अध्याय 28: शुक्रचारः
सारावली · Saravali (Venus in each sign, with aspects)
66 श्लोक
- श्लोक 1कुंडली के 1 पठननैशान्धो बहुदोषो विरोधशीलः पराङ्गनाचोरः ।वेश्यावनाद्रिचारी स्त्रीहेतोर्बन्धनं प्राप्तः ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनक्षुद्रः कठोरचोरश्चमूपुरश्रेणिवृन्दनाथश्च ।मेषे स्याद्भृगुतनये नो विश्वासी प्रगल्भश्च ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनबहुयुवतिरत्नसहितः कृषीवलो गन्धमाल्यवस्त्रयुतः ।गोकुलजीवी दाता स्वबन्धुभर्ता सुमूर्तिश्च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनआढ्यस्त्वनेकविद्यो बहुप्रदः सत्वहितकारी ।वृषभे गुणैः प्रधानः परोपकारी सिते भवति जातः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनविज्ञानकलाशास्त्रः प्रथितः सततं सुमूर्तिगः कामी ।आलेख्यलेख्यनिरतः काव्यकरः स्यात् प्रियः साधुः ॥५॥
- श्लोक 6कुंडली के 1 पठनधृतगीतनृत्तविभवः सुहृज्जनाढ्यः सुरद्विजानुरतः ।संरूढस्नेहो वै मिथुनस्थे भार्गवे भवति ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनरतिधर्मरतः प्राज्ञो बली मृदुर्गुणवतां प्रधानश्च ।आकाङ्क्षितैः सुखार्थैर्युक्तः प्रियदर्शनः सुनीतिश्च ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनयोषित्पानप्रभवैर्व्याधिभिरधिकं प्रपीडितो मनुजः ।शुक्रे कर्कटसंस्थे स्ववंशभवदोषसन्तप्तः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनयुवतिजनोपासनको लब्धसुखद्रविणसम्प्रमोदश्च ।लघुसत्वप्रियबन्धुर्विचित्रसौख्यश्च दुःखी च ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनउपकारी च परेषां गुरुद्विजाचार्यसंमतो निरतः ।सिंहस्थे भृगुतनये बहुचिन्तास्वनभियोगः स्यात् ॥१०॥
- श्लोक 11कुंडली के 1 पठनलघुचिन्तो मृदुनिपुणः परोपसेवी कलाविधिज्ञश्च ।स्त्रीसम्भाषणमधुरः प्रणयनगणनार्थकृतयत्नः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठननारीषु दुष्टरतिषु प्रणयी दीनो न सौख्यभोगयुतः ।कन्यायां भृगुतनये तीर्थसभापण्डितो जातः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनश्रमलब्धवित्तशूरो विचित्रमाल्याम्बरो विदेशरतः ।नैपुणरक्षणकुशलः कर्मसु चपलः सुदुष्करेषु तथा ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनआढ्यो रुचिरसुपुण्यो द्विजदेवार्चनविलब्धकीर्तिश्च ।शुक्रे तुलाधरगते भवति पुमान् पण्डितः सुभगः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनविद्वेषरतिनृशंसो विमुक्तधर्मा विकत्थनोऽतिशठः ।सहजविरक्तो धन्यो विपन्नशत्रुस्तथा पापः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनआर्यः कुलटाद्वेषी वधनिपुणो बह्वृणो दरिद्रश्च ।अलिनि सिते भवति पुमान् गर्हितशीलः सुगुह्यगदः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसद्धर्मकर्मधनजैः फलैरुपेतो जगत्प्रियः कान्तः ।आर्यः कुलब्धशब्दो विद्वान् गोमानलंकरिष्णुश्च ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनसद्वित्तसौरसुभगो नरेन्द्रमन्त्री सुचतुरोऽपि ।पीनोच्चतनुः पूज्यः सतां समूहस्य धनुषि कवौ ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनव्ययभयपरिसन्तप्तो दुर्बलदेहो जराङ्गनासक्तः ।हृद्रोगी धनलुब्धो लोभानृतवञ्चनो निपुणः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनक्लीबो विपन्नचेष्टः परार्थचेष्टः सुदुःखितो मूढः ।मकरे दानवपूज्ये क्लेशसहो जायते पुरुषः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनउद्वेगरोगतप्तः कर्मसु विफलेषु सर्वदाभिरतः ।परयुवतिगो विधर्मा गुरुभिः पुत्रैश्च कृतवैरः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनस्नानोपभोगभूषणवस्त्रादिनिराकृतो मलिनः ।कुम्भधरे भृगुपुत्रे भवति पुमान्नात्र सन्देहः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनदाक्षिण्यदानगुणवान् महाधनोधःकृतारिपक्षश्च ।लोके ख्यातः श्रेष्ठो विशिष्टचेष्टो नृपतिदयितः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनवाग्बुद्धियुतोदारः सज्जनपरिलब्धविभवमानश्च ।स्वादेयवचा मीने वंशधरो ज्ञानवान् शुक्रे ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनस्त्रीहेतोर्दुःखार्त्तं युवतिनिमित्ताद्विनष्टधनसौख्यम् ।कुजभवने रविदृष्टो जनयति शुक्रो नृपं प्राज्ञम् ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनउद्बन्धनमतिचपलं कामातुरमधमयुवतिभर्त्तारम् ।जनयति भृगोरपत्यं रजनीकरवीक्षितं कुजभे ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनधनसौख्यमानरहितं परकर्मकरं मलिनचेष्टं ।जनयति रुधिरक्षेत्रे रुधिरेण निरीक्षितः शुक्रः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनमूर्खं धृष्टमनार्यं स्वबन्धुपरिवादकं विनयहीनम् ।चोरं क्षुद्रं क्रूरं बुधदृष्टो भार्गवः कुरुते ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनसुनयनमुदारदानं सुशरीरं व्यायतं बहुसुतं च ।त्रिदशगुरुदृष्टमूर्तिर्जनयति रुधिरालये शुक्रः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनअतिमलिनमलसमटनस्वभिमतजनसेवकं कुरुते ।भृगुतनयो रुधिरगृहे दिनकरपुत्रेण वीक्षितश्चोरम् ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनदिनकरदृष्टः शुक्रो वरजायाभोगिनं धनसमृद्धम् ।जनयत्युत्तमपुरुषं स्त्रीहेतोर्निर्जितं स्वगृहे ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनपरमकुलीनापुत्रं सुखधनदानैः सुखैरुपेतं च ।अत्यार्यमतिं कान्तं स्वगृहे चन्द्रेक्षितः शुक्रः ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनदुःशीलाभर्त्तारं प्रमदाहेतोश्च नष्टगृहदारम् ।जनयति भृगुनन्दकरो मदनवशं वक्रसन्दृष्टः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनकान्तं मधुरं सुभगं सुखधृतिमतिसंयुतं विपुलसत्वम् ।जनयति बुधेन दृष्टः सर्वगुणसमन्वितं ख्यातम् ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनप्रमदापुत्रगृहाणां भागिनमथ यानवाहनानां च ।स्वर्क्षे गुरुसन्दृष्टः कुरुते भृगुरिष्टचेष्टानाम् ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनस्वल्पसुखं स्वल्पधनं दुःशीलं वर्धकीपतिं चैव ।सौरेक्षितस्तु जनयेत् व्याधितदेहं नरं शुक्रः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठननृपजननीपत्नीनां कृत्यकरं पण्डितं धनिनम् ।दिनकरदृष्टः शुक्रो जनयति सुखभागिनं बुधभे ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनकृष्णनयनं सुकेशं शयनासनयानभागिनं कान्तम् ।सुकुमारमिन्दुदृष्टो जनयति शुक्रो नरं सुभगम् ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनकामपरमति च सुभगं युवतिकृते चार्थनाशनं कुरुते ।वक्रेक्षितस्तु शुक्रो बुधभवनमुपाश्रितः प्रसवे ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनप्राज्ञं मधुरं धनिनं वाहनपरिवारभागिनं सुभगम् ।गणपतिमर्थेशं वा बुधदृष्टो भार्गवो बुधभे ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनबुधभवनगतः शुक्रस्त्रिदशगुरुनिरीक्षितः कुरुते ।अतिसुखमतीव दीनं प्रतिरूपकरं ज्ञमाचार्यम् ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनदिनकरसुतेन दृष्टो बुधभवनगतोऽतिदुःखिनं शुक्रः ।जनयति खलु परिभूतं चपलं द्वेष्यं च मूर्खं च ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनकर्मपरां शुद्धाङ्गीं नृपतिसुतां रोषणां धनोपेताम् ।भार्यां ददाति शुक्रः चन्द्रगृहे भानुसन्दृष्टः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनमातृसपत्नीजननं कन्यापूर्वप्रजं बहुसुतं च ।सुखिनं सुभगं ललितं कुरुते चन्द्रेक्षितः शुक्रः ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनसुकलाविदमत्याढ्यं स्त्रीहेतोर्दुःखितं सुभगम् ।भौमेक्षितस्तु जनयेत् वृद्धिकरं बन्धुवर्गस्य ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनपण्डितभार्यापतिकं बन्धुनिमित्तं च दुःखितं नित्यम् ।अतिसुखधनिनं प्राज्ञं करोति शशिभे बुधेक्षितः शुक्रः ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनभृत्यैर्धनैश्च पुत्रैर्वाहनभोगैश्च बान्धवैर्मित्रैः ।कुरुते नरमिह युक्तं नरपतिदयितं च गुरुदृष्टः ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनस्त्रीनिर्जितं दरिद्रं पतितमरूपं तथैव चपलं च ।जनयति सुखैर्विहीनं शशिभे शनिवीक्षितः शुक्रः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनसेर्ष्यं कन्यादयितं कामार्तं युवतिकारणं धनिनम् ।भागिनमथ करभाणां जनयति सिंहे रवीक्षितः शुक्रः ॥४९॥
- श्लोक 50कुंडली के 1 पठनमातृसपत्नीजननं युवतिकृते दुःखितं विभववन्तम् ।सिंहे नानामतिकं करोति चन्द्रेक्षितः शुक्रः ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठननृपपुरुषं विख्यातं युवतिकृते वल्लभं धनसमृद्धम् ।सुभगं परदाररतं सिंहे वक्रेक्षितः शुक्रः ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनसंग्रहनिरतं लुब्धं स्त्रीलोलं पारदारिकं शूरम् ।शठमानृतिकं धनिनं सिंहे बुधवीक्षितः शुक्रः ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनवाहनधनभृत्ययुतं बहुदारपरिग्रहं रविक्षेत्रे ।कुरुते नरेन्द्रमन्त्रिणमिन्द्रगुरुनिरीक्षितः शुक्रः ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठननृपतिं नृपतिप्रतिमं विख्यातं कोशवाहनसमृद्धम् ।रण्डापतिं सुरूपं दुःखयुतं सौरसन्दृष्टः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनअतिरौद्रमति च शूरं गुरुभे प्राज्ञं च धनिनमतिदयितम् ।रविणा दृष्टो जनयति विदेशगमनं नरं शुक्रः ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनख्यातं नरेन्द्रपुरुषं भोगैरशनैः समन्वितं विपुलैः ।कुरुते ह्यनुपमसारं गुरुभे चन्द्रेक्षितः शुक्रः ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनअधिकद्वेष्यं स्त्रीणां विचित्रसुखदुःखमर्थवन्तं च ।कुरुते गोधनमग्र्यं गुरुभे भौमेक्षितः शुक्रः ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनआभरणभूषणानां भागिनमपि चान्नपानानाम् ।बुधदृष्टो भृगुतनयः कुरुते गुरुभेऽर्थवाहनसमृद्धम् ॥५८॥
- श्लोक 59कुंडली के 1 पठनगजतुरगगोधनाढ्यं बहुपुत्रकलत्रमतिसुखिनम् ।गुरुणा दृष्टो गुरुभे जनयति शुक्रो महाविभवम् ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठननित्यं च धनप्रायं सुखिनं भोगान्वितं धनसमृद्धम् ।गुरुभवने शनिदृष्टः कुरुते शुक्रो नरं सुभगम् ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनस्तिमितं वृषभं स्त्रीणां महाधनं सत्यसौख्यसम्पन्नम् ।सौरगृहे रविदृष्टः कुरुते शुक्रो नरं शूरम् ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनओजस्विनमतिशूरं स्वाढ्यं वपुषान्वितं सुभगम् ।कुरुते शशिना दृष्टो रविजगृहे भार्गवः कान्तम् ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनजायाविनाशकारणमनर्थबहुलं च रोगिणं शुक्रः ।कुरुते श्रमाभितप्तं पश्चात्सुखिनं च कुजदृष्टः ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनप्राज्ञं धनचयनिरतं निधानरुचिमतिशयेन विद्वांसम् ।जनयति बुधेन दृष्टो भृगुतनयः सत्यसौख्यसम्पन्नम् ॥६४॥
- श्लोक 65कुंडली के 1 पठनप्रियवस्त्रमाल्यगन्धं सुकुमारं गीतवादितविधिज्ञम् ।जनयति गुरुणा दृष्टो भृगुपुत्रः सत्कलत्रयुतम् ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनसौरगृहे शनिदृष्टः शुक्रो नरवाहनार्थभोगयुतम् ।मलिनं श्यामशरीरं सुरुचिरगात्रं महादेहम् ॥ ६६ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।