अध्याय 27: गुरुचारः
सारावली · Saravali (Jupiter in each sign, with aspects)
66 श्लोक
- श्लोक 1कुंडली के 1 पठनवादिगुणैः सम्पन्नः प्रयत्नरत्नाभरणसंसर्गः ।सत्वात्मजार्थबलयुक् प्रगल्भविख्यातकर्मा च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनओजस्वी बहुशत्रुः बहुव्ययार्थः क्षताङ्कितशरीरः ।चण्डोग्रदण्डनाथो जीवे क्रियगे भवेत्पुरुषः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनपीनो विशालदेहः सुरद्विजगवां च भक्तिमान् कान्तः ।सुभगः स्वदारनिरतः सुवेषकृषिगोधनाढ्यश्च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनसद्वस्तुभूषणयुतो विशिष्टवाङ्मतिगुणो नयज्ञश्च ।वृषभे गुरौ विनीतो भिषक् प्रयोगाप्तकौशलकः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनआहितधनः सुमेधाः विज्ञानविशारदः सुनयनश्च ।वाग्मी दाक्षिण्ययुतो निपुणः स्याद्धर्मशीलश्च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनमान्यो गुरुबन्धूनां मण्डनमाङ्गल्यलब्धवरशब्दः ।मिथुनस्थे देवगुरौ क्रियारतिः सत्कविश्चैव ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनविद्वान् सुरूपदेहः प्राज्ञः प्रियधर्मसत्स्वभावश्च ।सुमहद्बलो यशस्वी प्रभूतधान्याकरधनेशः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसत्यसमाधिसुयुक्तः स्थिरात्मजो लोकसत्कृतः ख्यातः ।नृपतिर्जीवे शशिभे विशिष्टकर्मा सुहृज्जनानुरतः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनदृढवैरसत्वधीरः सुबहुस्नेहसुहृज्जने विद्वान् ।आढ्यः शिष्टाभिजनो नृपो नृपतिपौरुषः सभालक्ष्यः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनत्रिदशगुरौ सिंहस्थे समस्तरोषोद्धृतारिपक्षश्च ।सुदृढव्यस्तशरीरो गिरिदुर्गवनालये जातः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनमेधावी धर्मपरः क्रियापटुर्धर्मवान्युवतिराशौ ।प्रियगन्धपुष्पवस्त्रः कृत्येषु विनिश्चितार्थश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनशास्त्रार्थशिल्पकार्यैर्धनवान् दाता विशुद्धशीलश्च ।स्याद्देवगुरौ निपुणः चित्राक्षरविद्धनसमृद्धः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनमेधावी बहुपुत्रो विदेशचर्यागतः प्रभूतधनः ।भाषाप्रियो विनीतो नटनर्त्तकसंगृहीतधनः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनकान्तः श्रुताभिनिरतो महत्तरः सार्थवाहवणिजां हि ।वणिजीन्द्रमन्त्रिणि गते सुरातिथीज्यारतः प्राज्ञः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनबहुशास्त्राणां कुशलो नृपतिर्बहुभाष्यकारको निपुणः ।देवालयपुरकर्ता सद्बहुदारोऽल्पपुत्रश्च ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनव्याध्यार्तश्रमबहुलः प्रसक्तदोषो गुरौ भवत्यलिनि ।दम्भेन धर्मनिरतो जुगुप्सिताचारनिरतश्च ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनआचार्यो व्रतदीक्षायज्ञादीनां स्थिरार्थश्च ।दाता सुहृत्स्वपक्षः प्रियोपकारश्रुताभिरतः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनमाण्डलिको मन्त्री वा धनुर्धरस्थे भवेत्सदा जीवे ।नानादेशनिवासी विविक्ततीर्थायतनबुद्धिः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनलघुवीर्यो मकरस्थे बहुश्रमक्लेशधारको जीवे ।नानाचारो मूर्खो दुरन्तनिःस्वः परप्रेष्यः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनमाङ्गल्यदयाशौचस्वबन्धुवात्सल्यधर्मपरिहीनः ।दुर्बलदेहो भीरुः प्रवासशीलो विषादी च ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनपिशुनो न साधुशीलः कुशिल्पतोयाश्रमेषु कर्मरतः ।मुख्यो गणस्य सुतरां नीचाभिरतो नृशंसश्च ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनलुब्धो व्याधिग्रस्तः स्ववाक्यदोषेण नाशितार्थश्च ।प्रज्ञादिगुणैर्हीनो घटे गुरौ स्याद्गुरुस्त्रीगः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनवेदार्थशास्त्रवेत्ता सुहृदां पूज्यः सतां च नृपनेता ।श्लाघ्यः सधनोऽधृष्योऽह्यहीनदर्पस्थिरारम्भः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनराज्ञः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च ।ख्यातः प्रशान्तचेष्टो स्थिरसत्वयुतश्च मीनगे जीवे ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनधर्मिष्ठमनृतभीरुं विख्यातसुतं महाभाग्यम् ।भौमगृहे रविदृष्टो ह्यतिरोमचितं गुरुः कुरुते ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनइतिहासकाव्यकुशलं बहुरत्नं स्त्रीषु भाजनं कुरुते ।कुजगेहे शशिदृष्टस्त्रिदशगुरुः पार्थिवं प्राज्ञम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठननृपपुरुषशूरमुग्रं नयविनयसमन्वितं च विधनं च ।अविधेयभृत्यदारं जनयति वक्रेक्षितो जीवः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनअनृतं वञ्चनपापं परविवरान्वेषणेषु निपुणं च ।सेवाविनयकृतज्ञं कापटिकं सौम्यसंदृष्टः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनगृहशयनवसनगन्धैर्माल्यालङ्कारयुवतिभिर्विभवैः ।समुचितमतीव भीरुं कुरुते शुक्रेक्षितो जीवः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनमलिनं लुब्धं तीक्ष्णं साहसिकं संमतं च सिद्धं च ।अस्थिरमित्रापत्यं त्रिदशगुरुः सौरसंदृष्टः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनद्विपदचतुष्पदभागिनमत्यटनं व्यायताङ्गमिह पुरुषम् ।प्राज्ञं नरेन्द्रसचिवं करोति सूर्येक्षितो जीवः ॥ ३२ ॥
- श्लोक 32कुंडली के 1 पठनअतिधनमतीव मधुरं जननीदयितं प्रियं च युवतीनाम् ।अत्युपभोगं कुरुते चन्द्रेण निरीक्षितो जीवः ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनदयितं बालस्त्रीणां प्राज्ञं शूरं च धनसमृद्धं च ।सुखिनं नरेन्द्रपुरुषं भृगुभे जीवो रुधिरदृष्टः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनप्राज्ञं चतुरं मधुरं सुधनं विभवान्वितं गुणसमृद्धम् ।सुरुचिरशीलं कान्तं जनयति बुधवीक्षितो जीवः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनअतिललितमति च धनिनं परभूषणधारिणं मृजाशीलम् ।वरशयनं वरवसनं भृगुभे भृगुवीक्षितो जीवः ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनप्राज्ञं बहुधनधान्यं महत्तरं ग्रामनगरपुरुषाणाम् ।मलिनमरूपमभार्यं कुरुते सौरेक्षितो जीवः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनआर्यं ग्रामश्रेष्ठं कुटुम्बिनं दारपुत्रधनयुक्तम् ।बुधभे दिनकरदृष्टस्त्रिदशगुरुर्मानवं कुरुते ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनचन्द्रेक्षितस्तु कुरुते वसुमन्तं मातृवल्लभं धन्यम् ।सुखयुवतिपुत्रवन्तं सुरगुरुरतिरूपमनुपमं बुधभे ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनशाश्वतसुलब्धविषयं चित्रितगात्रं धनान्वितं कुरुते ।धरणिसुतेक्षितदेहस्त्रिदशगुरुः संमतं लोके ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनकुरुते ज्योतिषकुशलं बहुसुतदारं च सूत्रकारं च ।अतिशयविरूपवाक्यं बुधभे सौम्येक्षितो जीवः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनदेवप्रासादानां कृत्यकरं वेशदारभोक्तारम् ।हृदयहरं नारीणां कुरुते शुक्रेक्षितो जीवः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनश्रेणी गणराष्ट्राणां पुरोगमं ग्रामपत्तनानां च ।जनयति शनिना दृष्टः सुतनुं जीवो नरं बुधभे ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनरविदृष्टः शशिभवने विख्यातं ह्यग्रगं समूहानाम् ।सुखधनदारविहीनं पश्चादाढ्यं गुरुः कुरुते ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनअत्यर्थं द्युतिमन्तं नृपतिं बहुकोशवाहनसमृद्धम् ।उत्तमयुवतीपुत्रं जनयेच्छशिभे गुरुर्हिमगुदृष्टः ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनकौमारदारमाढ्यं हेमालङ्कारभागिनं प्राज्ञम् ।शूरं सव्रणगात्रं रुधिराङ्गनिरीक्षितो गुरुः कुरुते ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनबान्धवमात्रनिमित्तं धनिनं कलहान्वितं विगतपापम् ।जनयति बुधेन दृष्टः प्रत्ययिनं मन्त्रिणां जीवः ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनबहुदारं बहुविभवं नानालङ्कारभागिनं सुखिनम् ।भृगुतनयदृष्टमूर्तिः सुभगं पुरुषं गुरुः कुरुते ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनसौरेण दृष्टमूर्तिर्महत्तरं ग्रामसैन्यनगराणाम् ।वाचाटं बहुविभवं वार्द्धक्ये भोगभागिनं जीवः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनसिंहे दयितं ख्यातं सतां च नृपतिं महाधनसमृद्धम् ।जनयति दिनकरदृष्टः त्रिदशगुरुर्नरमतिसुशीलम् ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनअतिसुभगमति च मलिनं स्त्रीभाग्यैरतिसुभगमत्याढ्यम् ।लेये चन्द्रसुदृष्टो जितेन्द्रियं जनयति सुरेज्यः ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनसत्यं सतां गुरूणां विशिष्टकर्माणमुग्रमतिनिपुणम् ।शुद्धं शूरं क्रूरं गुरुरिह भौमेक्षितः सिंहे ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनगृहवास्तुज्ञानरतं विज्ञानगुणान्वितं रुचिरवाक्यम् ।सिंहे मन्त्रिणमग्र्यं बुधेक्षितो विश्रुतं जीवः ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनदयितं स्त्रीणां सुभगं भूपतिसत्कारसत्कृतं पुरुषम् ।सितदृष्टः सुरपूज्यो जनयति सिंहे महासत्वम् ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनबहुकथनमधुरवचनं सुखरहितं चित्रभागिनं तीक्ष्णम् ।अमरस्त्रीतुल्यसुखं सिंहगुरुः सौरसन्दृष्टः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठननृपतिविरुद्धं जनयति विबुधगुरुः संस्थितः स्वगृहे ।रविदृष्टः परितप्तं धनबन्धुजनेन परिमुक्तम् ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठननानाविधसौख्ययुतं स्वगृहे चन्द्रेक्षितो जीवः ।अतिसुभगं युवतीनां मानधनैश्वर्यगर्वितं कुरुते ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनसङ्ग्रामे विकृताङ्गं क्रूरं वधकं परोपकारपरम् ।जनयति कुजेन दृष्टो देवगुरुर्नष्टपरिवारम् ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनमन्त्रिणमथनृपतिं वा सुतधनसौभाग्यसौख्यसम्पन्नम् ।स्वगृहे बुधेन दृष्टः सकलानन्दं गुरुः कुरुते ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनसुखिनं धनिनं प्राज्ञं व्यपगतदोषं चिरायुषं सुभगम् ।स्वगृहे सितेन दृष्टो लक्ष्मीपरिवेष्टितं गुरुः पुरुषम् ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनमलिनमतीव च सुभगं ग्रामपुरश्रेणिधिक्कृतं दीनम् ।स्वगृहगुरुः शनिदृष्टो जनयति सुखभोगधर्मपरिहीनम् ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनप्राज्ञं पृथिवीपालं सौरगृहे भानुना च संदृष्टः ।प्रकृतिसमृद्धं जनयति बहुभोगसमन्वितं सुविक्रान्तम् ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनपितृमातृभक्तमार्यं कुलोद्भवं प्राज्ञमाढ्यमादेयम् ।चन्द्रेक्षितस्तु जीवः सुशीलमतिधार्मिकं शनिभे ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनशूरं नरेन्द्रयोधं गर्वितमोजस्विनं सुवेषं च ।विख्यातमार्यमान्यं शनिभे वक्रेक्षितो जीवः ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनकामरतिं गणमुख्यं मानवमथ सार्थवाहमाढ्यं वा ।ख्यातमतिमित्रवन्तं बुधसंदृष्टो गुरुः शनिभे ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनभोज्यान्नपानविभवं वरगृहशयनासनोत्तमस्त्रीकम् ।आभरणवसनमन्तं शनिभे शुक्रेक्षितो जीवः ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनअनुपमविद्याधृत्तं महत्तरं देशपार्थिवं शनिभे ।द्विपदचतुष्पदमाढ्यं भोगिनमथ सौरवीक्षितो जीवः ॥ ६६ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।