कूटकारिणं चोरम् ।वक्रेक्षितः शशिगृहे कुरुते सौम्यः प्रियालापम् ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनमेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम् ।गुरुणा दृष्टः शशिभे विद्यानां पारगं बुधः कुरुते ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनकन्दर्पसदृशरूपं प्रियंवदं गीतवादनविधिज्ञम् ।सुभगं शशिभे ललितं कुरुते शुक्रेक्षितः सौम्यः ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनदम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः ।द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभे ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनसेव्यं दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते ।हिंस्रं क्षुद्रं सिंहे चञ्चलभाग्यं विगतलज्जम् ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनरूपान्वितमतिचतुरं काव्यकलागेयनृत्तरतिमिनभे ।धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनज्ञो नीचं रविभवने दुःखार्तं विक्षताङ्गसमरूपम् ।अचतुरलीलाकान्तं नपुंसकं भौमसन्दृष्टः ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनसुकुमारमतिप्राज्ञं रविभे वागीश्वरं त्वतिख्यातम् ।परिचारवाहनयुतं कुरुते गुरुवीक्षितः सौम्यः ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनअतिशयरूपं ललितं प्रियंवदं वाहनाढ्यमतिधीरम् ।जनयति सितेन दृष्टो मन्त्रिणमथ पार्थिवं सिंहे ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनव्यायतगात्रं रूक्षं सुविरूपं स्वेदनोग्रगन्धं च ।अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनशूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम् ।जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम् ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनलेखकमतिसुकुमारं प्रत्ययितं संमतं गुरुगृहस्थः ।सुखभागिनमत्याढ्यं कुरुते चन्द्रेक्षितः सौम्यः ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनश्रेणीभृतिनगराणां चोराणां विपिनवासिनां चापि ।कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनस्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्यविज्ञानम् ।नृपमन्त्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनकन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते ।गुरुभे भृगुसुतदृष्टः सुकुमारं शौर्यसंयुतं शशिजः ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनदुर्गारण्याभिरतं बह्वशनं दुष्टशीलमतिमलिनम् ।कुरुते रविसुतदृष्टो बुधो नरं सर्वकार्यविभ्रष्टम् ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनमल्लमतिसारयुक्तं बहुभक्षं निष्ठुरं प्रियालापम् ।जनयति रविणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनजलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा ।भीरुस्वरूपमचरं शनिभे चन्द्रेक्षितः कुरुते ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनवाक्चपलमतिसुसौम्यं व्रीडालसमन्थरं सुखाधारम् ।कुरुते भूसुतदृष्टो रवितनयगृहे बुधः पुरुषम् ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनबहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम् ।कुरुते गुरुणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठननीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च ।अतिसुतजननं कुरुते भार्गवदृष्टो बुधः शनिभे ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनपापकरं सुदरिद्रं कर्मकरं चातिदुःखितं दीनम् ।कुरुते शनिना दृष्टः सौरगृहे बोधनः पुरुषम् ॥ ६६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।