अध्याय 33: कर्मचिन्ता
सारावली · Saravali (Livelihood and work (the 10th house))
82 श्लोक
- श्लोक 1लग्नाद्दशमे राशौ कर्मफलं यत्प्रकीर्तितं मुनिभिः ।राशिग्रहस्वभागैर्ग्रहदृष्ट्या तदहमपि वक्ष्ये ॥ १ ॥
- श्लोक 2होरेन्द्वोर्बलयोगाद्यो दशमस्तत्स्वभावजं कर्म ।तस्याधिपपरिवृद्ध्या वृद्धिर्ज्ञेयाऽन्यथा हानिः ॥ २ ॥
- श्लोक 3जाङ्गलमथवानूपं तथोभयं वा गृहं परीक्षेत ।ग्राम्यमथारण्यं वा सौम्यर्क्षं पापभवनं वा ॥ ३ ॥
- श्लोक 4द्विपदचतुष्पदरूपं सरीसृपं वा तथोभयं चैव ।यद्रूपं तद्भवनं यादृशकं यत्स्वभावं च ॥ ४ ॥
- श्लोक 5प्रवदेत्तत्समदेशे कर्मप्राप्तिं नरस्य तत्सदृशीम् ।तस्माद्दशमं भवनं प्रसवे बुध्येत यत्नेन ॥ ५ ॥
- श्लोक 6दशमे नक्षत्रपति(ते)र्लग्नात्पुरुषस्य कर्म संभवति ।सर्वारम्भे वृत्तिं विनिर्दिशेत्तस्य जातस्य ॥ ६ ॥
- श्लोक 7द्व्यन्तरयोगाध्याये कथितं कर्मस्थितैर्ग्रहैर्लग्नात् ।चन्द्रादत्र विशेषो ग्रहैः स्थितैर्व्यक्तमिह वक्ष्ये ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनचन्द्राद्दशमे सूर्यः सिद्धारम्भं धनैः समृद्धं च ।जनयत्युत्तमसत्वं नृपतिमुदग्रं धनाश्रयं पुष्टम् ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनभौमः साहसनिरतं प्रत्यन्तनिवासिनं विषयलुब्धम् ।क्रूरं निषादचरितं जनयति दशमे स्थितः पुरुषम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनविद्वांसं धनवन्तं बहुश्रुतं नृपतिनायकं ख्यातम् ।जनयति सौम्यो दशमे पुरुषं बहुशिल्पिनं प्राज्ञम् ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनगुरुरपि दशमस्थाने सिद्धार्थं धार्मिकं धनसमृद्धम् ।जनयत्युत्तमचरितं नरेन्द्रसचिवं नरं ख्यातम् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनशशिनो दशमे शुक्रः सुभगं ललितं च वित्तवन्तं च ।जनयति सिद्धारम्भं धनिनं नृपपूजितं पुरुषम् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनसौरो व्याधितदेहं निःस्वं दुःखान्वितं प्रजाहीनम् ।कर्मसु नित्योद्विग्नं जनयति दशमे स्थितः पुरुषम् ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनभानुर्भौमसमेतः कर्मकरान् कासशोषगदबहुलान् ।ज्योतिर्विदः प्रकुर्याल्लाक्षणिकांस्तार्किकांश्चापि ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनसूर्यः सौम्यसमेतो वस्त्रालङ्कारभागिनं वणिजम् ।जनयति मेषूरणगः पुरुषं जलजीविनं वाऽपि ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनजीवसहायः सूर्यः सिद्धारम्भान्नरेन्द्रमान्यांश्च ।जनयति दशमे पुरुषान् वीरान् शूरान् सुविख्यातान् ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसूर्यसहायः शुक्रो दशमे स्वजनाश्रितं नरं कुरुते ।स्त्रीसंश्रयात्समृद्धं सुभगं नृपवल्लभं चापि ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनसूर्यः स्वपुत्रसहितो दशमे वधबन्धभागिनं भृतकम् ।जनयति दीनं कृपणं चोरैर्मुषितं प्रलापकरम् ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनभौमः सोमजसहितो जनयति दशमे नरं बहुविपक्षम् ।अस्त्रकलावेत्तारं कौशलमतिजीविनं महाशूरम् ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनभौमः सुरगुरुसहितो दशमे कुरुते बलस्य नेतारम् ।मित्रेभ्यो लब्धधनं तदाश्रयाजीवितं धन्यम् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनजनयति विदेशनिरतं काञ्चनमुक्तादिभिर्वणिग्वृत्त्या ।भौमः शुक्रसमेतो दशमे स्त्रीसंश्रयाद्वाऽपि ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनभौमः सौरसहायो जनयति दशमे स्थितो नरं प्रसवे ।साहसशीलं क्षुद्रं कर्मायुक्तं रुजा सहितम् ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनसधनं नरेन्द्रपूज्यं धर्मिष्ठं वृन्दनायकं ख्यातम् ।जीवः सौम्यसहायो जनयति मेषूरणे पुरुषम् ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनसौम्यः शुक्रसहायो जनयति दशमे सुहृज्जनोपेतम् ।विद्यास्त्रीधनसौख्यं नृपसचिवं विषयनाथं वा ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनसौम्यः सौरसहायो मृद्भाण्डकरं करोति दशमस्थः ।ख्यातं विद्याचार्यं पुस्तकलिपिलेख्यकारं च ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनवचसां पतिः सितयुतः कर्मणि कुरुते नरेन्द्रवरभृत्यम् ।ब्राह्मणपतिं विशोकं विद्याचार्यं समर्थं च ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनसुरराजगुरुः सार्किर्दशमे नीचं परोपकाररतम् ।कुरुते प्रवृद्धचेष्टं स्थिरास्पदं सुस्थिरारम्भम् ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनशुक्रः सौरसहायश्चित्रकरं गन्धजीविनं वैद्यम् ।जनयति दशमे पुरुषं नीलकरं चूर्णकारं च ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनरविभौमचन्द्रपुत्राश्चन्द्राद्दशमस्थिता नरं धन्यम् ।जनयन्त्युत्तमपुरुषं नृपतिसमं सर्वजनपूज्यम् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनरविभौमदेवपूज्या दशमस्थाने नरं सुभगम् ।शत्रूणां हन्तारं जनयन्ति समृद्धिसंयुक्तम् ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनचन्द्राद्दशमे भानुर्भूपुत्रो भार्गवश्च जनयन्ति ।क्रूरं साहसनिरतं पुरधनकरणेऽतिनिपुणमतिम् ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनभानुजरविभूपुत्रा दशमस्थाः क्रूरकर्मनिरतं तु ।उत्पादयन्ति मनुजं मूढं पापं दुराचारम् ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनरविबुधगुरवो दशमे विद्वांसं रूपसंयुक्तम् ।उत्पादयन्ति पुरुषं धर्मिष्ठं बन्धुवल्लभं चैव ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनबुधसूर्यभार्गवसुता यशस्विनं धार्मिकं विगतरोषम् ।जनयन्त्यपराभूतं सौभाग्यपरिच्छदसमृद्धम् ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनरविबुधशनयो दशमे क्रूरं चपलं नरं विशीलं च ।उत्पादयन्ति नियतं शस्त्राग्निपरिक्षताङ्गं च ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनरविभृगुजदेवपूज्या दशमस्थानोपगा नरं कुर्युः ।सुभगं विद्याप्तधनं धर्मरतं भोगभागिनं नित्यम् ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनत्रिदशगुरुमन्दसूर्या दशमे युक्ता नरं प्रकुर्वन्ति ।प्रायेण लोकमान्यं चारित्रविलोपिनं धीरम् ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनभार्गवरविभानुसुता दशमस्थानोपगा नरं कुर्युः ।लोभान्वितमतिचपलं समस्तजनविप्रयुक्तं च ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनभौमेन्दुजसुरपूज्या धर्मिष्ठं बहुकुटुम्बपरिवारम् ।जनयन्ति दशमसंस्था विद्याधनभागिनं पुरुषम् ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनशोभनशिल्पाभिरतान्मालाकारान्सुवर्णकारांश्च ।कुर्युर्बुधभृगुवक्रा दशमस्थाः सर्वलोकदयितांश्च ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनभौमबुधसूर्यपुत्रा जनयन्ति तथा न धर्मशीलं च ।निद्रानिरतं प्रखलं दशमस्थानोपगा नरं मलिनम् ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनभार्गवसुरेज्यभौमा दशमस्थानाश्रिता नरान्कुर्युः ।धनसंयुक्तान्शूरान्देवद्विजपूजनानुरतान् ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनविद्याधनजनहीनान्कापुरुषान्सौख्यवर्जितान् विकलान् ।जीवाङ्गारकसौरा दशमे कुर्युर्नरान्नीचान् ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनसचिवानुत्तमपुरुषान्वनधर्मरतांश्च धनिनश्च ।भौमभृगुसूर्यपुत्राः कुर्वन्ति नराननेककर्मरतान् ॥ ४४ ॥
- श्लोक 45कुंडली के 2 पठनशुक्रबृहस्पतिसौम्या दशमे पुरुषस्य शुक्रराशिस्थाः ।बहुविधमिष्टं कुर्युर्व्याधिं चाप्यन्यगृहसंस्थाः ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनलिपिलेख्यकाव्यनिरतं धनवन्तं बहुविधेयभृत्यं च ।अटनप्रियं सुरूपं बुधगुरुसौरा नरं दशमे ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनदशमे विज्ञानयुतान्मल्लान्परदेशनिरतांश्च ।कुर्युर्बुधभृगुरविजाः कर्मोद्युक्तं सदा दान्तम् ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनविद्वांसं धर्मरतं दयान्वितं सत्यवन्तं च ।भानुजगुरुभृगुपुत्रा दशमस्थानोपगा नरं कुर्युः ॥ ४८ ॥
- श्लोक 49एवं त्र्यादिषु वाच्यं जन्मनि पुंसां फलं हि कर्मोत्थम् ।त्र्यादिग्रहसंयोगेऽत्र विशेषस्तमपि वक्ष्ये ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनरविभौमबुधसुरेज्या दशमस्थानोपगा नरं कुर्युः ।शूरं विक्षतगात्रं दातारं सर्वकर्मरतम् ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनवक्रार्कशुक्रसौम्याश्चन्द्राद्दशमं समाश्रिताः प्रसवे ।कुर्युर्निर्माल्यकरान् लेख्यकरांश्चापि चित्रकर्मकरान् ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनरविकुजबुधभानुसुता दशमस्थानस्थिताः प्रसवकाले ।उत्पादयन्ति पुरुषं धनवाहनवारणोपेतम् ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनरविजीवशुक्रसौम्या जनयन्ति नभःस्थिता नरान्सौम्यान् ।कुत्सितवृत्तीनामपि सुतान्वरान्कर्षणोपेतान् ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनरविजीवसौम्यसौरा दशमस्थानस्थिताः कुर्युः ।पुरुषं मायानिपुणं क्रूरं परवञ्चनानुरतम् ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनरविसितबुधभानुसुताश्चन्द्राद्दशमस्थिता नरं कठिनम् ।उत्पादयन्ति सुभगं वाग्मिनमथ कर्षणानुरतम् ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनरविगुरुभार्गवशनयो मेषूरणसंस्थिताः प्रसवकाले ।उत्पादयन्ति मनुजं प्रवासशीलं विविधचेष्टम् ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनभौमसितबुधसुरेड्या जन्मनि दशमर्क्षगा नरं निपुणम् ।उत्पादयन्ति चतुरं शूरं समरेष्वधृष्यं च ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनभौमबुधमन्दगुरवो जन्मनि दशमस्थिता नरं मलिनम् ।जनयन्ति नरोद्युक्तं संग्रामे रिपुविनाशकरम् ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनभौमबुधशुक्रसौरा नभःस्थले संश्रिताः प्रसवकाले ।विद्याबहुलं शूरं जनयन्ति नरं विशालाङ्गम् ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनभौमगुरुशुक्रमन्दाश्चन्द्रान्मेषूरणर्क्षगाः प्रसवे ।जनयन्ति नरं धीरं कुटुम्बयुक्तं धनोपेतम् ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनबुधगुरुभार्गवशनयो जन्मनि दशमस्थिताः कुर्युः ।पुरुषं शान्तमनस्कं सुमेधसं लोकदयितं च ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनपापैर्नभःस्थलस्थैः सौम्यग्रहवीक्षितैः प्रजायन्ते ।वैद्यपुरोहितगणकाः चण्डाः परवञ्चनानुरताः ॥ ६२ ॥
- श्लोक 63एते समस्तयोगाः सौम्यग्रहवीक्षिताः प्रशस्यन्ते ।पापग्रहदृष्टियुताः प्रायेण न भद्रकाः प्रोक्ताः ॥ ६३ ॥
- श्लोक 64कुंडली के 2 पठनपापास्तृतीयषष्ठा होरेन्दुस्थानतो नृणामिष्टाः ।नेष्टा निधनान्त्यगता लग्नोपगता विशेषेण ॥ ६४ ॥
- श्लोक 65होराशशिनोर्बलवान्यस्तस्मात्कर्मभेन वा कथयेत् ।यो बलयुक्तो वर्गस्तदधिपतेर्वाऽऽदिशेद्वृत्तिम् ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनआरामपुत्र(बुद्धि)सेवाकृषिरसवणिगर्कदूतकार्येण ।जीवन्ति नरा नित्यं मेषगणे दशमराशिस्थे ॥ ६६ ॥
- श्लोक 67कुंडली के 1 पठनवृषभगणे दशमस्थे शकटचतुष्पदविहङ्गमृगजीवी ।धान्यादिसङ्ग्रहेण च जाङ्गलदेशे फलं प्रायः ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनजलवणिजः सुसमृद्ध्या मुक्ताशङ्खप्रवालभाण्डैश्च ।लिपिगणितलेख्यजीवी नृमिथुनवर्गे दशमसंस्थे ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनशस्त्राग्नियोनिपोषणमुक्तासंख्योपजीवनं चैव ।आखेटकवृत्त्या वा कर्किणि वर्गे च दशमस्थे ॥ ६९ ॥
- श्लोक 70कुंडली के 1 पठनसन्नाहका मणीनां पाषाणस्वर्णरूप्यकूटाश्च ।कर्षणनिरता लेये गोजीवा धान्यवाणिजकाः ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनशाकटिका मणिकारा हैरण्या गन्धविक्रये निपुणाः ।गान्धर्वशिल्पलेख्यैः कन्यावर्गे सदा विभवाः ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनप्रायोज्यानुपदेशाद्धिरण्यपरिवर्त्तनाच्च मित्राय ।जायन्ते च मनुष्या नानाव्यवहारभागिनः सततम् ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनवाणिज्यविपणिजीवा गोजीवा महिषजीवाश्च ।नानापण्यसमृद्धाः सलिलोद्भवपण्यवृत्तयः ख्याताः ॥ ७३ ॥
- श्लोक 74कुंडली के 1 पठनधनधान्यमूलवणिजः फलमूलकृषीवलाश्चैव ।जायन्ते घटवर्गे दशमस्थानस्थिते कलावृत्ताः ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनस्त्रीसम्पर्कजविभवा जायन्ते कर्षणानुनिरताश्च ।नित्योद्युक्ताश्चोराः पृथिवीपतिसेवकाः पापाः ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनदेहचिकित्सानिरता लोहकरा जीविनोऽलिसंज्ञर्क्षे ।वर्गे नभस्तलगते धान्यानां चोपजीविनो नित्यम् ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठननृपसचिवदुर्गपालनगोजीवनवाजिकाष्ठशकुनैश्च ।यन्त्रोपस्करगणितैर्जीवन्ति नराश्चिकित्सया धनुषः ॥ ७७ ॥
- श्लोक 78कुंडली के 1 पठनदशमे कुरङ्गवर्गे जलपण्यधनो भवेन्महाविभवः ।खट्वा रामारोपणरसायनैर्वर्त्तते जातः ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनशस्त्रदहनप्रभेदैश्चौर्येण च वर्त्तते खननवृत्त्या ।दशमे घटधरवर्गे भारवहस्कन्धबाहुबलात् ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठनशस्त्रात्सलिलाद्योनिप्रपोषणादश्वविक्रयाद्वाऽपि ।वर्गे मीनप्रभवे दशमस्थे जायते वृत्तिः ॥ ८० ॥
- श्लोक 81दिवसकराद्यैः खस्थैः शशिहोराभ्यां भवन्त्याढ्याः ।पितृमातृशत्रुहितजनसहजस्त्रीभृत्यवर्गेभ्यः ॥ ८१ ॥
- श्लोक 82होरागतैर्धनगतैरायगृहस्थैश्च चिन्तयेदर्थम् ।बलसंयुतैर्ग्रहेन्द्रैरनेकधा दृष्टमाचार्यैः ॥ ८२ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।