अध्याय 40: मूलदशाफलम्

सारावली · Saravali (Results of the mahadashas)

75 श्लोक

  1. श्लोक 1आयुषो येन यद्दत्तं सा दशा तस्य कीर्त्तिता ।स्वदोषगुणयोगेन स्वदशा सुफलप्रदा ॥ १ ॥
  2. श्लोक 2दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः ।मणित्थस्त्वाह तज्ज्ञानं फलसाम्ये न तद्दशाः ॥ २ ॥
  3. श्लोक 3लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः ।तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते ॥ ३ ॥
  4. श्लोक 4होरा दिनेशशशिनां प्रबलो भवेद्य-स्तत्कण्टकादिषु गताः कथिता दशेशाः ।पूर्वा दशाऽतिबलिनः सदृशेऽब्दवृद्धेःसाम्ये भवेच्च शरदां प्रथमोदितस्य ॥ ४ ॥
  5. श्लोक 5लग्नार्कशीतरश्मीनां यदि पूर्णबलं भवेत् ।तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनस्वोच्चस्वराशिनिजभागसुहृद्गृहस्थाःसम्पूर्णवीर्यरुचिरा बलिनः स्वकाले ।मित्रोच्चभागसहिताः शुभदृष्टियुक्ताःश्रेष्ठां दशां विदधति स्ववयःसु खेटाः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठननीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः ।विवर्णाः पापसंबन्धा दशां कुर्युरशोभनाम् ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 पठनतुङ्गाच्च्युतस्य हि दशा सुहृदुच्चांशेऽवरोहिणी मध्या ।नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा ॥ ८ ॥
  9. श्लोक 9सविता दशाफलानां पाचयिता चन्द्रमाः प्रपोषयिता ।राशिविशेषेणेन्दोरतः फलोक्तिर्दशारम्भे ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनमूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे ।पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः ॥ १० ॥
  11. श्लोक 11कुंडली के 2 पठनसौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे ।कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 2 पठनविद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ ।शौक्रेऽन्नपानमतुलं सौख्यं चन्द्रे विनाशं च ॥ १२ ॥
  13. श्लोक 13कुंडली के 2 पठनसुखधनमानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः ।परिणतवयसमरूपां सौरगृहे वर्धकीं वाऽपि ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनदुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम् ।सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादमरतिं च ॥ १४ ॥
  15. श्लोक 15कुंडली के 2 पठनबन्ध्वर्थक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम् ।दृष्टे तद्योनिसमैः शेषैश्चन्द्रे निशाफलैर्योगः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनपाकस्वामिनि लग्ने सुहृदां वर्गेऽथवाऽपि सौम्यानाम् ।श्रेष्ठदशायां सूतिर्लग्नादुपचयगृहस्थैर्वा ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनमित्रोच्चोपचयस्थाने त्रिकोणे सप्तमे तथा ।पाकेश्वरात् स्थितश्चन्द्रः कुरुते स्वफलां दशाम् ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनविपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते ।स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता ॥ १८ ॥
  19. श्लोक 19कुंडली के 2 पठनशत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च ।दशा मिश्रफला रिक्ता विबलस्य दशा मता ॥ १९ ॥
  20. श्लोक 20द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमा ।चरे मिश्रप्रतीपा च स्थिरे पापेष्टमध्यमाः ॥ २० ॥
  21. श्लोक 21चन्द्रावनेयसोमजसितजीवदिवाकरार्किहोराणाम् ।क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनस्वोच्चस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा ।उत्तमशुभफलदासौ ग्रहस्य नित्यं दशा भवति ॥ २२ ॥
  23. श्लोक 23कुंडली के 3 पठनस्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा ।स्वोच्चाभिलाषिणश्चैव मित्रराश्यादिसंस्थिते ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनशुभाधमदशा ज्ञेया विपरीतमतस्थिते ।अनेनैव विधानेन विज्ञेया पापदा दशा ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनभानुदशायां लभते नवौषधाध्वविषदौस्थ्यनैरर्थ्यात् ।गिरिदन्तचर्मवह्निक्रौर्यनरेन्द्राहवाद्यैश्च ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठननृपतेरर्थावाप्तिं धैर्यं भूयस्तथोद्यमं तैक्ष्ण्यम् ।ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनभृत्यार्थचोरचक्षुः शस्त्राग्न्युदकक्षितीश्वराद्बाधाः ।सुतपत्नीबन्धुजनैर्निपीडितः स्याच्च पापरतिः ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनक्षुत्तृष्णार्त्तिः शोको हृत्पीडा पैत्तिकास्तथा रोगाः ।गात्रच्छेदो भवति हि सूर्यदशायामनिष्टायाम् ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनचन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात् ।जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनद्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च ।अर्थविनाशमकस्मात् भूपसदो(?) द्वेष्यतां लभते ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनतैष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च ।मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम् ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनकुरुते भयं कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम् ।निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनभौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमर्दैः ।व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम् ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनक्षित्याजाविकर्तात्रिकस्वर्णावश्यादिभिस्तथा द्यूतैः ।आसवकषायकटुकै रसैश्च धनधान्यभाग्भवति ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनमित्रकलत्रविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च ।मूर्च्छा शोणितदोषः शाखाच्छेदो व्रणश्चापि ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनपरदाररतिर्द्वेष्यो गुरुसत्यानामधर्मनिरतश्च ।पित्तकृतैरपि दोषैरभिभूतो मानवो भवति ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनसौम्यदशायां प्राप्ते मित्रादाढ्याद्धनस्य सम्प्राप्तिः ।दीक्षितनृपतेर्द्यूताद्वणिक्जनाच्चापि सम्भवति ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनवेसरमहीसुवर्ण शुक्तिद्रव्यं यशः प्रशंसा च ।दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनधर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति ।गणितालेख्यलिपीनां कौतुकभागी सदा पुरुषः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनपीडां धातुत्रितयात् पारुष्यं बन्धनं तथोद्वेगम् ।मानसशोकं वाऽपि बुधस्य कष्टा दशा कुरुते ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनत्रिदशपतिगुरुदशायां मन्त्री नृपनृत्यनीतिभिर्वित्तम् ।मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनकान्तासुवर्णवेसरगजाश्वभोगी सदा पुरुषः ।माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनलाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम् ।जनताया नृपवक्त्रात्पण्याग्राद्गुरुजनाच्च धनलाभः ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनव्यजनातपत्रसुमनो वस्त्रध्वजपेयभक्षणादीनाम् ।गात्रक्षयपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च ।पुंस्त्वविनाशं मेदःक्षयं नृपतितो भयं समाप्नोति ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनशुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम् ।माल्याच्छादनभोजनयशःप्रमोदो निधिप्राप्तिः ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनगेयरतिः स्त्रीसङ्गो नृपतेः कृषितो धनस्य सम्प्राप्तिः ।ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम् ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनकुलगुणवृद्धैर्वादो यानासनसंभवानि पापानि ।स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सहप्रीतिः ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनसौरेर्दशां प्रपन्नः प्राप्नोति पुमान् खरोष्ट्रमहिषाद्यान् ।कुलटां जरदङ्गीं वा कुलुत्थतिलकोद्रवादींश्च ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनबृन्दग्रामपुराणामधिकारभवं च सत्कारम् ।लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनवाहननाशोद्वेगस्त्वरतिः स्त्रीस्वजनविप्रयोगश्च ।युद्धेष्वपजयदोषो मद्यद्यूतोद्भवो मरुत्कोपः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनपुण्येष्वसिद्धिंकलहं बन्धनतन्द्रीश्रमं तथाव्यङ्गम् ।भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरेः ॥ ५१ ॥
  52. श्लोक 52सौम्ये पापफलं प्रोक्तं सामान्यं स्वदशास्विदम् ।विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदतः ॥ ५२ ॥
  53. श्लोक 53स्वोच्चनीचत्रिकोणर्क्षं केन्द्रं शत्रुगृहं तथा ।पञ्चप्रकारसंयुक्ता दशा भानोः प्रकीर्तिताः ॥ ५३ ॥
  54. श्लोक 54कुंडली के 2 पठनराज्यं ददाति विपुलं दशा रवेर्लग्नसंस्थितस्य नृणाम् ।केन्द्रस्थितस्य दद्यात्कटिगलनेत्रप्रकोपमरिगस्य ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठननीचस्य दशा भानोरक्ष्णोर्नाशं ज्वरं शिरोरोगम् ।बन्धनमन्याश्च रुजः कुष्ठामयदर्शनं चिह्नम् ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनस्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरणस्य ।तुरगातपत्रचामरकरीन्द्रसंवर्द्धितं सम्यक् ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनसवितुर्दशा च पुंसो विदधाति स्वरा त्रिकोणसंस्थस्य ।उत्तमविषयपतित्वं विध्वस्ताशेषदुःखस्य ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनशत्रुगृहेऽर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम् ।ज्वालावक्त्रजरोगा भवन्ति कृमयः परिभवाश्च ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनअष्टमगतस्य भानोर्दशा क्षयं नयति सर्वगात्रं च ।भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम् ॥ ५९ ॥
  60. श्लोक 60सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन ।स्वोच्चसुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्णे च ॥ ६० ॥
  61. श्लोक 61कुंडली के 3 पठनतत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम् ।कथयति नलिनीशत्रोर्मित्रदशा स्वस्वजनसम्प्राप्तिम् ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनक्षीणेन्दुदशायोगे चिह्नान्येतानि लक्षयेद्विद्वान् ।उदरामयज्वरशिरो नयनोत्कोपप्रतिश्रयाच्चापि ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनबलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम् ।दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम् ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनभवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम् ।अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनयन्त्रतृणकाष्ठगोमयवंशकरञ्जीफलोदकाजीवी ।भवति कदन्नकुचेली नृपोऽपि भृतकोऽरिगृहदशायाम् ॥ ६५ ॥
  66. श्लोक 66कुंडली के 3 पठनलग्नगृहगस्य हि दशा मण्डललाभं तथोच्चगस्यापि ।केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम् ॥ ६६ ॥
  67. श्लोक 67कुंडली के 2 पठनकष्टदशा व्यसनकरी मरणं च करोति नैधनस्थदशा ।अस्तमितग्रहपाको बन्धनमात्रेण पीडयति ॥ ६७ ॥
  68. श्लोक 68कुंडली के 1 पठनवक्रोपगस्य हि दशा भ्रमयति च कुलालचक्रवत्पुरुषम् ।व्यसनानि रिपुविरोधं करोति पापस्य न शुभस्य ॥ ६८ ॥
  69. श्लोक 69कुंडली के 1 पठनरिक्तातिरिक्तनिम्नातिनिम्नरिपुहृतिरिपुगृहदशासु ।पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुषः ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठनदेशत्यागो व्याधिर्भ्रंशोत्थानं मुहुर्मुहुः कलहः ।बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम् ॥ ७० ॥
  71. श्लोक 71कुंडली के 1 पठनमहितकरिगलितमदजलसेकक्ष्मापीठवारितरजस्कः ।राजा कष्टसहायो रिक्तदशायां ध्रुवं भ्रमति ॥ ७१ ॥
  72. श्लोक 72कुंडली के 1 पठनअङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा ।कोणद्यूनारिदशा निधनारिदशा शिरश्छेदम् ॥ ७२ ॥
  73. श्लोक 73कुंडली के 1 पठनरिपुभयविदेशगमनं बन्धनरोगादिपीडनं भवति ।नीचस्थग्रहपाके राजाभिभवो ध्रुवं पुंसाम् ॥ ७३ ॥
  74. श्लोक 74कुंडली के 1 पठनचिन्ता स्वप्नानुभवैः परिणमति फलं विहीनवीर्यस्य ।पञ्चमहापुरुषोक्ताध्यायांस्तांस्तान्नियोजयेदत्र ॥ ७४ ॥
  75. श्लोक 75आदौ दशासु फलदः शीर्षोदयराशिसस्थितो विहगः ।उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीचर्क्षे ॥ ७५

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।