अध्याय 30: भावाध्यायः
सारावली · Saravali (The planets in each house)
87 श्लोक
- श्लोक 1मूर्त्यादयः पदार्था जायन्ते येन सर्वजन्तूनाम् ।तस्मादधुना वक्ष्ये भावाध्यायं विशेषेण ॥ १ ॥
- श्लोक 2कुंडली के 5 पठनलग्नेऽर्केऽल्पकचः क्रियालसमतिः क्रोधी प्रचण्डोन्नतोमानी लोचनरूक्षकर्कशतनुः शूरोऽक्षमो निर्घृणः ।स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमान्दारिद्र्योपहतो विनष्टतनयो जातस्तुलायां नरः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनद्विपदचतुष्पदभागी मुखरोगी नष्टविभवसौख्यश्च ।नृपचोरमुषितसारः कुटुम्बगे स्याद्रवौ पुरुषः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनविक्रान्तो बलयुक्तो विनष्टसहजस्तृतीयके सूर्ये ।लोके मतोऽभिरामः प्राज्ञो जितदुष्टपक्षश्च ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनवाहनबन्धुविहीनः पीडितहृदयश्चतुर्थके सूर्ये ।पितृगृहधननाशकरो भवति नरः कुनृपसेवी च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनसुखसुतवित्तविहीनः कर्षणगिरिदुर्गसेवकश्चपलः ।मेधावी धनरहितः स्वल्पायुः पञ्चमे तपने ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनप्रबलमदनोदराग्निर्बलवान् षष्ठं समाश्रिते भानौ ।श्रीमान् विख्यातगुणो नृपतिर्वा दण्डनेता वा ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठननिःश्रीकः परिभूतः कुशरीरो व्याधितः पुमान् द्यूने ।नृपबन्धनसन्तप्तोऽमार्गरतो युवतिविद्वेषी ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनविकलनयनोऽष्टमस्थे धनसुखहीनोऽल्पजीवितः पुरुषः ।भवति सहस्रमयूखे स्वभिमतजनविरहसन्तप्तः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनधनपुत्रमित्रभागी द्विजदैवतपूजनेऽतिरक्तश्च ।पितृयोषिद्विद्वेषी नवमे तपने सुतप्तः स्यात् ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनअतिमतिरतिविभवबलो धनवाहनबन्धुपुत्रवान् सूर्ये ।सिद्धारम्भः शूरो दशमेऽधृष्यः प्रशस्यश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनसञ्चयनिरतो बलवान् द्वेष्यः प्रेष्यो विधेयभृत्यश्च ।एकादशे विधेयः प्रियरहितः सिद्धकर्मा च ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनविकलशरीरः काणः पतितो वन्ध्यापतिः पितुरमित्रः ।द्वादशसंस्थे सूर्ये बलरहितो जायते क्षुद्रः ॥ १३ ॥
- श्लोक 14कुंडली के 2 पठनदाक्षिण्यरूपधनभोगगुणैः प्रधानःचन्द्रे कुलीरवृषभाजगते विलग्ने ।उन्मत्तनीचबधिरो विकलश्च मूकःशेषे नरो भवति कृष्णतनुर्विशेषात् ॥ १४ ॥
- श्लोक 15कुंडली के 2 पठनअललितसुखमित्रयुतो धनैश्च चन्द्रे द्वितीयराशिगते ।सम्पूर्णेऽतिधनेशो भवति नरोऽल्पप्रलापकरः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनभ्रातृजनाश्रयणीयो मुदान्वितः सहजगे बलिनि ।चन्द्रे भवति च शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनबन्धुपरिच्छदवाहनसहितो दाता चतुर्थगे चन्द्रे ।जलसंचारानुरतः सुखासुखोत्कर्षपरिमुक्तः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनचन्द्रे भवति न शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः ।बहुतनयसौम्यमित्रो मेधावी पञ्चमे तीक्ष्णः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनप्रचुरामित्रस्तीव्रो मृदुकायाग्निर्मदालसश्चन्द्रे ।षष्ठे वृकोदरभवै रोगैः सम्पीडितो भवति ।रजनिकरे स्वल्पायुः षष्ठगते भवति संक्षीणे ॥ १९ ॥
- श्लोक 20कुंडली के 2 पठनसौम्यो धृष्यः सुखितः सुशरीरः कामसंयुतो द्यूने ।दैन्यरुगर्दितदेहः कृष्णे संजायते शशिनि ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनअतिमतिरतितेजस्वी व्याधिविबन्धक्षपितदेहः ।निधनस्थे रजनिकरे स्वल्पायुर्भवति संक्षीणे ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनदैवतपितृकार्यपरः सुखधनमतिपुत्रसम्पन्नः ।युवतिजननयनकान्तो नवमे शशिनि प्रियतमोद्योतः ।
- श्लोक 23कुंडली के 1 पठनअविषादी कर्मपरः सिद्धारम्भश्च धनसमृद्धश्च ।शुचिरतिबलोऽथ दशमे शूरो दाता भवेच्छशिनि ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनधनवान् बहुसुतभागी बह्वायुस्विष्टभृत्यवर्गश्च ।इन्दौ भवेन्मनस्वी तीक्ष्णः शूरः प्रकाशश्च ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनद्वेष्यः पतितः क्षुद्रो नयनरुगार्त्तोऽलसो भवेद्विकलः ।चन्द्रे तथान्यजातो द्वादशगे नित्यपरिभूतः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनक्रूरः साहसनिरतः स्तब्धोऽल्पायुः स्वमानशौर्ययुतः ।क्षतगात्रः सुशरीरो वक्रे लग्नाश्रिते चपलः ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनअधनः कदशनतुष्टः पुरुषो विकृताननो धनस्थाने ।कुजनाश्रयश्च रुधिरे भवति नरो विद्यया रहितः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनशूरो भवत्यधृष्यो भ्रातृवियुक्तो मुदान्वितः पुरुषः ।भूपुत्रे सहजस्थे समस्तगुणभाजनं ख्यातः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनबन्धुपरिच्छदरहितो भवति चतुर्थेऽथ वाहनविहीनः ।अतिदुःखैः संतप्तः परगृहवासी कुजे पुरुषः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनसौम्यार्थपुत्रमित्रश्चलमतिरपि पञ्चमे कुजे भवति ।पिशुनोऽनर्थप्रायः खलश्चविकलो नरो नीचः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनप्रबलमदनोदराग्निः सुशरीरो व्यायतो बली षष्ठे ।रुधिरे सम्भवति नरः स्वबन्धुविजयी प्रधानश्च ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनमृतदारो रोगार्तोऽमार्गरतो भवति दुःखितः पापः ।श्रीरहितः सन्तप्तः शुष्कतनुर्भवति सप्तमे भौमे ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनव्याधिप्रायोऽल्पायुः कुशरीरो नीचकर्मकर्ता च ।निधनस्थे क्षितितनये भवति पुमान् शोकसन्तप्तः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनअकुशलकर्मा द्वेष्यः प्राणिवधपरो भवेन्नवमसंस्थे ।धर्मरहितोऽतिपापो नरेन्द्रकृतगौरवो रुधिरे ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनकर्मोद्युक्तो दशमे शूरो धृष्यः प्रधानजनसेवी ।सुतसौख्ययुतो रुधिरे प्रतापबहुलः पुमान् भवति ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनएकादशगे धनवान् प्रियसुखभागी तथा भवेच्छूरः ।धनधान्यसुतैः सहितः क्षितितनये विगतशोकश्च ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठननयनविकारी पतितो जायाघ्नः सूचकश्च रौद्रश्च ।द्वादशगे परिभूतो बन्धनभाक् भवति भूपुत्रे ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनअनुपहतदेहबुद्धिर्देशकलाज्ञानकाव्यगणितज्ञः ।अतिमधुरचतुरवाक्यो दीर्घायुः स्याद्बुधे लग्ने ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनबुद्ध्योपार्जितविभवो धनभवनगतेऽन्नपानभोगी च ।शोभनवाक्यः सुनयः शशितनये मानवो भवति ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनश्रमनिरतः परिदीनस्तृतीयराशौ बुधे भवति जातः ।निपुणः सहजसमेतो मायाबहुलो नरश्चलितः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनपण्डितमाहुः सुभगो वाहनयुक्तो बुधे हिबुकसंस्थे ।सुपरिच्छदः सुबन्धुर्भवति नरः पण्डितो नित्यम् ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनमन्त्राभिचारकुशलो बहुतनयः पञ्चमे सौम्ये ।विद्यासुखप्रभावैः समन्वितो हर्षसंयुक्तः ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनवादविवादे कलहे नित्यजितो व्याधितो बुधे षष्ठे ।अलसो विनष्टकोपो निष्ठुरवाक्योऽतिपरिभूतः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनप्रज्ञां सुचारुवेषां नातिकुलीनां च कलहशीलां च ।भार्यामनेकवित्तां द्यूने लभते महत्त्वं च ॥ ४५ ॥
- श्लोक 45कुंडली के 1 पठनविख्यातनामसारश्चिरजीवी कुलधरो निधनसंस्थे ।शशितनये भवति नरो नृपतिसमो दण्डनायको वाऽपि॥४५॥
- श्लोक 46कुंडली के 1 पठननवमगते भवति पुमानतिधनविद्यायुतः शुभाचारः ।वागीश्वरोऽतिनिपुणो धर्मिष्ठः सोमपुत्रे हि ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनप्रवरमतिकर्मचेष्टः सकलारम्भो विशारदो दशमे ।धीरः सत्वसमेतो विविधालङ्कारसत्वभाक् सौम्ये ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनधनवान् विधेयभृत्यः प्राज्ञः सौख्यान्वितो विपुलभोगी ।एकादशे बुधे स्याद्बह्वायुः ख्यातिमान् पुरुषः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनसुगृहीतवाक्यमलसं परिभूतं वाग्मिनं तथा प्राज्ञम् ।व्ययगः करोति सौम्यः पुरुषं दीनं नृशंसं च ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनहोरासंस्थे जीवे सुशरीरः प्राणवान् सुदीर्घायुः ।सुसमीक्षितकार्यकरः प्राज्ञो धीरस्तथार्यश्च ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनधनवान् भोजनसारो वाग्मी सुवपुः सुवाक् सुवक्त्रश्च ।कल्याणवपुस्त्यागी सुमुखो जीवे भवेद्धनगे ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनअतिपरिभूतः कृपणः सदाजितो मानवो भवति जीवे ।मन्दाग्निस्त्रीविजितो दुश्चिक्ये पापकर्मा च ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनस्वजनपरिच्छदवाहनसुखमतिभोगार्थसंयुतो भवति ।श्रेष्ठः शत्रुविषादी चतुर्थसंस्थे सदा जीवे ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनसुखसुतमित्रसमृद्धः प्राज्ञो धृतिमांस्तथा विभवसारः ।पञ्चमभवने जीवे सर्वत्र सुखी भवति जातः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनसन्नोदराग्निपुंस्त्वः परिभूतो दुर्बलोऽलसः षष्ठे ।स्त्रीविदितो रिपुहन्ता जीवे पुरुषोऽतिविख्यातः ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनसुभगः सुरुचिरुदारः पितुरधिकः सप्तमे भवति जातः ।वक्ता कविः प्रधानः प्राज्ञो जीवे सुविख्यातः ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनपरिभूतो दीर्घायुर्भृतको दासोऽथवा निधनसंस्थे ।स्वजनप्रेष्यो दीनो मलिनस्त्रीभोगवान् जीवे ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनदैवतपितृकार्यरतो विद्वान् सुभगो भवेत्तथा नवमे ।नृपमन्त्री नेता वा जीवे जातः प्रधानश्च ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनसिद्धारम्भो मान्यः सर्वोपायः कुशलसमृद्धश्च ।दशमस्थे त्रिदशगुरौ सुखधनजनवाहनयशोभाक् ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनअपरिमितायद्वारो बहुवाहनभृत्यसंयुतः साधुः ।एकादशभे जीवे न चातिविद्यो न चातिसुतः ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनअलसो लोकद्वेष्यो ह्यपगतवाग्दैवपक्षभग्नो वा ।परितः सेवानिरतो द्वादशसंस्थे गुरौ भवति ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनसुनयनवदनशरीरं सुखितं दीर्घायुषं तथा भीरुम् ।युवतिजननयनकान्तं जनयति होरागतः शुक्रः ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनप्रचुरान्नपानविभवं श्रेष्ठविलासं तथा सुवाक्यं च ।कुरुते द्वितीयराशौ बहुधनसहितं सितः पुरुषम् ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनसुखधनसहितं शुक्रो दुश्चिक्ये स्त्रीजितं तथा कृपणम् ।जनयति मन्दोत्साहं सौभाग्यपरिच्छदातीतम् ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनबन्धुसुहृत्सुखसहितं कान्तं वाहनपरिच्छदसमृद्धम् ।ललितमदीनं सुभगं जनयति हिबुके नरं शुक्रः ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनसुखसुतमित्रोपचितं रतिपरमतिधनमखण्डितं शुक्रः ।कुरुते पञ्चमराशौ मन्त्रिणमथ दण्डनेतारम् ॥ ६६ ॥
- श्लोक 67कुंडली के 1 पठनअधिकमनिष्टं स्त्रीणां प्रचुरामित्रं निराकृतं विभवैः ।विक्लवमतीव नीचं कुरुते षष्ठे भृगोस्तनयः ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनअतिरूपदारसौख्यं बहुरूपं कलहवर्जितं पुरुषम् ।जनयति सप्तमधामनि सौभाग्यसमन्वितं शुक्रः ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनदीर्घायुरनुपमसुखः शुक्रे निधनाश्रिते धनसमृद्धः ।भवति पुमान् नृपतिसमः क्षणे क्षणे लब्धपरितोषः ॥६९॥
- श्लोक 70कुंडली के 1 पठनसममायततनुवित्तो दारयुवतिसुखसुहृज्जनोपेतः ।भृगुतनये नवमस्थे सुरातिथिगुरुप्रसक्तः स्यात् ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनउत्थानविवादजिताः सुखरतिभावार्थकीर्तयो यस्य ।दशमस्थे भृगुतनये भवति पुमान् बहुमतिख्यातः ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनप्रतिरूपदासभृत्यं बह्वायं सर्वशोकसन्त्यक्तम् ।जनयति भवभवनगतो भृगुतनयः सर्वदा पुरुषम् ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनअलसं सुखिनं स्थूलं पतितं मृष्टाशिनं भृगोस्तनयः ।शयनोपचारकुशलं द्वादशगः स्त्रीजितं जनयेत् ॥ ७३ ॥
- श्लोक 74कुंडली के 2 पठनस्वोच्चस्वकीयभवने क्षितिपालतुल्योलग्नेऽर्कजे भवति देशपुराधिनाथः ।शेषेषु दुःखगदपीडित एव बाल्येदारिद्र्यकर्मवशगो मलिनोऽलसश्च ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनविकृतवदनोऽर्थभोक्ता जनरहितो न्यायकृत्कुटुम्बगते ।पश्चात्परदेशगतो जनवाहनभोगवान् सौरे ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनमलिनः संस्कृतदेहो नीचोऽलसपरिजनो भवति सौरे ।शूरो दानानुरतो दुश्चिक्यगते विपुलबुद्धिः ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठनपीडितहृदयो हिबुके निर्बान्धववाहनार्थमतिसौख्यः ।बाल्ये व्याधितदेहो नखरोमधरो भवेत् सौरे ॥ ७७ ॥
- श्लोक 78कुंडली के 1 पठनसुखसुतमित्रविहीनं मतिरहितमचेतसं त्रिकोणस्थः ।सोन्मादं रवितनयः करोति पुरुषं सदा दीनम् ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनप्रबलमदनं सुदेहं शूरं बह्वाशिनं विषमशीलम् ।बहुरिपुपक्षक्षपितं रिपुभवनगतोऽर्कजः कुरुते ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठनसततमनारोग्यतनुं मृतदारं धनविवर्जितं जनयेत् ।द्यूनेऽर्कजः कुवेषं पापं बहुनीचकर्माणम् ॥ ८० ॥
- श्लोक 81कुंडली के 1 पठनकुष्ठभगन्दररोगैरभितप्तं ह्रस्वजीवितं निधने ।सर्वारम्भविहीनं जनयति रविजः सदा पुरुषम् ॥ ८१ ॥
- श्लोक 82कुंडली के 1 पठनधर्मरहितोऽल्पधनिकः सहजसुतविवर्जितो नवमसंस्थे ।रविजे सौख्यविहीनः परोपतापी च जायते मनुजः ॥८२॥
- श्लोक 83कुंडली के 1 पठनधनवान् प्राज्ञः शूरो मन्त्री वा दण्डनायको वाऽपि ।दशमस्थे रवितनये बृन्दपुरग्रामनेता च ॥ ८३ ॥
- श्लोक 84कुंडली के 1 पठनबह्वायुः स्थिरविभवः शूरः शिल्पाश्रयो विगतरोगः ।आयस्थे भानुसुते धनजनसम्पद्युतो भवति ॥ ८४ ॥
- श्लोक 85कुंडली के 1 पठनविकलः पतितो मुखरो विषमाक्षो निर्घृणो विगतलज्जः ।व्ययभवनगते सौरे बहुव्ययः स्यात् सुपरिभूतः ॥ ८५ ॥
- श्लोक 86पापा निघ्नन्ति मूर्त्यादीन् भावान् पुष्णन्ति शोभनाः ।विपरीतं रिपूरन्ध्रव्ययेषु सदसत्फलम् ॥ ८६ ॥
- श्लोक 87योगा ये बलयोगाः सौम्यसुहृद्रिपुनिरीक्षणाच्चैव ।उच्चादिभवनसंस्थैर्ग्रहैश्च फलमन्यथा भवति ॥ ८७ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।