अध्याय 38: राजयोगभङ्गाध्यायः

सारावली · Saravali (Cancellation of raja yogas)

24 श्लोक

  1. श्लोक 1विस्तरतो निर्दिष्टाः क्षितिपतियोगा विचित्रसंस्थानाः ।भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनकुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे विलग्ने ।निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योगः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनअन्त्याष्टमादिभागे चरराश्यादिषु शशी यदा क्षीणः ।एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनसर्वे क्रूराः केन्द्रे नीचारिगता न सौम्ययुतदृष्टाः ।शुभदा व्ययरिपुरन्ध्रे तदाऽपि भङ्गो भवेन्नृपतेः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनलग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्गः ।भवति हि नृपयोगानां दारिद्र्याय प्रजातस्य ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनघटोदये नीचगतैस्त्रिभिर्ग्रहैर्बृहस्पतौ सूर्ययुते च नीचगे ।एकोऽपि नोच्चे तु शुभेन सङ्गताः प्रयान्ति नाशं शतशो नृपोद्भवाः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनशून्येषु केन्द्रेषु शुभैर्नवेन्दावस्तं गतैर्नीचमथ प्रयातैः ।चतुर्ग्रहैर्वाऽपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योगः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनस्वांशे रवौ शीतकरे विनष्टे पापैश्च दृष्टे शुभदृष्टिहीने ।कृत्वाऽपि राज्यं च वने मनुष्यः पश्चात्सुदुःखं लभते गताशः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनशिशिरकिरणशत्रुर्लग्नपश्चन्द्रदृष्टःसहजरिपुमदस्था भानुभूपुत्रमन्दाः ।शुभविरहितकेन्द्रैरस्तगैर्वाऽपि सौम्यैःनृपतिजननयोगा यान्ति नाशं क्षणेन ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनपञ्चभिर्निम्नगैः खेटैरस्तं यातैरथापि वा ।प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्त्तिताः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनउल्कायाः पतने चैव निर्घातव्यतिपातयोः ।केतोश्च दर्शने चैव यान्ति नाशं नृपोद्भवाः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनअन्यैः क्रूरोत्पातैस्त्रिशङ्कुतारा यदोदयं यान्ति ।सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनकर्तारो नृपतीनां गगनसदो युद्धकाङ्क्षिणो मलिनाः ।रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनपरनीचं गते चन्द्रे क्षीणो योगो महीपतेः ।नाशमायाति राजेव दैवज्ञप्रतिलोमगः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनतुलायां पद्मिनीबन्धुस्त्रिंशांशे दशमे स्थितः ।हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम् ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनजूकस्य दशमे भागे स्थितः कमलबोधनः ।सहस्रं राजयोगानां मन्दमेव करोत्यसौ ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनस्वत्रिकोणगृहं केचित् स्वोच्चं याताः स्वमन्दिरम् ।अतिनीचे रविश्चैको न तेषां फलसंभवः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनगुरुर्मृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम् ।कामार्तमधनं वेश्या यद्वदिन्दुर्न चेत्स्वभे ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनएकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः ।विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात् ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनभिक्षामटति त्र्याद्यैर्नीचर्क्षगतैः सुदुःखितो मलिनः ।सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनअत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगैश्च गगनचरैः ।नाशं प्रयाति राजा यदि रविचन्द्रौ न तुङ्गस्थौ ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनसचिवो दानवेन्द्रस्य नीचांशे समवस्थितः ।संप्राप्तमतुलं राज्यं नरैर्हापयते ध्रुवम् ॥ २२ ॥
  23. श्लोक 23राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः ।परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात् ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनकमलभवनबन्धुः कन्ययालिङ्गिताङ्ग-स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः ।न च यदि परिशेषैर्दृश्यते स्यात्स भूपःप्रचलितगजमेघच्छादिताशा नभोभ्रः ॥ २४ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।