अध्याय 41: अन्तर्दशाफलम्

सारावली · Saravali (Results of the antardashas)

60 श्लोक

  1. श्लोक 1अर्धमेकस्थितो भागं त्रिभागं सुतधर्मयोः ।सप्तमे सप्तमं भागं चतुर्थं चतुरश्रयोः ॥ १ ॥
  2. श्लोक 2मूलं दशाधिनाथस्य कृत्वांशं स्वगुणैर्ग्रहः ।करोत्यन्तर्दशां सत्यां बली हरति भागशः ॥ २ ॥
  3. श्लोक 3शुभस्य शुभदः पूर्णः क्रूरस्याशुभदो भवेत् ।केन्द्रादिविधिना चान्ये केचित्पाकक्रमेण तु ॥ ३ ॥
  4. श्लोक 4सत्योक्तं तूच्यते कश्चिद्ददाति बलवान् ग्रहः ।नित्यं पाठक्रमात्कार्यः शेषास्तु परिपाकदाः ॥ ४ ॥
  5. श्लोक 5भागाः सदृशाः सहिता दशाब्दपिण्डस्य भागहारोऽयम् ।प्रत्यंशताडितः स्यात् पृथक् पृथक्कृत्वन्तरदशाः स्युः ॥ ५ ॥
  6. श्लोक 6कुंडली के 2 पठनएकर्क्षसंस्थितदशा प्रदिशति बन्धं स्वनाशं वा ।जनयति कण्टकसहिता त्रिकोणसंस्थस्य सुखमतुलम् ॥६॥
  7. श्लोक 7कुंडली के 1 पठनएकद्वित्रिचतुर्णां नक्षत्रे रिपुदशा ग्रहाणां स्यात् ।व्याधिक्लेशविवादान् नृपतेश्च भयं तदा जनयेत् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनदारमरणं च जनयति सप्तमगान्तर्दशा प्रणाशं वा ।शत्रोर्दासीकरणं परपुरुषेणोपभोगं वा ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनअन्तर्दशा ग्रहाणामष्टमधाम्नि प्रमापयेत्पुरुषम् ।कुरुते च धनविनाशं शत्रुगता बन्धनं च विध्वंसम् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनअन्तर्दशा यदा (स्याद्) द्वित्रिचतुर्णामेकराशिसंस्थानाम् ।बन्धनविनाशदैन्ये विदधात्यशुभं ग्रहाणां तु ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनचतुर्थस्थानसंस्थस्य ग्रहस्यान्तर्दशा भवेत् ।मित्रारोग्यकरं नित्यं सौख्यमानविवर्धनम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनशमयति रिपुप्रतापं नीरोगत्वं करोति धनलाभम् ।भानुदशायां चन्द्रः प्रविशंस्तन्नास्ति यन्न शुभम् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनविद्रुमसुवर्णमणयः सङ्ग्रामजयः प्रचण्डता पुंसः ।असृजो दशाप्रवेशे सूर्यदशायां भवति सौख्यम् ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनदद्रूविचर्चिकाद्यैः पाम्ना कुष्ठैश्च गर्हितशरीरः ।तरणिदशायां प्रविशति बुधो यदा स्यादरेर्वृद्धिः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनव्याधिभिररिभिर्व्यसनैः पापैश्च विमुच्यते तथाऽलक्ष्म्या ।अनुयाति धर्मपदवीं जीवस्यान्तर्दशा यदा भानोः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनशिरसो रुक् गलरोगश्छिद्रं सहसा ज्वरः शूलम् ।तपनदशायां शुक्रे देशत्यागो भवेदरिभिः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनआदित्यस्य दशायां शनैश्चरान्तर्दशा यदा भवति ।नृपपरिभूतो दीनो विपक्षसार्थेन हतशक्तिः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनक्षयरोगभयं शौर्यं नृपप्रभावं सदा विभवम् ।चन्द्रदशायां पुंसो भानुः कुरुतेऽर्थलाभं च ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनपित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा ।चन्द्रदशायां च भयं प्रमोषणं चैव चोरैश्च ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनचन्द्रदशायां ज्ञदशाप्रवेशने चिह्नमुत्तमो लाभः ।गजवाजिनां धनानां सम्प्राप्तिः सौख्यमतुलं च ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनचन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम् ।यत्नोपात्तमकस्माद्वस्त्रालङ्कारविविधहस्त्यश्वम् ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनतुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाऽऽस्फुजितः ।जलयानहारभूषणबहुपत्नीभिः समागमं कुरुते ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनस्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम् ।चन्द्रदशायां सौरिः करोति निःसंशयं पुंसाम् ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनचण्डं साहसनिरतं नरेन्द्रसंग्रामपूजितं धात्र्याम् ।विविधधनागमयुक्तं भौमदशायां करोति रविः ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनविविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम् ।वक्रदशायां चन्द्रः करोति मुक्तामणिप्रभृतीन् ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनदिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरैः ।दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनवक्रदशायां च गुरोः सुचरितकरणेन शुभधर्मा ।नृपतिर्विशुद्धचेताः पुण्यानि करोत्यनन्तानि ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनरुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्त्तिः ।व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनव्यसनानि व्यसनानां भवन्त्युपर्युपरि जनविनाशश्च ।वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनइन्दुसुतस्य दशाया प्रविशति सूर्यो यदा तदा चिह्नम् ।कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच्च ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनप्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्ठं च ।क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम् ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनरिपुरोगपापमुक्तः पुण्यानि करोति भूपतेर्मन्त्री ।जीवे चरति दशायां बुधस्य पुरुषो भवन्नियतम् ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनमस्तकशूलनिरोधैः नानाक्लेशैश्च युज्यते जन्तुः ।इन्दुसुतस्य दशायां भौमस्यान्तर्दशा यदा भवति ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनगुरुविबुधातिथिभक्तो वस्त्रालङ्कारपुष्पगन्धरुचिः ।इन्दुसुतस्य दशायां शुक्रस्यान्तर्दशा यदा भवति ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनषण्डमुखकामसेवी विलुप्तधर्मार्थभोगसुतवित्तः ।भवति नरोऽत्र दशायां बुधस्य मन्दो यदा चरति ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनरिपुभयकलहैर्मुक्तः प्रयाति गुरुतां नरेन्द्रस्य ।विक्रमसाहससौख्यैर्जीवदशायां रवौ चरति ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनपत्नीसहस्रभर्ता जितरोगरिपुः परोन्नतिं लभते ।प्रकटयति राजचिह्नं चन्द्रदशा गुरुदशायां हि ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनतीक्ष्णः परोपतापी शूरो रणलब्धकीर्त्तिधनः ।सौख्यमनन्तं लभते जीवदशायां कुजे चरति ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनवेश्यामद्यव्यसनैः परिभूतो भवति निर्धनः सोऽपि ।सौम्ये जीवदशायां विलुप्तधर्मो भवेत्पुरुषः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनव्याधिविनाशं सौख्यं मित्रैः सह सङ्गतिं तथा पूजाम् ।मातापित्रोर्भक्तिं जीवदशायां बुधे लभते ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनरिपुभयविनाशदुःखैरभिभूतो ब्राह्मणोपजीवी च ।जीवदशायां शुक्रे प्रविशति नित्यं भवेत्पुरुषः ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनवेश्यामद्यद्यूतैरभिभूतो महिषखरयुक्तः ।सौरे जीवदशायां विलुप्तधर्मो भवेत्पुरुषः ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनगण्डोदराक्षिरोगैः क्षितिपतितो बन्धनादिभिस्तप्तः ।शुक्रदशायां सूर्ये विचरति नूनं भवेत्पुरुषः ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनअन्तर्दशा दशायां सितस्य शशिनो यदा भवति चिह्नम् ।नखदशनशिरोरोगैः सह भवति च कामिलारोगः ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनपित्तासृक्कृतरोगो भूलाभः संश्रयो नृपतितश्च ।शुक्रदशायां भौमे मन्दोत्साहः पुमान् भवति ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनशुक्रदशायां पुंसां बुधस्य चान्तर्दशा यदा भवति ।युवतिकृतं धनलाभं सौख्यं च मनोरथं लभते ॥ ४६ ॥
  47. श्लोक 47कुंडली के 1 पठनअन्तर्दशा दशायां भृगोर्गुरोर्धर्मशीलसम्पत्तिम् ।विदधाति विषयराज्यं पुंसां धनरत्नमतिसौख्यम् ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनवृद्धस्त्रीभिः क्रीडां पुरनगरगणाधिपत्यमरिनाशम् ।शुक्रदशायां सौरिः करोति बहुमित्रसंयोगम् ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनधनपुत्रदारनाशं भयमतुलं सन्दधाति पुरुषस्य ।रविपुत्रस्य दशायां सूर्यस्यान्तर्दशा न सन्देहः ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनस्त्रीमरणं हरणं वा बन्धुवियोगं पुनः पुनः कलहम् ।अन्तर्दशा दशायां शनेः शशाङ्कस्य विदधाति ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनदेशभ्रंशं व्याधिं दुःखानि करोत्यनेकरूपाणि ।अन्तर्दशा दशायां रविजस्य महीसुतस्य यदा ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनसौभाग्यसौख्यविजयप्रमोदसत्कारमानधनलाभम् ।सौरिदशायां सौम्यो विदधात्यन्तर्दशाप्राप्तः ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनअनुयाति शिष्टपदवीं ग्रामादिकलत्रसौख्यसंम्पन्नैः ।रवितनयस्य दशायां प्रविशति जीवे सदा पुरुषः ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनवर्धयति मित्रपक्षं भिनत्ति शोकान्यशः प्रकाशयति ।सौरदशायां शुक्रः पत्नीधनविजयलाभकरः ॥ ५४ ॥
  55. श्लोक 55नीचोच्चादिविभेदेन शत्रुमित्रबलाबलम् ।अन्तर्दशासु मतिमान् चिन्तयेच्च प्रयत्नतः ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनअन्तर्दशा शुभायां मूलदशायां शुभा यदा भवति ।भवति तदा बहुसौख्यं धनलब्धिरतीव पुरुषाणाम् ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनरविकिरणमुषितदीप्तेर्दशा ग्रहस्य मलिनां तनुं कृत्वा ।मानयशोर्थविलासप्रतापरूपोद्यमान् हन्ति ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनहोरा जन्माधिपतेः शत्रुदशायां नरोऽतिमूढमतिः ।राज्याच्च्युतो विपक्षैरभिभूतोऽन्यं समाश्रयति ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनव्योमलग्नप्रपन्नस्य दशायां राज्यमाप्नुयात् ।नरेन्द्राणां समायोगे सुवीर्यस्याथवा पुनः ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनलग्ने जीवः सितबुधयुतः सप्तमस्थोऽर्कपुत्रःकर्मप्राप्तो दहनकिरणो भोगिनां जन्म कुर्युः ।केन्द्रे सौम्या न शुभगृहगा यत्र पापाभिधानायद्येवं स्याच्छबरनृपतिर्जायते वित्तवांश्च ॥ ६० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।