अध्याय 52: अष्टकवर्गाध्यायः
सारावली · Saravali (Ashtakavarga)
10 श्लोक
- श्लोक 1कुंडली के 1 पठनउक्तो हि यवनवृद्धैरष्टकवर्गो निवेदयति पुंसाम् ।हेतुं शुभमशुभं वा प्रतिदिवसं संभवन्तमिह ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनस्वात्केन्द्रायनवाष्टवित्तगृहगो भौमार्कसून्वोरवि-र्जीवादायनवात्मजारिषु सितात् षड्द्वादशास्तस्थितः ।चन्द्राद्वृद्धिषु बोधनात्सनवधीरिःफेषु लग्नाच्छुभःसाम्बुद्वादशगोऽष्टवर्गविधिना संशोधितो भास्करः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनलग्नाद्भ्रातृदशायशत्रुषु शशी सास्तादिषु स्वाच्छुभःभौमात्सार्थनवात्मजेषु रवितः साष्टाङ्गनास्थो गुरोः ।केन्द्रायाष्टधनेषु धर्मसुखधीत्र्यायास्तखस्थः सितात्केन्द्रायत्रिसुताष्टगः शशिसुताद्धर्मायषट्स्वर्कजात् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनभौमो वृद्धिषु सात्मजासु रवितः साद्यासु लग्नाच्छुभःचन्द्रात्षट्त्रिफलेषु केन्द्रविवरस्वाप्तिस्थितः स्वाद्गृहात् ।धर्मायाष्टमकण्टकेषु रविजाज्ज्ञात्र्यायवीशत्रुषुशुक्रादन्त्यभवारिमृत्युषु गुरोः षड्लाभकर्मान्त्यगः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनज्ञोऽष्टायादिशुभार्थबन्धुषु सुतभ्रातृस्थितो भार्गवात्भौमार्क्योः सदृशास्तगो रिपुभवच्छिद्रान्त्यसंस्थो गुरोः ।प्राप्त्यन्त्यारितपःसुतेषु तपनात् स्वात्सत्रिकर्मादिषुस्वाज्ञायारिनवाष्टमेषु शशिनो लग्नात्सपूर्वाच्छुभः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनकेन्द्रायास्तधनेषु भूमितनयात्स्वात्सत्रिषु ब्राह्मणोभानोः सत्रिनवेषु धर्मदशधीलाभारिगो भार्गवात् ।धर्मायास्तधनात्मजेषु शशिनः कोणात् त्रिषड्धीव्ययेस्वाज्ञायाम्बुनवारिपुत्रतनुषु ज्ञात्सास्तगस्तूदयात् ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनलग्नादातनयायरन्ध्रनवगश्चन्द्रात्सितः सव्ययात्स्वात्साज्ञेषु शुभो यमान्नवदशात्मायाष्टपञ्चाम्बुषु ।त्र्यन्त्यायारिसुहृन्नवेषु रुधिराद्रिःफायरन्ध्रेष्विनात्ज्ञात्र्यायारिनवात्मजेष्वथ गुरोर्धीखाष्टधर्मायगः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनस्वात्र्यायात्मजषट्त्रिकेषु रविजः सान्त्याम्बरस्थः कुजात्भानोः केन्द्रधनायमृत्युषु तनोस्त्र्यायारिखाद्याम्बुगः ।आज्ञायाष्टनवान्त्यशत्रुषु बुधादिन्दोर्भवारित्रिषुशुक्रादन्त्यभवारिषु द्विजवरात् स्वाप्त्यायधीशत्रुगः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनइत्युक्तं शुभमन्यदेवमशुभं चारक्रमेण ग्रहाःशस्ताशस्तविशेषितं विदधति प्रोत्कृष्टमेतत्फलम् ।स्वर्क्षस्वोच्चसुहृद्गृहेषु सुतरां शस्तं त्वनिष्टं समंस्वोच्चस्वामिगता दशापतिबलाद्धन्त्यष्टवर्गोद्भवम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनरविरुधिरौ भवनं प्रविशन्तौ गुरुभृगुजौ गृहमध्यसमेतौ ।शनिशशिनौ खलु निर्गमकाले शशितनयः फलदस्तु सदैव ॥ १० ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।