अध्याय 44: उच्चादिचिन्तनम्
सारावली · Saravali (Exaltation, own sign, friend's and enemy's signs, debility)
45 श्लोक
- श्लोक 1कुंडली के 2 पठनअत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः ।मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते ॥ १ ॥
- श्लोक 2कुंडली के 2 पठनतेजस्विनं कुतनयो दुष्प्रसहं गर्वितं प्रवासरतम् ।मेधाविनं कुलाढ्यं सुनिपुणवाक्यं बुधः स्वोच्चे ॥ २ ॥
- श्लोक 3कुंडली के 2 पठनविख्यातं गुरुराढ्यं विद्वांसं सत्कृतं कुशलम् ।स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनस्वोच्चस्थो रवितनयो नृपलब्धनियोगमभिजनयेत् ।ग्रामपुराधिपतित्वमरण्यधान्यं कुनारिलाभं च ॥ ४ ॥
- श्लोक 5कुंडली के 2 पठनभानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम् ।भोक्तारं गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम् ॥ ५ ॥
- श्लोक 6कुंडली के 2 पठनवक्रोऽपि तस्करपतिं शूरं खलु निर्दयं चापि ।सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते ॥ ६ ॥
- श्लोक 7कुंडली के 2 पठनजीवः पुनर्हितकरं महत्तरं नयविदं सुखोपेतम् ।दानवपूज्यो जनयेद्ग्रामपुरवरिष्ठमाढ्यमतिसुभगम् ॥ ७ ॥
- श्लोक 8कुंडली के 2 पठनआत्मत्रिकोण आर्किः धनतृप्तं कुलयुतं शूरम् ।तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चकर्माणम् ॥ ८ ॥
- श्लोक 9कुंडली के 2 पठनधर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मर्क्षे ।आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम् ॥९॥
- श्लोक 10कुंडली के 2 पठनशशितनयोऽपि विधत्ते वल्गुकथं पण्डितं वाऽपि ।काव्यश्रुतिज्ञमाढ्यं गुरुचेष्टं वाक्पतिः स्वराशिस्थः ॥ १० ॥
- श्लोक 11कुंडली के 2 पठनदानवपूज्यः कुरुते कृषीवलं स्फीतवित्तं च ।कुरुते शनैश्चरोऽपि च मान्यमदुःखं स्वराशिगः पुरुषम् ॥ ११ ॥
- श्लोक 12कुंडली के 2 पठनमित्रगृहेऽर्कः ख्यातं स्थिरसौहृदमर्थदातारम् ।मित्रर्क्षगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम् ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठनअङ्गारकोऽपि कुरुते सुहृद्धनारक्षणासक्तम् ।शशिजः सुहृद्गृहगतः करोति चातुर्यहास्यधनवन्तम् ॥ १३ ॥
- श्लोक 14कुंडली के 2 पठनवचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम् ।मित्रगृहे भृगुतनयः सुहृत्प्रियं दयितवित्तमतिशूरम् ॥ १४ ॥
- श्लोक 15कुंडली के 2 पठनभास्करसूनुः कुरुते परान्नभोजिनमधर्मकर्मरतम् ।नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च ॥ १५ ॥
- श्लोक 16कुंडली के 2 पठनहिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके ।नीचस्थः क्षितितनयोऽनर्थव्यसनोपतप्तमतिनीचम् ॥ १६ ॥
- श्लोक 17कुंडली के 2 पठनकुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धुवैरं च ।नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम् ॥ १७ ॥
- श्लोक 18कुंडली के 2 पठनअसुरदयितोऽस्वतन्त्रं प्रणष्टदारं विषमशीलम् ।कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च ॥ १८ ॥
- श्लोक 19कुंडली के 2 पठनकुरुते शत्रुगृहेऽर्को निःस्वं विषयप्रपीडितं चापि ।तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततम् ॥ १९ ॥
- श्लोक 20कुंडली के 2 पठनबन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः ।अज्ञानमतिविहीनं बुधोऽरिभे नैकदुःखमतिदीनम् ॥ २० ॥
- श्लोक 21कुंडली के 2 पठनक्लीबं गुरुर्विधत्ते नयहीनं धनविहीनं च ।शुक्रोऽरिगृहे भृतकं कुतन्त्रमतिदुःखितं जनयेत् ॥ २१ ॥
- श्लोक 22कुंडली के 2 पठनभास्करसुतोऽपि कुरुते मलिनं व्याध्यादिशोकसन्तप्तम् ।स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु ।नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु ॥ २२ ॥
- श्लोक 23कुंडली के 2 पठनद्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं सदा पुरुषम् ।नगरारक्षकमाढ्यं चमूपतिं त्रयः प्रथितम् ॥ २३ ॥
- श्लोक 24कुंडली के 2 पठनआढ्यं नृपात्तकीर्तिं चत्वारो राजधर्मसंयुक्तम् ।ख्यातं नृपतीष्टतमं पञ्चानेकविधवृद्धकोशं च ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनषड् ग्रहाः स्वोच्चगाः कुर्युर्नृपतिं पुरुषं सदा ।प्रदानमानसम्पन्नं बहुवाहनमण्डितम् ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनस्वोच्चं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम् ।जनयन्ति चक्रवर्तिनमवनीशं जातकं चिन्त्यम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनद्वाभ्यां त्रिकोणसंस्थाभ्यां कुटुम्बी कुलवर्द्धनः ।श्रेष्ठः प्रख्यातकीर्तिश्च ग्रहाभ्यां भुवि जायते ॥ २७ ॥
- श्लोक 28कुंडली के 2 पठनमहाधनस्त्रिभिश्चैव गणग्रामाधिनायकः ।आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसंमतः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनआरक्षकः प्रधानः सेनापुरनगरभूपकोशानाम् ।पञ्चग्रहैस्त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनविद्यादानधनौघैः समन्वितो भवति षड्भिरेव पुमान् ।राज्यं प्रशास्ति नियतं गोपालकुलेऽपि संजातः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनस्वत्रिकोणगतैः सर्वैर्भवेज्जातो महीपतिः ।वसुस्त्रीबलसम्पन्नो विद्याशास्त्रविशारदः ॥ ३१ ॥
- श्लोक 32कुंडली के 2 पठनद्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजनं धन्यम् ।वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः ॥ ३२ ॥
- श्लोक 33कुंडली के 2 पठनख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपंच चत्वारः ।पञ्चावनीश्वरसमं प्रभूतगोभूमियुवतिसम्पन्नम् ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनषड्भिः प्रवृद्धशब्दं द्युतिकोशस्वजनवाजिमानाढ्यः ।भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे ॥ ३४ ॥
- श्लोक 35कुंडली के 2 पठनराजाधिनृपं स्वर्क्षे जनयन्ति जितारिपक्षमिह सप्त ।मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः ॥ ३५ ॥
- श्लोक 36कुंडली के 2 पठनबान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेद्गुणैः ख्यातः ।ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः ॥ ३६ ॥
- श्लोक 37कुंडली के 2 पठनराजोपसेवकः स्यात्पञ्चभिराढ्यो नरेश्वरः कर्ता ।विस्तीर्णभोगवाहनवसुमान् षड्भिर्नरेन्द्रतुल्यः स्यात् ॥ ३७ ॥
- श्लोक 38कुंडली के 2 पठनसर्वैर्मित्रर्क्षगतैर्बहुवाहनभृत्यसाधनो राजा ।द्वाभ्यां नीचे नीचश्चिन्ताबहुग्रहसमेतः ॥ ३८ ॥
- श्लोक 39कुंडली के 2 पठनमूर्खोऽधर्मरतोऽस्वः त्रिभिर्ग्रहैरध्वगो नरः प्रेष्यः ।आलस्यनष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः ॥ ३९ ॥
- श्लोक 40कुंडली के 2 पठनअगृहः प्रभिन्नदारः पञ्चभिरिह कथ्यते नरो दासः ।खासभयश्रमतप्तः षड्भिर्नीचो भवेत् क्षामः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनभिक्षुस्त्यक्ताशितभुक् भवति पुमान् विगतसर्वस्वः ।नीचैः सप्तभिरखिलैर्दिक् चिरविधृताम्बरः सूतः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनद्वावरिभवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम् ।अतिपरिभूतानामपि नृणां जन्मप्रदौ कथितौ ॥ ४२ ॥
- श्लोक 43कुंडली के 2 पठनविविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननष्टवित्तानाम् ।चत्वार इष्टयोषित्पुत्रार्थविनाशजाधितप्तानाम् ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनपञ्चारिगृहे विहगा इष्टव्यसनाभिघाततप्तानाम् ।षड्रोगाङ्कितवपुषां दुःखवतां चैव जन्मकराः ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनसप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम् ।शय्याच्छादनभोजनैर्वञ्चितकानां भवन्ति सदा ॥ ४५ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।