अध्याय 32: भाग्यचिन्ता
सारावली · Saravali (Fortune (the 9th house))
112 श्लोक
- श्लोक 1सर्वमपहाय चिन्त्यं भाग्यर्क्षं प्राणिनां विशेषेण ।भाग्यं विना न जन्तुर्यस्मात्तद्यत्नतो वक्ष्ये ॥ १ ॥
- श्लोक 2लग्नान्निशाकराद्वा यन्नवमं तद्गृहं भवेद्भाग्यम् ।अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात् ॥ २ ॥
- श्लोक 3भाग्यर्क्षपतिः कस्मिन्नेको भाग्यर्क्षमाश्रितो विहगः ।बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेयः ॥ ३ ॥
- श्लोक 4कुंडली के 2 पठनस्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम् ।अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनदुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रहः पश्येत् ।होरागतश्च बलवान् येषां ते मानवाः श्रेष्ठाः ॥ ५ ॥
- श्लोक 6कुंडली के 4 पठनदेवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्यः ।भोगी कान्तः शशिना काञ्चनभा भवति भौमेन ॥ ६ ॥
- श्लोक 7कुंडली के 3 पठनसौम्येन धनी ज्ञेयः सितेन गोवाहनार्थसंयुक्तः ।सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्तः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण ।रविरुधिराभ्यां दृष्टे वाहनपरिवारवान् पुरुषः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनचन्द्रार्काभ्यां दृष्टे सुसमृद्धो वल्लभः पितृजनन्योः ।ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वितः पुरुषः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनललितः कान्तः सुभगो वरयुवतिविभूषणार्थसम्पन्नः ।बुधसूर्याभ्यां दृष्टे काव्यकलापण्डितः प्राज्ञः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनउत्सवसमाजशीलो गोमहिषाजवरवारणोपेतः ।रविसितदृष्टे जीवे भाग्यस्थे स्याद्विनीतश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनअर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायकः ख्यातः ।प्राज्ञो गुणवान् सधनो निधिनाथः संग्रहणशीलः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनसेनाचार्यः स्फीतो मन्त्री वा जायते गुरौ भाग्ये ।दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभगः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनउत्तमगृहशयनानां भोगी तेजोन्वितः क्षमाप्रतिमः ।चन्द्रबुधाभ्यां दृष्टे जातः पुरुषोऽतिमतियुक्तः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनआढ्यः कर्मोद्युक्तः शूरः परदारवान् सुतविहीनः ।इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्याद्गुरौ जातः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनमदबहुलस्थिरजीवी परदेशरतो विवादशीलः स्यात् ।अनृतवचनो गुणोनः शशियमदृष्टे गुरौ भाग्ये ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसुप्राज्ञोऽतिसुशीलः सुगुणो विद्वान् गृहीतवाक्यश्च ।सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनधनवान्विद्यायुक्तो विदेशगः सात्विकोऽतिनिपुणश्च ।क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जातः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठननीचः पिशुनो द्वेष्यो विदेशगश्चलजनैः समायुक्तः ।भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जातः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनशिल्पज्ञोऽतिसुशीलो विद्वान् सुभगो गृहीतवाक्यश्च ।सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनसुभगो विद्वान् वक्ता ललितः शूरः सुखी विनीतश्च ।जीवे भाग्योपगते बुधार्किदृष्टे पुमान् भवति ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनदेवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान् भवति ।राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च ॥ २२ ॥
- श्लोक 23राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृणां ज्ञेयम् ।एभिः कथितैर्दृष्टे फलमिदमन्यैरसन्दृष्टे ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनउत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभवः ।देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनभाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेयाः ।स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठननीचारिराशिसंस्थाः पापा भाग्ये न सौम्यसंदृष्टाः ।दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनस्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्षसंस्थिता ये स्युः ।ज्ञेयास्त उत्तमशुभा बहुतरगुणसंयुताः शुभैर्दृष्टाः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनपूर्णेन्दुयुते भाग्ये वक्रार्किबुधाः प्रधानवीर्याश्च ।व्यस्ता वाऽथ समस्ताः प्रधाननृपसंभवो ज्ञेयः ॥ २८ ॥
- श्लोक 29कुंडली के 2 पठनसकलगगनगेहाः स्वोच्चगा भाग्यराशौधनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति ।अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रंविनिहतरिपुपक्षं दिव्यकान्तिं सुकीर्त्तिम् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनसूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते ।नयनव्याधितमाढ्यं सुभगं कलहप्रियं चापि ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनभानुर्वक्रसमेतो नानादुःखान्वितं नरं कुरुते ।कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम् ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनरविसहितः शशितनयो निपुणं दुःखान्वितं बहुविपक्षम् ।जनयति भाग्ये पुरुषं नानारोगैः परिगृहीतम् ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनसुरगुरुसहितः सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम् ।पितरं च धनसमृद्धं दीर्घायुषमार्यमतिशूरम् ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनशुक्रसहायः सूर्यो व्याधितदेहं नरं कुरुते ।प्रियगन्धमाल्यभूषणवस्त्रालङ्कारसंयुतं भाग्ये ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनसूर्यः सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम् ।व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम् ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनचन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात् ।कुर्याच्च विकलगात्रं सव्रणदेहं समृद्धं च ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनचन्द्रः स्वसुतसमेतः शास्त्रज्ञं पण्डितं विकलदेहम् ।जनयत्युत्तमपुरुषं बहुवाचं विश्रुतं चैव ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनसुरगुरुसहिते चन्द्रे भाग्ये प्रवरः प्रसूयते पुरुषः ।सौभाग्यधनसमृद्धः सर्वत्र सुखान्वितो धीरः ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनचन्द्रो भार्गवसहितो भाग्यगृहे व्याधितं नरं कुरुते ।कुलटापतिं समृद्धं मातृसपत्नीप्रदं सचिववश्यम् ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनरविसुतसहितश्चन्द्रो नवमे राशौ विकृष्टधर्माणम् ।जनयति मनुजं पापं माता च कुलच्युता भवति ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनरुधिरः सोमजसहितो भाग्यर्क्षे जनयति प्रधानं च ।नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनभौमः सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम् ।पूज्य व्याधितदेहं क्लिष्टं व्रणदीक्षितं प्रसवे ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनभार्गवसहितः क्षितिजः परदेशरतं विवादिनं क्रूरम् ।स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनपापं मलिनाचारं परदाररतं विनष्टधनसौख्यम् ।कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनसौम्यः सुरगुरुसहितः शास्त्रज्ञं पण्डितं धनसमृद्धम् ।प्रियवादिनं कलाज्ञं प्रभविष्णुमहत्तरं भाग्ये ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनभृगुसुतसहितः सौम्यः ख्यातं च सुपण्डितं धीरम् ।सुभगं वचनसमर्थं जनयति नीतिप्रियं भाग्ये ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनसूर्यजसहितः सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम् ।जनयति भाग्ये पुरुषं सद्द्वेष्यं बहुकथं चैव ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनशुक्रः सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते ।चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम् ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनजीवः सौरसहायो भाग्ये धनरत्नभागिनं कुरुते ।पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम् ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनसौरसहायः शुक्रो व्याधितदेहं नरं कुरुते ।बहुपुत्रं नृपतीष्टं यशस्विनं शीलसम्पन्नम् ॥ ५० ॥
- श्लोक 51एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य ।ब्रूयात्फलनिर्देशं शास्त्रादनुरूपतः प्राज्ञः ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनसव्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्युः ।बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनरविचन्द्रबुधा भाग्ये क्लीबाकारं सुदुःखितं कुर्युः ।सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनचन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य ।स भवत्युत्तमपुरुषो वाहनधनसौख्यसम्पन्नः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनरविचन्द्रसिता नवमे स्त्रीकलहैर्नष्टसर्वधनसौख्यम् ।नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम् ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनसूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्युः ।प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम् ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनरविभौमबुधा नवमे कुर्वन्ति नरं प्रियालापम् ।भुजगमिवातिक्रुद्धं समरपरं निष्ठुरं प्रवासरतम् ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनरविगुरुवक्रा नवमे जनयन्ति नरं सदोद्युक्तम् ।देवपितृपूजनरतं समृद्धदारं गुणोपेतम् ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनकलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च ।दिवसकरवक्रशुक्रा नवमे द्वेष्यं नरं कुर्युः ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनसाहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम् ।पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभानवो नवमे ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनरविबुधगुरवो नवमे भाग्यसमेतं धनान्वितं सुभगम् ।नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनरविबुधशुक्रा भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम् ।रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनपरदाररतं पापं प्रवासशीलं च निपुणमतिधृष्टम् ।आनृतिकमदैवपरं रविबुधसौरा नरं भाग्ये ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनभाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम् ।बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम् ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनत्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य ।स भवेदुत्तमवीर्यो राजा धनवान् गुणैः समृद्धश्च ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनकान्तिविहीनं मलिनं भूपतिपरिदण्डितं विभवहीनम् ।जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम् ॥ ६६ ॥
- श्लोक 67कुंडली के 1 पठनधनकनकरत्नभाजं जनयन्ति शशिज्ञभूमिजाः पुरुषम् ।प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनभौमनिशाकरजीवाः कुर्वन्ति नरं जितेन्द्रियं प्राज्ञम् ।गुरुदेवभक्तिनिरतं विद्याधनभागिनं सुभगम् ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनव्रणितांगमरूपं वा प्रभेदिनं स्त्रीप्रियं युवतिवश्यम् ।युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे ॥ ६९ ॥
- श्लोक 70कुंडली के 1 पठनव्यापन्नमातृवंशं क्षुद्रं बाल्ये निराकृतं मात्रा ।सौरो भौमश्चन्द्रो जनयन्ति नराधमं नवमे ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनगुरुबुधचन्द्रा नवमे कुलवंशविवर्धनं कुर्युः ।आचार्यं बहुमित्रं नृपतिं बहुसाधनोपेतम् ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनमातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम् ।कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनशशिबुधसौरा नवमे क्रूराचारं सुविक्रमं मलिनम् ।जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम् ॥ ७३ ॥
- श्लोक 74कुंडली के 1 पठनचन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य ।स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनशशिगुरुसौरा नवमे कुर्वन्ति नरं प्रियालापम् ।सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनशुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम् ।कुर्युर्मनुजमपापं नृपकृत्यं लोकविख्यातम् ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठनतेजस्विनं विशोकं विद्वांसं वाक्स्थिरं विशिष्टं वा ।कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम् ॥ ७७ ॥
- श्लोक 78कुंडली के 1 पठनबहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम् ।कुजबुधशुक्रा भाग्ये कुर्वन्ति नरं सतां सत्यम् ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनपरवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम् ।बुधभौमयमा नवमे कुर्युः परतर्कसंमूढम् ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठनबुधगुरुशुक्रा भाग्ये जनयन्ति नरं सुरोपमं विशदम् ।विख्यातं नरनाथं विद्वांसं धर्मशीलं च ॥ ८० ॥
- श्लोक 81कुंडली के 1 पठनशुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति ।मेधाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम् ॥ ८१ ॥
- श्लोक 82कुंडली के 1 पठनशनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति ।प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च ॥ ८२ ॥
- श्लोक 83कुंडली के 1 पठनरविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्युः ।धनिनं विद्याकुशलं सुभगं नृपसंमतं चैव ॥ ८३ ॥
- श्लोक 84कुंडली के 1 पठनशुक्रेन्दुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम् ।जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम् ॥ ८४ ॥
- श्लोक 85कुंडली के 1 पठनशशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिताः कुर्युः ।पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा दृष्टम् ॥ ८५ ॥
- श्लोक 86कुंडली के 1 पठनचन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिकं समृद्धंच ।जनयन्ति नवमसंस्थाः पुरुषं प्रियवादिनं शान्तम् ॥ ८६ ॥
- श्लोक 87तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्युः ।..........................................— ॥ ८७ ॥
- श्लोक 88कुंडली के 1 पठनरविगुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति ।देवपितृपूजनपरं समृद्धदारं गुणोपेतम् ॥ ८८ ॥
- श्लोक 89कुंडली के 1 पठनशुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम् ।साहसनिरतं विधनं रिपुपक्षक्षपितविभवं च ॥ ८९ ॥
- श्लोक 90कुंडली के 1 पठनरविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य ।स भवति परदाररतो विनष्टकोशः सदा दीनः ॥ ९० ॥
- श्लोक 91कुंडली के 1 पठनशुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्त्तम् ।जनयन्ति नवमसंस्थाः कन्यानां दूषकं चपलचित्तम् ॥ ९१ ॥
- श्लोक 92कुंडली के 1 पठनगुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम् ।जनयन्ति नरं चण्डं विक्रमयुक्तं महासत्वम् ॥ ९२ ॥
- श्लोक 93कुंडली के 1 पठनरविबुधजीवसिताः स्युर्नवमे यस्येह जायमानस्य ।स भवत्युत्तमपुरुषो धनकनकैश्वर्यसम्पन्नः ॥ ९३ ॥
- श्लोक 94कुंडली के 1 पठनभानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम् ।पापं परदाररतं विद्विष्टं नीचकर्माणम् ॥ ९४ ॥
- श्लोक 95कुंडली के 1 पठनबुधरविजरविसिताः स्युर्भाग्यस्थाने नरं सुभगम् ।जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम् ॥ ९५ ॥
- श्लोक 96कुंडली के 1 पठनरविगुरुसितभानुसुता जन्मनि नवमर्क्षगा नरं कुर्युः ।सत्यव्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम् ॥ ९६ ॥
- श्लोक 97कुंडली के 1 पठनचन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम् ।बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये ॥ ९७ ॥
- श्लोक 98कुंडली के 1 पठनभौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम् ।वाग्मिनमतिदातारं परलोकपरं महाप्राज्ञम् ॥ ९८ ॥
- श्लोक 99कुंडली के 1 पठनरविजबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम् ।क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये ॥ ९९ ॥
- श्लोक 100कुंडली के 1 पठनभौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम् ।विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव ॥ १०० ॥
- श्लोक 101कुंडली के 1 पठनशशिवक्रार्किसुरेज्या जनयन्ति नरं पिपासार्तम् ।कलहप्रियं च नवमे सौभाग्यपरिच्छदातीतम् ॥ १०१ ॥
- श्लोक 102कुंडली के 1 पठनचन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम् ।मायाविनं च पुरुषं शौचाचारैर्विहीनं च ॥ १०२ ॥
- श्लोक 103कुंडली के 1 पठनसितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम् ।जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च ॥ १०३ ॥
- श्लोक 104कुंडली के 1 पठनभानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम् ।भाग्यस्थिताः समृद्धं नीतिज्ञं चारुवेषं च ॥ १०४ ॥
- श्लोक 105कुंडली के 1 पठनशनिशुक्रबुधशशाङ्का जन्मनि भाग्यस्थिता नरं कुर्युः ।मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम् ॥ १०५ ॥
- श्लोक 106कुंडली के 1 पठनचन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिताः प्रकुर्वन्ति ।मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम् ॥ १०६ ॥
- श्लोक 107कुंडली के 1 पठनभौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्युः ।रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च ॥ १०७ ॥
- श्लोक 108कुंडली के 1 पठनभौमज्ञशुक्रशनयः कुर्वन्ति दशानुगतं सुशीलं च ।जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं च ॥ १०८ ॥
- श्लोक 109कुंडली के 1 पठनभौमभृगुजीवरविजा जनयन्ति नरं धनैः परित्यक्तम् ।क्षुद्रं दयाविरहितं विहीनसत्वं स्थिता भाग्ये ॥ १०९ ॥
- श्लोक 110कुंडली के 1 पठनत्रिचतुःपञ्चखगेन्द्रास्तथा च षट् सप्त संस्थिता भाग्ये ।प्रात्ययिकं धनवन्तं कुर्युर्नृपतिं च बुधसहिताः ॥ ११० ॥
- श्लोक 111कुंडली के 1 पठनजनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् ।व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥ १११ ॥
- श्लोक 112उक्तं बहुप्रकारं भाग्यगृहे बादरायणादिकृतम् ।ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत् ॥ ११२ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।