अध्याय 29: सौरचारः
सारावली · Saravali (Saturn in each sign, with aspects)
66 श्लोक
- श्लोक 1कुंडली के 1 पठनव्यसनपरिश्रमतप्तः प्रचण्डशीलः स्वबन्धुपक्षघ्नः ।निष्ठुरधृष्टातिवचाविगर्हितो निर्धनः कुवेषश्च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनमेषेऽर्कजे सुरोषो जघन्यकर्मा च लब्धदोषोऽपि ।प्रियवैरो नैकृतिको नृशंसको सूयकः पापः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनअर्थविहीनः प्रेष्यो न युक्तवाक्यो न सत्यकर्मा च ।वृद्धस्त्रीहृदयहरः कुसुहृत् स्त्रीव्यसनसंसक्तः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनसौरे वृषभं याते भवति च जातः पराङ्गनाप्रेष्यः ।नैकृतिकः स्फुटदृष्टो बहुक्रियासङ्गतो मूढः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनबह्वृणबन्धनतप्तः श्रमान्वितो डाम्भिकोनुमन्त्री च ।शाठ्यगुणैः सन्त्यक्तः सदैव गुह्यश्च कामशीलश्च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनछलकृच्च मन्युदुष्टः क्रियातिशायी शठः कुशीलश्च ।बन्धनविहारसक्तो बाह्यक्रीडानुगो मिथुने ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनसुभगान्वितो दरिद्रो बाल्ये रोगातिपीडितः प्राज्ञः ।जननीरहितोऽतिमृदुर्विशिष्टनिरतः सदातुरश्चापि ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनपरबाधको विशिष्टो बन्धुविरुद्धो विलोमशीलश्च ।मध्ये भूपतितुल्यः परिभोगविवर्धितः शशिभे ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनलिपिपाठ्यपरोऽभिज्ञो विगर्हितो विगतशीलश्च ।स्त्रीवियुतो भृतिजीवी स्वपक्षरहितो मुदा हीनः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठननीचक्रियासु निरतो विवृद्धरोषो मनोरथैर्दान्तः ।भाराध्वश्रमदुःखैः प्रकीर्णदेहो यमे सिंहे ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनषण्डाकारोऽतिशठः परान्नवेश्यारतोऽल्पमन्त्रश्च ।शिल्पकथास्वनभिज्ञो विकृत्यचेष्टो लसत्सुतार्थश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनअधनः परोपकारी कन्याजनदूषकः क्रियानुरतः ।कन्यायां रवितनये ह्यवेक्ष्यकारी पुमान् जातः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनअर्थपरश्चारुवचा नरो विदेशाटनाप्तमानधनः ।नृपतिः सुबोधनो वा स्वपक्षगुप्तस्थितार्थः स्यात् ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनवृन्दसभानां ज्येष्ठो वयःप्रकर्षात्कृतास्पदः साधुः ।कुलटानटीविटस्त्रीरमणो रविजे तुलायाते ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनद्वेषपरो विषमो वा विषशस्त्रघ्नः प्रचण्डकोपश्च ।लुब्धो दक्षोऽर्थयुतः परस्वहरणे समर्थश्च ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनबाह्यो मङ्गलवाद्यैर्नृशंसकर्मा ह्यनेकदुःखः स्यात् ।अष्टमराशौ रविजे क्षयव्ययव्याधिभिस्तप्तः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनव्यवहारबोध्यशिक्षाश्रुतार्थविद्याभिधानुकूलमतिः ।पुत्रगुणैर्विख्यातः स्वधर्मवृत्तैश्च शीलैश्च ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनअन्त्ये वयसि च लक्ष्मीं भुनक्ति परमां प्रलब्धमानस्तु ।अल्पवचा बहुसंज्ञो मृदुर्यमे कार्मुकस्थे स्यात् ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनपरयोषित्क्षेत्राणां प्रभुः श्रुतिगुणैर्युतश्च बहुशिल्पः ।श्रेष्ठश्च वंशजातैः पूज्यः परवृन्दसत्कृतः ख्यातः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनस्नानविभूषणनिरतः क्रियाकलाज्ञः प्रवासशीलश्च ।कोणे मृगभे जातः प्रजातशौर्योपचारः स्यात् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनबह्वनृतः सुमहान्स्यान्मद्यस्त्रीव्यसनसम्प्रसक्तश्च ।धूर्तो वञ्चनशीलः कुसौहृदो ह्यतिदृढश्चण्डः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनज्ञानकथास्मृतिबाह्यः पराङ्गनार्थः सुकर्कशाभाषी ।रवितनये कुम्भस्थे बहुक्रियारम्भकृतयत्नः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनप्रिययज्ञशिल्पविद्यः स्वबन्धुसुहृदां प्रधानशान्तश्च ।संवर्धितार्थसुनयो रत्नपरीक्षासु कृतयत्नः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनधर्मव्यवहाररतो विनीतशीलो गुणैः समायुक्तः ।मीने भास्करतनये पश्चाद्भावास्पदं पुरुषः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनकर्षणनिरतमथाढ्यं गोमहिषाजाविसंयुतं धन्यम् ।सूर्येण दृश्यमानो जनयति कर्मोद्यतं सौरिः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनचपलं नीचप्रकृतिं नीचविरूपाङ्गनासु संसक्तम् ।शनिरिन्दुदृष्टमूर्तिः सुखधनरहितं नरं कुरुते ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनप्राणिवधपरं क्षुद्रं कुरुते चोराधिपं सुविख्यातम् ।प्रिययुवतिमांसपानं सौरो वक्रेक्षितः कुजभे ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनआनृतिकमधर्मपरं बह्वाशं तस्करं प्रकाशं च ।कौजे शनिर्ज्ञदृष्टः सुखविभवविनाकृतं पुरुषम् ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनसुखधनसौभाग्ययुतं नृपमन्त्रिणमग्रगं च सचिवानाम् ।गुरुदृष्टो रवितनयः कुजगेहे मानवं कुरुते ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनअतिचपलमतिविरूपं पराङ्गनापण्ययुवतिसंसक्तम् ।कुजभवने भृगुदृष्टो जनयति रविजो विवर्जितं भोगैः ॥३०॥
- श्लोक 31कुंडली के 1 पठनस्फुटवाक्यं विगतधनं विद्वांसं परगृहेषु भोक्तारम् ।रविणा दृष्टः सौरिः सितभे परिपेलवं पुरुषम् ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनयुवतिजनजनितसारं नृपमन्त्रिपुरस्कृतं युवतिकान्तम् ।शशिना दृष्टः सौरिः कुरुते सितभे कुटुम्बपरिवारम् ॥३२॥
- श्लोक 33कुंडली के 1 पठनसंग्रामकथाभिज्ञं संग्रामपलायिनं सुबहुवाक्यम् ।भृगुभे कुजसन्दृष्टो जनधनपरिवेष्टितं सौरः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठननित्यं विहसनशीलं क्लीबतरं युवतिसेवकं नीचम् ।बुधदृष्टो रवितनयः शुक्रगृहे मानवं कुरुते ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनपरविषयदुःखसुखिनं परकार्यकरं प्रियं च लोकस्य ।कुरुते गुरुणा दृष्टो दातारं सोद्यमं सौरिः ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनमद्यस्त्रीकृतसौख्यं रत्नानां भाजनं महासत्वम् ।शुक्रगृहे सितदृष्टो जनयति सौरो नृपतिदयितम् ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनसुखरहितमथात्यन्तं धनरहितं धार्मिकं जितक्रोधम् ।क्लेशसहिष्णुं धीरं बुधभे रविवीक्षितः सौरिः ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठननृपतुल्यं स्निग्धतनुं नारीभ्यः प्राप्तविभवसत्कारम् ।स्त्रीणां वा कृत्यकरं सौरश्चन्द्रेक्षितो बुधभे ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनविख्यातमल्लमोहितमतिभारवहं तथा विकृतगात्रम् ।रुधिराङ्गवीक्षिततनुर्जनयति सौरो नरं बुधभे ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनधनिनं नियुद्धकुशलं नृत्ताचार्यं च गीतकुशलं च ।शिल्पकमतीव निपुणं बुधभे बुधवीक्षितः सौरः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनप्रात्ययिकं राजकुले सर्वगुणसमन्वितं सतामिष्टम् ।गुणगुह्यधनं कुरुते गुरुणा दृष्टः शनैश्चारी ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनस्त्रीमण्डलेषु कुशलं योगाचार्यमथ योगिनं वाऽपि ।शुक्रेक्षितोऽर्कपुत्रः स्त्रीणामिष्टं नरं बुधभे ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनपित्रा रहितं बाल्ये दिनपतिदृष्टः शनैश्चरः शशिभे ।धनसुखदारविहीनं कदशनतुष्टं नरं पापम् ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनजन्मनि मातुरनिष्टं धनवन्तं सहजपीडितं चैव ।शशिदृष्टः शशिभवने दिनकरपुत्रो नरं कुरुते ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठननृपतिसमर्पितविभवं विकलाङ्गं कनकरत्नपरिवारम् ।कुजदृष्टः शशिभवने कुबन्धुपत्नीरतं सौरिः ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठननिष्ठुरमतिप्रवाचं शमितारातिं च दाम्भिकं चापि ।जनयत्युत्तमचेष्टं बुधदृष्टो भास्करिः शशिभे ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनक्षेत्रगृहाणां सुहृदां पुत्राणां भागिनं नरं कुरुते ।धनरत्नदारवन्तं शशिभे गुरुवीक्षितः सौरः ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनआयतकुलजातानां रूपविलासैः सुखैश्च रहितानाम् ।कुरुते जन्म नराणां भृगुदृष्टः कर्कटे सौरिः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनसुखधनहीनमनार्यं प्रियानृतं पानसक्तकुतनुं च ।भृतकं दुःखिनमेकं सिंहे सूर्येक्षितः सौरः ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठननानारत्नधनानां युवतीनां भाजनं विपुलकीर्तिम् ।शिशिरगुदृष्टः सिंहे सौरो नृपवल्लभं पुरुषम् ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनप्रतिदिनमटनमधन्यं चोरं गिरिदुर्गवासिनं क्षुद्रम् ।भार्यापुत्रविहीनं सिंहे सौरो रुधिरदृष्टः ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठननैकृतिकमलसमधनं स्त्रीकर्मकरं मलीमसं दीनम् ।जनयति बुधेन दृष्टो दिनकरभवनाश्रितः सौरिः ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनग्रामपुरश्रेणीनां पुरोगमाढ्यं च पुत्रवन्तं च ।गुरुदृष्टः प्रात्ययिकं सिंहे सौरः सुशीलं च ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनयुवतिद्वेष्यं कान्तं मन्थरसुखभागिनं धनसमृद्धम् ।शुक्रेक्षितस्तु कुरुते भानुगृहे रविसुतः स्वन्तम् ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनपरपुत्राणां पितरं गुरुभे सूर्येक्षितः सौरः ।तेभ्यो धनं च लभते नाम ख्यातिं च पूजां च ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनमातृरहितं सुशीलं नामद्वयसंयुतं रवेस्तनयः ।कुरुते शशिना दृष्टो भार्यासुतवित्तसम्पन्नम् ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनवातव्याधिगृहीतं लोकद्वेष्यं च पापशीलं च ।क्षुद्रं निन्दितशीलं गुरुभे भौमेक्षितः सौरः ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनजनयति गुरुभवनस्थो नृपतिसमं सौख्यवन्तमाचार्यम् ।मान्यं धनिनं सौम्यं सुभगं सौम्येक्षितः सौरः ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठननृपतिं नृपतुल्यं वा मन्त्रिणमथ नायकं च सेनायाः ।जनयति गुरुणा दृष्टः सर्वापद्वर्जितं सौरः ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनकुरुते द्विमातृपितृकं विपिनाद्रिषु जीविनं विविधशीलम् ।जनयति सितेन दृष्टो रवितनयः कर्मसम्पन्नम् ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनरोगिणमरूपभार्यं परान्नभोगिनमतीव दुःखसहम् ।अटनरतं भारसहं सौरः सूर्येक्षितः स्वगृहे ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनचपलमसत्यं पापं मातुरनिष्टं प्रियानृतं स्वाढ्यम् ।उत्पन्नाटनदुःखं स्वगृहे चन्द्रेक्षितः सौरः ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनअतिशूरं विक्रान्तं विख्यातगुणं महाजनपुरोगम् ।तीक्ष्णं साहसनिरतं स्वगृहे वक्रेक्षितः सौरः ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनभारसहं तामसिकं शोभनमटनज्ञमल्पवित्तं च ।धन्यं जनयति शनिभे बुधेन संवीक्षितः सौरः ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनसमुदितगुणं नरेन्द्रं नृपवंशकरं चिरायुषमरोगम् ।त्रिदशगुरुदृष्टमूर्तिर्जनयति सौरः स्वगृहसंस्थः ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनधनिनं परदाररतं सुभगं सुखिनं च वित्तवन्तं च ।उत्पन्नपानभक्ष्यं स्वगृहे शुक्रेक्षितः सौरः ॥ ६६ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।